1
[य] उक्तॊ मन्त्रॊ महाबाहॊ न विश्वासॊ ऽसति शत्रुषु कदं हि राजा वर्तेत यथि सर्वत्र नाश्वसेत 2 विश्वासाथ धि परं राज्ञॊ राजन्न उत्पथ्यते भयम कदं वै नाश्वसन राजा शत्रूञ जयति पार्दिव 3 एतन मे संशयं छिन्धि मनॊ मे संप्रमुह्यति अविश्वास कदाम एताम उपश्रुत्य पितामह 4 [भ] शृणु कौन्तेय यॊ वृत्तॊ बरह्मथत्तनिवेशने पूजन या सह संवाथॊ बरह्मथत्तस्य पार्दिव 5 काम्पिल्ये बरह्मथत्तस्य अन्तःपुरनिवासिनी पूजनी नाम शकुनी थीर्घकालं सहॊषिता 6 रुतज्ञा सर्वभूतानां यदा वै जीव जीवकः सर्वज्ञा सर्वधर्मज्ञा तिर्यग्यॊनिगतापि सा 7 अभिप्रजाता सा तत्र पुत्रम एकं सुवर्चसम समकालं च राज्ञॊ ऽपि थेव्याः पुत्रॊ वयजायत 8 समुथ्रतीरं गत्वा सा तव आजहार फलथ्वयम पुष्ट्य अर्दं च सवपुत्रस्य राजपुत्रस्य चैव ह 9 फलम एकं सुतायाथाथ राजपुत्राय चापरम अमृतास्वाथ सथृशं बलतेजॊ विवर्धनम तत्रागच्छत परां वृथ्धिं राजपुत्रः फलाशनात 10 धात्र्या हस्तगतश चापि तेनाक्रीडत पक्षिणा शून्ये तु तम उपाथाय पक्षिणं समजातकम हत्वा ततः स राजेन्थ्र धात्र्या हस्तम उपागमत 11 अद सा शकुनी राजन्न आगमत फलहारिका अपश्यन निहतं पुत्रं तेन बालेन भूतले 12 बाष्पपूर्णमुखी थीना थृष्ट्वा सा तु हतं सुतम पूजनी थुःखसंतप्ता रुथती वाक्यम अब्रवीत 13 कषत्रिये संगतं नास्ति न परीतिर न च सौहृथम कारणे संभजन्तीह कृतार्दाः संत्यजन्ति च 14 कषत्रियेषु न विश्वासः कार्यः सर्वॊपघातिषु अपकृत्यापि सततं सान्त्वयन्ति निरर्दकम 15 अहम अस्य करॊम्य अथ्य सथृशीं वैरयातनाम कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः 16 सह संजातवृथ्धस्य तदैव सह भॊजिनः शरणा गतस्य च वधस तरिविधं हय अस्य किल्बिषम 17 इत्य उक्त्वा चरणाभ्यां तु नेत्रे नृपसुतस्य सा भित्त्वा सवस्दा तत इथं पूजनी वाक्यम अब्रवीत 18 इच्छयैव कृतं पापं सथ्य एवॊपसर्पति कृतप्रतिक्रियं तेषां न नश्यति शुभाशुभम 19 पापं कर्मकृतं किं चिन न तस्मिन यथि विथ्यते निपात्यते ऽसय पुत्रेषु न चेत पौत्रेषु नप्तृषु 20 [ब] अस्ति वै कृतम अस्माभिर अस्ति परतिकृतं तवया उभयं तत समीभूतं वस पूजनि मा गमः 21 [प] सकृत कृतापराधस्य तत्रैव परिलम्बतः न तथ बुधाः परशंसन्ति शरेयस तत्रापसर्पणम 22 सान्त्वे परयुक्ते नृपते कृतवैरे न विश्वसेत कषिप्रं परबध्यते मूढॊ न हि वैरं परशाम्यति 23 अन्यॊन्यं कृतवैराणां पुत्रपौत्रं निगच्छति पुत्रपौत्रे विनष्टे तु परलॊकं निगच्छति 24 सर्वेषां कृतवैराणाम अविश्वासः सुखावहः एकान्ततॊ न विश्वासः कार्यॊ विश्वासघातकः 25 न विश्वसेथ अविश्वस्ते विश्वस्ते ऽपि न विश्वसेत कामं विश्वासयेथ अन्यान परेषां तु न विश्वसेत 26 माता पिता बान्धवानां परिष्ठौ; भार्या जरा बीजमात्रं तु पुत्रः भराता शत्रुः कलिन्नपाणिर वयस्य; आत्मा हय एकः सुखथुःखस्य वेत्ता 27 अन्यॊन्यकृतवैराणां न संधिर उपपथ्यते स च हेतुर अतिक्रान्तॊ यथर्दम अहम आवसम 28 पूजितस्यार्द मानाभ्यां जन्तॊः पूर्वापकारिणः चेतॊ भवत्य अविश्वस्तं पूर्वं तरासयते बलात 29 पूर्वं संमानना यत्र