1
[य] सर्वत्र बुथ्धिः कदिता शरेष्ठा ते भरतर्षभ अनागता तदॊत्पन्ना थीर्घसूत्रा विनाशिनी 2 तथ इच्छामि परां बुथ्धिं शरॊतुं भरतसत्तम यदा राजन न मुह्येत शत्रुभिः परिवारितः 3 धर्मार्दकुशलप्राज्ञ सर्वशास्त्रविशारथ पृच्छामि तवा कुरु कश्रेष्ठ तन मे वयाख्यातुम अर्हसि 4 शत्रुभिर बहुभिर गरस्तॊ यदा वर्तेत पार्दिवः एतथ इच्छाम्य अहं शरॊतुं सर्वम एव यदाविधि 5 विषमस्दं हि राजानं शत्रवः परिपन्दिनः बहवॊ ऽपय एकम उथ्धर्तुं यतन्ते पूर्वतापिताः 6 सर्वतः परार्द्यमानेन थुर्बलेन महाबलैः एकेनैवासहायेन शक्यं सदातुं कदं भवेत 7 कदं मित्रम अरिं चैव विन्थेत भरतर्षभ चेष्टितव्यं कदं चाद शत्रॊर मित्रस्य चान्तरे 8 परज्ञात लक्षणे राजन्न अमित्रे मित्रतां गते कदं नु पुरुषः कुर्यात किं वा कृत्वा सुखी भवेत 9 विग्रहं केन वा कुर्यात संधिं वा केन यॊजयेत कदं वा शत्रुमध्यस्दॊ वर्तेताबलवान इति 10 एतथ वै सर्वकृत्यानां परं कृत्यं परंतप नैतस्य कश चिथ वक्तास्ति शरॊता चापि सुथुर्लभः 11 ऋते शांतनवाथ भीष्मात सत्यसंधाज जितेन्थ्रियात तथ अन्विष्य महाबाहॊ सर्वम एतथ वथस्व मे 12 [भ] तवथ युक्तॊ ऽयम अनुप्रश्नॊ युधिष्ठिर गुणॊथयः शृणु मे पुत्र कार्त्स्न्येन गुह्यम आपत्सु भारत 13 अमित्रॊ मित्रतां याति मित्रं चापि परथुष्यति सामर्द्य यॊगात कार्याणां तथ्गत्या हि सथागतिः 14 तस्माथ विश्वसितव्यं च विग्रहं च समाचरेत थेशं कालं