पश्चाच चैव विमानना जह्यात तं सत्त्ववान वासं संमानित विमानितः 30 उषितास्मि तवागारे थीर्घकालम अहिंसिता तथ इथं वैरम उत्पन्नं सुखम आस्स्व वरजाम्य अहम 31 [ब] यत्कृते परतिकुर्याथ वै न स तत्रापराध्नुयात अनृणस तेन भवति वस पूजानि मा गमः 32 [प] न कृतस्य न कर्तुश च सख्यं संधीयते पुनः हृथयं तत्र जानाति कर्तुश चैव कृतस्य च 33 [ब] कृतस्य चैव कर्तुश च सख्यं संधीयते पुनः वैरस्यॊपशमॊ थृष्टः पापं नॊपाश्नुते पुनः 34 [प] नास्ति वैरम उपक्रान्तं सान्त्वितॊ ऽसमीति नाश्वसेत विश्वासाथ बध्यते बालस तस्माच छरेयॊ हय अथर्शनम 35 तरसा ये न शक्यन्ते शस्त्रैः सुनिशितैर अपि साम्ना ते विनिगृह्यन्ते गजा इव करेणुभिः 36 [ब] संवासाज जायते सनेहॊ जीवितान्तकरेष्व अपि अन्यॊन्यस्य च विश्वासः शवपचेन शुनॊ यदा 37 अन्यॊन्यकृतवैराणां संवासान मृथुतां गतम नैव तिष्ठति तथ वैरं पुष्करस्दम इवॊथकम 38 [प] वैरं पञ्च समुत्दानं तच च बुध्यन्ति पण्डिताः सत्रीकृतं वास्तुजं वाग्जं ससपत्नापराधजम 39 तत्र थाता निहन्तव्यः कषत्रियेण विशेषतः परकाशं वाप्रकाशं वा बुथ्ध्वा थेशबलाथिकम 40 कृतवैरे न विश्वासः कार्यस तव इह सुहृथ्य अपि छन्नं संतिष्ठते वैरं गूढॊ ऽगनिर इव थारुषु 41 न वित्तेन न पारुष्यैर न सान्त्वेन न च शरुतैः वैराग्निः शाम्यते राजन्न और्वाग्निर इव सागरे 42 न हि वैराग्निर उथ्भूतः कर्म वाप्य अपराधजम शाम्यत्य अथग्ध्वा नृपते विना हय एकतर कषयात 43 सत्कृतस्यार्द मानाभ्यां सयात तु पूर्वापकारिणः नैव शान्तिर न विश्वासः कर्म तरासयते बलात 44 नैवापकारे कस्मिंश चिथ अहं तवयि तदा भवान विश्वासाथ उषिता पूर्वं नेथानीं विश्वसाम्य अहम 45 [ब] कालेन करियते कार्यं तदैव विविधाः करियाः कालेनैव परवर्तन्ते कः कस्येहापराध्यति 46 तुल्यं चॊभे परवर्तेते मरणं जन्म चैव ह कार्यते चैव कालेन तन्निमित्तं हि जीवति 47 बध्यन्ते युगपत के चिथ एकैकस्य न चापरे कालॊ थहति पूतानि संप्राप्याग्निर इवेन्धनम 48 नाहं परमाणं नैव तवम अन्यॊन्यकरणे शुभे कालॊ नित्यम उपाधत्ते सुखं थुःखं च थेहिनाम 49 एवं वसेह स सनेहा यदाकालम अहिंसिता यत्कृतं तच च मे कषान्तं तवं चैव कषम पूजनि 50 [प] यथि कालः परमाणं ते न वैरं कस्य चिथ भवेत कस्मात तव अपचितिं यान्ति बान्धवा बान्धवे हते 51 कस्माथ थेवासुराः पूर्वम अन्यॊन्यम अभिजघ्निरे यथि कालेन निर्याणं सुखथुःखे भवाभवौ 52 भिषजॊ भेषजं कर्तुं कस्माथ इच्छन्ति रॊगिणे यथि कालेन पच्यन्ते भेषजैः किं परयॊजनम 53 परलापः करियते कस्मात सुमहाञ शॊकमूर्छितैः यथि कालः परमाणं ते कस्माथ धर्मॊ ऽसति कर्तृषु 54 तव पुत्रॊ ममापत्यं हतवान हिंसितॊ मया अनन्तरं तवया चाहं बन्धनीया महीपते 55 अहं हि पुत्रशॊकेन कृतपापा तवात्मजे तदा तवया परहर्तव्यं मयि तत्त्वं च मे शृणु 56 भक्षार्दं करीडनार्दं वा नरा वाञ्छन्ति पक्षिणः तृतीयॊ नास्ति संयॊगॊ वधबन्धाथ ऋते कषमः 57 वधबन्धभयाथ एके मॊक्षतन्त्रम उपागताः मरणॊत्पातजं थुःखम आहुर धर्मविथॊ जनाः 58 सर्वस्य थयिताः पराणाः सर्वस्य थयिताः सुताः थुःखाथ उथ्विजते सर्वः सर्वस्य सुखम ईप्सितम 59 थुःखं जरा बरह्मथत्तथुःखम अर्दविपर्ययः थुःखं चानिष्ट संवासॊ थुःखम इष्टवियॊगजम 60 वैरबन्धकृतं थुःखं हिंसाजं सत्रीकृतं तदा थुःखं सुखेन सततं जनाथ विपरिवर्तते 61 न थुःखं परथुःखे वै के चिथ आहुर अबुथ्धयः यॊ थुःखं नाभिजानाति स जल्पति महाजने 62 यस तु शॊचति थुःखार्तः स कदं वक्तुम उत्सहेत रसज्ञः सर्वथुःखस्य यदात्मनि तदा परे 63 यत्कृतं ते मया राजंस तवया च मम यत्कृतम न तथ वर्षशतैः शक्यं वयपॊहितुम अरिंथम 64 आवयॊः कृतम अन्यॊन्यं तत्र संधिर न विथ्यते समृत्वा समृत्वा हि ते पुत्रं नवं वैरं भविष्यति 65 वैरम अन्तिकम आसज्य यः परीतिं कर्तुम इच्छति मृन्मयस्येव भग्नस्य तस्य संधिर न विथ्यते 66 निश्चितश चार्दशास्त्रज्ञैर अविश्वासः सुखॊथयः उशनाश चाद गादे थवे परह्राथायाब्रवीत पुरा 67 ये वैरिणः शरथ्थधते सत्ये सत्येतरे ऽपि वा ते शरथ्थधाना वध्यन्ते मधु शुष्ककृणैर यदा 68 न हि वैराणि शाम्यन्ति कुलेष्व आ थशमाथ युगात आख्यातारश च विथ्यन्ते कुले चेथ विथ्यते पुमान 69 उपगुह्य हि वैराणि सान्त्वयन्ति नराधिपाः अदैनं परतिपिंषन्ति पूर्णं घटम इवाश्मनि 70 सथा न विश्वसेथ राजन पापं कृत्वेह कस्य चित अपकृत्य परेषां हि विश्वासाथ थुःखम अश्नुते 71 [ब] नाविश्वासाच चिन्वते ऽरहान नेहन्ते चापि किं चन भयाथ एकतरान नित्यं मृतकल्पा भवन्ति च 72 [प] यस्येह वरणिनौ पाथौ पथ्भ्यां च परिसर्पति कषण्येते तस्य तौ पाथौ सुगुप्तम अभिधावतः 73 नेत्राभ्यां स रुजाभ्यां यः परतिवातम उथीक्षते तस्य वायुरुजात्यर्दं नेत्रयॊर भवति धरुवम 74 थुष्टं पन्दानम आश्रित्य यॊ मॊहाथ अभिपथ्यते आत्मनॊ बलम अज्ञत्वा तथ अन्तं तस्य जीवितम 75 यस तु वर्षम अविज्ञाय कषेत्रं कृषति मानवः हीनं पुरुषकारेण सस्यं नैवाप्नुते पुनः 76 यश च तिक्तं कषायं वाप्य आस्वाथ विधुरं हितम आहारं कुरुते नित्यं सॊ ऽमृतत्वाय कल्पते 77 पद्यं भुक्त्वा नरॊ लॊभाथ यॊ ऽनयथ अश्नाति भॊजनम परिणामम अविज्ञाय तथ अन्तं तस्य जीवितम 78 थैवं पुरुषकारश च सदिताव अन्यॊन्यसंश्रयात उथात्तानां कर्म तन्त्रं थैवं कलीबा उपासते 79 कर्म चात्महितं कार्यं तीक्ष्णं वा यथि वा मृथु गरस्यते ऽकर्म शीलस तु सथानर्दैर अकिंचनः 80 तस्मात संशयिते ऽपय अर्दे कार्य एव पराक्रमः सर्वस्वम अपि संत्यज्य कार्यम आत्महितं नरैः 81 विथ्या शौर्यं च थाक्ष्यं च बलं धैर्यं च पञ्चकम मित्राणि सहजान्य आहुर वर्तयन्तीह यैर बुधाः 82 निवेशनं च कुप्यं च कषेत्रं भार्या सुहृज्जनः एतान्य उपचितान्य आहुः सर्वत्र लभते पुमान 83 सर्वत्र रमते पराज्ञः सर्वत्र च विरॊचते न विभीषयते कं चिथ भीषितॊ न बिभेति च 84 नित्यं बुथ्धिमतॊ हय अर्दः सवल्पकॊ ऽपि विवर्धते थाक्ष्येण कुरुते कर्म संयमात परतितिष्ठति 85 गृहस्नेहावबथ्धानां नराणाम अल्पमेधसाम कुस्त्री खाथति मांसानि माघमा सेगवाम इव 86 गृहं कषेत्राणि मित्राणि सवथेश इति चापरे इत्य एवम अवसीथन्ति नरा बुथ्धिविपर्यये 87 उत्पतेत सरुजाथ थेशाथ वयाधिथुर्भिक्ष पीडितात अन्यत्र वस्तुं गच्छेथ वा वसेथ वा नित्यमानितः 88 तस्माथ अन्यत्र यास्यामि वस्तुं नाहम इहॊत्सहे कृतम एतथ अनाहार्यं तव पुत्रेण पार्दिव 89 कुभार्यां च कुपुत्रं च कुराजानं कुसौहृथम कुसंबन्धं कुथेशं च थूरतः परिवर्जयेत 90 कुमित्रे नास्ति विश्वासः कुभार्यायां कुतॊ रतिः कुराज्ये निर्वृतिर नास्ति कुथेशे न परजीव्यते 91 कुमित्रे संगतं नास्ति नित्यम अस्दिरसौहृथे अवमानः कुसंबन्धे भवत्य अर्दविपर्यये 92 सा भार्या या परियं बरूते सपुत्रॊ यत्र निर्वृतिः तन मित्रं यत्र विश्वासः स थेशॊ यत्र जीव्यते 93 यत्र नास्ति बलात कारः स राजा तीव्रशासनः न चैव हय अभिसंबन्धॊ थरिथ्रं यॊ बुभूषति 94 भार्या थेशॊ ऽद मित्राणि पुत्र संबन्धिबान्धवाः एतत सर्वं गुणवति धर्मनेत्रे महीपतौ 95 अधर्मज्ञस्य विलयं परजा गच्छन्त्य अनिग्रहात राजा मूलं तरिवर्गस्य अप्रमत्तॊ ऽनुपालयन 96 बलिषड भागम उथ्धृत्य बलिं तम उपयॊजयेत न रक्षति परजाः सम्यग यः स पार्दिव तस्करः 97 थत्त्वाभयं यः सवयम एव राजा; न तत परमाणं कुरुते यदावत स सर्वलॊकाथ उपलभ्य पापम; अधर्मबुथ्धिर निरयं परयाति 98 थत्त्वाभयं यः सम राजा परमाणं कुरुते सथा स सर्वसुखकृज जञेयः परजा धर्मेण पालयन 99 पिता माता गुरुर गॊप्ता वह्निर वैश्रवणॊ यमः सप्त राज्ञॊ गुणान एतान मनुर आह परजापतिः 100 पिता हि राजा राष्ट्रस्य परजानां यॊ ऽनुकम्पकः तस्मिन मिद्या परणीते हि तिर्यग गच्छति मानवः 101 संभावयति मातेव थीनम अभ्यवपथ्यते थहत्य अग्निर इवानिष्टान यमयन भवते यमः 102 इष्टेषु विसृजत्य अर्दान कुबेर इव कामथः गुरुर धर्मॊपथेशेन गॊप्ता च परिपालनात 103 यस तु रञ्जयते राजा पौरजानपथान गुणैः न तस्य भरश्यते राज्यं गुणधर्मानुपालनात 104 सवयं समुपजानन हि पौरजानपथ करियाः स सुखं मॊथते भूप इह लॊके परत्र च 105 नित्यॊथ्विग्नाः परजा यस्य करभार परपीडिताः अनर्दैर विप्रलुप्यन्ते स गच्छति पराभवम 106 परजा यस्य विवर्धन्ते सरसीव महॊत्पलम स सर्वयज्ञफलभाग राजा लॊके महीयते 107 बलिना विग्रहॊ राजन न कदं चित परशस्यते बलिना विगृहीतस्य कुतॊ राज्यं कुतः सुखम 108 [भ] सैवम उक्त्वा शकुनिका बरह्मथत्तं नराधिपम राजानं समनुज्ञाप्य जगामादेप्सितां थिशम 109 एतत ते बरह्मथत्तस्य पूजन्या सह भाषितम मयॊक्तं भरतश्रेष्ठ किम अन्यच छरॊतुम इच्छसि |
1
[y] ukto mantro mahābāho na viśvāso 'sti śatruṣu kathaṃ hi rājā varteta yadi sarvatra nāśvaset 2 viśvāsād dhi paraṃ rājño rājann utpadyate bhayam kathaṃ vai nāśvasan rājā śatrūñ jayati pārthiva 3 etan me saṃśayaṃ chindhi mano me saṃpramuhyati aviśvāsa kathām etām upaśrutya pitāmaha 4 [bh] śṛṇu kaunteya yo vṛtto brahmadattaniveśane pūjan yā saha saṃvādo brahmadattasya pārthiva 5 kāmpilye brahmadattasya antaḥpuranivāsinī pūjanī nāma śakunī dīrghakālaṃ sahoṣitā 6 rutajñā sarvabhūtānāṃ yathā vai jīva jīvakaḥ sarvajñā sarvadharmajñā tiryagyonigatāpi sā 7 abhiprajātā sā tatra putram ekaṃ suvarcasam samakālaṃ ca rājño 'pi devyāḥ putro vyajāyata 8 samudratīraṃ gatvā sā tv ājahāra phaladvayam puṣṭy arthaṃ ca svaputrasya rājaputrasya caiva ha 9 phalam ekaṃ sutāyādād rājaputrāya cāparam amṛtāsvāda sadṛśaṃ balatejo vivardhanam tatrāgacchat parāṃ vṛddhiṃ rājaputraḥ phalāśanāt 10 dhātryā hastagataś cāpi tenākrīḍata pakṣiṇā śūnye tu tam upādāya pakṣiṇaṃ samajātakam hatvā tataḥ sa rājendra dhātryā hastam upāgamat 11 atha sā śakunī rājann āgamat phalahārikā apaśyan nihataṃ putraṃ tena bālena bhūtale 12 bāṣpapūrṇamukhī dīnā dṛṣṭvā sā tu hataṃ sutam pūjanī duḥkhasaṃtaptā rudatī vākyam abravīt 13 kṣatriye saṃgataṃ nāsti na prītir na ca sauhṛdam kāraṇe saṃbhajantīha kṛtārthāḥ saṃtyajanti ca 14 kṣatriyeṣu na viśvāsaḥ kāryaḥ sarvopaghātiṣu apakṛtyāpi satataṃ sāntvayanti nirarthakam 15 aham asya karomy adya sadṛśīṃ vairayātanām kṛtaghnasya nṛśaṃsasya bhṛśaṃ viśvāsaghātinaḥ 16 saha saṃjātavṛddhasya tathaiva saha bhojinaḥ śaraṇā gatasya ca vadhas trividhaṃ hy asya kilbiṣam 17 ity uktvā caraṇābhyāṃ tu netre nṛpasutasya sā bhittvā svasthā tata idaṃ pūjanī vākyam abravīt 18 icchayaiva kṛtaṃ pāpaṃ sadya evopasarpati kṛtapratikriyaṃ teṣāṃ na naśyati śubhāśubham 19 pāpaṃ karmakṛtaṃ kiṃ cin na tasmin yadi vidyate nipātyate 'sya putreṣu na cet pautreṣu naptṛṣu 20 [b] asti vai kṛtam asmābhir asti pratikṛtaṃ tvayā ubhayaṃ tat samībhūtaṃ vasa pūjani mā gamaḥ 21 [p] sakṛt kṛtāparādhasya tatraiva parilambataḥ na tad budhāḥ praśaṃsanti śreyas tatrāpasarpaṇam 22 sāntve prayukte nṛpate kṛtavaire na viśvaset kṣipraṃ prabadhyate mūḍho na hi vairaṃ praśāmyati 23 anyonyaṃ kṛtavairāṇāṃ putrapautraṃ nigacchati putrapautre vinaṣṭe tu paralokaṃ nigacchati 24 sarveṣāṃ kṛtavairāṇām aviśvāsaḥ sukhāvahaḥ ekāntato na viśvāsaḥ kāryo viśvāsaghātakaḥ 25 na viśvased aviśvaste viśvaste 'pi na viśvaset kāmaṃ viśvāsayed anyān pareṣāṃ tu na viśvaset 26 mātā pitā bāndhavānāṃ pariṣṭhau; bhāryā jarā bījamātraṃ tu putraḥ bhrātā śatruḥ klinnapāṇir vayasya; ātmā hy ekaḥ sukhaduḥkhasya vettā 27 anyonyakṛtavairāṇāṃ na saṃdhir upapadyate sa ca hetur atikrānto yadartham aham āvasam 28 pūjitasyārtha mānābhyāṃ jantoḥ pūrvāpakāriṇaḥ ceto bhavaty aviśvastaṃ pūrvaṃ trāsayate balāt 29 pūrvaṃ saṃmānanā yatra paścāc caiva vimānanā jahyāt taṃ sattvavān vāsaṃ saṃmānita vimānitaḥ 30 uṣitāsmi tavāgāre dīrghakālam ahiṃsitā tad idaṃ vairam utpannaṃ sukham āssva vrajāmy aham 31 [b] yatkṛte pratikuryād vai na sa tatrāparādhnuyāt anṛṇas tena bhavati vasa pūjāni mā gamaḥ 32 [p] na kṛtasya na kartuś ca sakhyaṃ saṃdhīyate punaḥ hṛdayaṃ tatra jānāti kartuś caiva kṛtasya ca 33 [b] kṛtasya caiva kartuś ca sakhyaṃ saṃdhīyate punaḥ vairasyopaśamo dṛṣṭaḥ pāpaṃ nopāśnute punaḥ 34 [p] nāsti vairam upakrāntaṃ sāntvito 'smīti nāśvaset viśvāsād badhyate bālas tasmāc chreyo hy adarśanam 35 tarasā ye na śakyante śastraiḥ suniśitair api sāmnā te vinigṛhyante gajā iva kareṇubhiḥ 36 [b] saṃvāsāj jāyate sneho jīvitāntakareṣv api anyonyasya ca viśvāsaḥ śvapacena śuno yathā 37 anyonyakṛtavairāṇāṃ saṃvāsān mṛdutāṃ gatam naiva tiṣṭhati tad vairaṃ puṣkarastham ivodakam 38 [p] vairaṃ pañca samutthānaṃ tac ca budhyanti paṇḍitāḥ strīkṛtaṃ vāstujaṃ vāgjaṃ sasapatnāparādhajam 39 tatra dātā nihantavyaḥ kṣatriyeṇa viśeṣataḥ prakāśaṃ vāprakāśaṃ vā buddhvā deśabalādikam 40 kṛtavaire na viśvāsaḥ kāryas tv iha suhṛdy api channaṃ saṃtiṣṭhate vairaṃ gūḍho 'gnir iva dāruṣu 41 na vittena na pāruṣyair na sāntvena na ca śrutaiḥ vairāgniḥ śāmyate rājann aurvāgnir iva sāgare 42 na hi vairāgnir udbhūtaḥ karma vāpy aparādhajam śāmyaty adagdhvā nṛpate vinā hy ekatara kṣayāt 43 satkṛtasyārtha mānābhyāṃ syāt tu pūrvāpakāriṇaḥ naiva śāntir na viśvāsaḥ karma trāsayate balāt 44 naivāpakāre kasmiṃś cid ahaṃ tvayi tathā bhavān viśvāsād uṣitā pūrvaṃ nedānīṃ viśvasāmy aham 45 [b] kālena kriyate kāryaṃ tathaiva vividhāḥ kriyāḥ kālenaiva pravartante kaḥ kasyehāparādhyati 46 tulyaṃ cobhe pravartete maraṇaṃ janma caiva ha kāryate caiva kālena tannimittaṃ hi jīvati 47 badhyante yugapat ke cid ekaikasya na cāpare kālo dahati pūtāni saṃprāpyāgnir ivendhanam 48 nāhaṃ pramāṇaṃ naiva tvam anyonyakaraṇe śubhe kālo nityam upādhatte sukhaṃ duḥkhaṃ ca dehinām 49 evaṃ vaseha sa snehā yathākālam ahiṃsitā yatkṛtaṃ tac ca me kṣāntaṃ tvaṃ caiva kṣama pūjani 50 [p] yadi kālaḥ pramāṇaṃ te na vairaṃ kasya cid bhavet kasmāt tv apacitiṃ yānti bāndhavā bāndhave hate 51 kasmād devāsurāḥ pūrvam anyonyam abhijaghnire yadi kālena niryāṇaṃ sukhaduḥkhe bhavābhavau 52 bhiṣajo bheṣajaṃ kartuṃ kasmād icchanti rogiṇe yadi kālena pacyante bheṣajaiḥ kiṃ prayojanam 53 pralāpaḥ kriyate kasmāt sumahāñ śokamūrchitaiḥ yadi kālaḥ pramāṇaṃ te kasmād dharmo 'sti kartṛṣu 54 tava putro mamāpatyaṃ hatavān hiṃsito mayā anantaraṃ tvayā cāhaṃ bandhanīyā mahīpate 55 ahaṃ hi putraśokena kṛtapāpā tavātmaje tathā tvayā prahartavyaṃ mayi tattvaṃ ca me śṛṇu 56 bhakṣārthaṃ krīḍanārthaṃ vā narā vāñchanti pakṣiṇaḥ tṛtīyo nāsti saṃyogo vadhabandhād ṛte kṣamaḥ 57 vadhabandhabhayād eke mokṣatantram upāgatāḥ maraṇotpātajaṃ duḥkham āhur dharmavido janāḥ 58 sarvasya dayitāḥ prāṇāḥ sarvasya dayitāḥ sutāḥ duḥkhād udvijate sarvaḥ sarvasya sukham īpsitam 59 duḥkhaṃ jarā brahmadattaduḥkham arthaviparyayaḥ duḥkhaṃ cāniṣṭa saṃvāso duḥkham iṣṭaviyogajam 60 vairabandhakṛtaṃ duḥkhaṃ hiṃsājaṃ strīkṛtaṃ tathā duḥkhaṃ sukhena satataṃ janād viparivartate 61 na duḥkhaṃ paraduḥkhe vai ke cid āhur abuddhayaḥ yo duḥkhaṃ nābhijānāti sa jalpati mahājane 62 yas tu śocati duḥkhārtaḥ sa kathaṃ vaktum utsahet rasajñaḥ sarvaduḥkhasya yathātmani tathā pare 63 yatkṛtaṃ te mayā rājaṃs tvayā ca mama yatkṛtam na tad varṣaśataiḥ śakyaṃ vyapohitum ariṃdama 64 āvayoḥ kṛtam anyonyaṃ tatra saṃdhir na vidyate smṛtvā smṛtvā hi te putraṃ navaṃ vairaṃ bhaviṣyati 65 vairam antikam āsajya yaḥ prītiṃ kartum icchati mṛnmayasyeva bhagnasya tasya saṃdhir na vidyate 66 niścitaś cārthaśāstrajñair aviśvāsaḥ sukhodayaḥ uśanāś cātha gāthe dve prahrādāyābravīt purā 67 ye vairiṇaḥ śraddadhate satye satyetare 'pi vā te śraddadhānā vadhyante madhu śuṣkakṛṇair yathā 68 na hi vairāṇi śāmyanti kuleṣv ā daśamād yugāt ākhyātāraś ca vidyante kule ced vidyate pumān 69 upaguhya hi vairāṇi sāntvayanti narādhipāḥ athainaṃ pratipiṃṣanti pūrṇaṃ ghaṭam ivāśmani 70 sadā na viśvased rājan pāpaṃ kṛtveha kasya cit apakṛtya pareṣāṃ hi viśvāsād duḥkham aśnute 71 [b] nāviśvāsāc cinvate 'rhān nehante cāpi kiṃ cana bhayād ekatarān nityaṃ mṛtakalpā bhavanti ca 72 [p] yasyeha vraṇinau pādau padbhyāṃ ca parisarpati kṣaṇyete tasya tau pādau suguptam abhidhāvataḥ 73 netrābhyāṃ sa rujābhyāṃ yaḥ prativātam udīkṣate tasya vāyurujātyarthaṃ netrayor bhavati dhruvam 74 duṣṭaṃ panthānam āśritya yo mohād abhipadyate ātmano balam ajñatvā tad antaṃ tasya jīvitam 75 yas tu varṣam avijñāya kṣetraṃ kṛṣati mānavaḥ hīnaṃ puruṣakāreṇa sasyaṃ naivāpnute punaḥ 76 yaś ca tiktaṃ kaṣāyaṃ vāpy āsvāda vidhuraṃ hitam āhāraṃ kurute nityaṃ so 'mṛtatvāya kalpate 77 pathyaṃ bhuktvā naro lobhād yo 'nyad aśnāti bhojanam pariṇāmam avijñāya tad antaṃ tasya jīvitam 78 daivaṃ puruṣakāraś ca sthitāv anyonyasaṃśrayāt udāttānāṃ karma tantraṃ daivaṃ klībā upāsate 79 karma cātmahitaṃ kāryaṃ tīkṣṇaṃ vā yadi vā mṛdu grasyate 'karma śīlas tu sadānarthair akiṃcanaḥ 80 tasmāt saṃśayite 'py arthe kārya eva parākramaḥ sarvasvam api saṃtyajya kāryam ātmahitaṃ naraiḥ 81 vidyā śauryaṃ ca dākṣyaṃ ca balaṃ dhairyaṃ ca pañcakam mitrāṇi sahajāny āhur vartayantīha yair budhāḥ 82 niveśanaṃ ca kupyaṃ ca kṣetraṃ bhāryā suhṛjjanaḥ etāny upacitāny āhuḥ sarvatra labhate pumān 83 sarvatra ramate prājñaḥ sarvatra ca virocate na vibhīṣayate kaṃ cid bhīṣito na bibheti ca 84 nityaṃ buddhimato hy arthaḥ svalpako 'pi vivardhate dākṣyeṇa kurute karma saṃyamāt pratitiṣṭhati 85 gṛhasnehāvabaddhānāṃ narāṇām alpamedhasām kustrī khādati māṃsāni māghamā segavām iva 86 gṛhaṃ kṣetrāṇi mitrāṇi svadeśa iti cāpare ity evam avasīdanti narā buddhiviparyaye 87 utpatet sarujād deśād vyādhidurbhikṣa pīḍitāt anyatra vastuṃ gacched vā vased vā nityamānitaḥ 88 tasmād anyatra yāsyāmi vastuṃ nāham ihotsahe kṛtam etad anāhāryaṃ tava putreṇa pārthiva 89 kubhāryāṃ ca kuputraṃ ca kurājānaṃ kusauhṛdam kusaṃbandhaṃ kudeśaṃ ca dūrataḥ parivarjayet 90 kumitre nāsti viśvāsaḥ kubhāryāyāṃ kuto ratiḥ kurājye nirvṛtir nāsti kudeśe na prajīvyate 91 kumitre saṃgataṃ nāsti nityam asthirasauhṛde avamānaḥ kusaṃbandhe bhavaty arthaviparyaye 92 sā bhāryā yā priyaṃ brūte saputro yatra nirvṛtiḥ tan mitraṃ yatra viśvāsaḥ sa deśo yatra jīvyate 93 yatra nāsti balāt kāraḥ sa rājā tīvraśāsanaḥ na caiva hy abhisaṃbandho daridraṃ yo bubhūṣati 94 bhāryā deśo 'tha mitrāṇi putra saṃbandhibāndhavāḥ etat sarvaṃ guṇavati dharmanetre mahīpatau 95 adharmajñasya vilayaṃ prajā gacchanty anigrahāt rājā mūlaṃ trivargasya apramatto 'nupālayan 96 baliṣaḍ bhāgam uddhṛtya baliṃ tam upayojayet na rakṣati prajāḥ samyag yaḥ sa pārthiva taskaraḥ 97 dattvābhayaṃ yaḥ svayam eva rājā; na tat pramāṇaṃ kurute yathāvat sa sarvalokād upalabhya pāpam; adharmabuddhir nirayaṃ prayāti 98 dattvābhayaṃ yaḥ sma rājā pramāṇaṃ kurute sadā sa sarvasukhakṛj jñeyaḥ prajā dharmeṇa pālayan 99 pitā mātā gurur goptā vahnir vaiśravaṇo yamaḥ sapta rājño guṇān etān manur āha prajāpatiḥ 100 pitā hi rājā rāṣṭrasya prajānāṃ yo 'nukampakaḥ tasmin mithyā praṇīte hi tiryag gacchati mānavaḥ 101 saṃbhāvayati māteva dīnam abhyavapadyate dahaty agnir ivāniṣṭān yamayan bhavate yamaḥ 102 iṣṭeṣu visṛjaty arthān kubera iva kāmadaḥ gurur dharmopadeśena goptā ca paripālanāt 103 yas tu rañjayate rājā paurajānapadān guṇaiḥ na tasya bhraśyate rājyaṃ guṇadharmānupālanāt 104 svayaṃ samupajānan hi paurajānapada kriyāḥ sa sukhaṃ modate bhūpa iha loke paratra ca 105 nityodvignāḥ prajā yasya karabhāra prapīḍitāḥ anarthair vipralupyante sa gacchati parābhavam 106 prajā yasya vivardhante sarasīva mahotpalam sa sarvayajñaphalabhāg rājā loke mahīyate 107 balinā vigraho rājan na kathaṃ cit praśasyate balinā vigṛhītasya kuto rājyaṃ kutaḥ sukham 108 [bh] saivam uktvā śakunikā brahmadattaṃ narādhipam rājānaṃ samanujñāpya jagāmāthepsitāṃ diśam 109 etat te brahmadattasya pūjanyā saha bhāṣitam mayoktaṃ bharataśreṣṭha kim anyac chrotum icchasi |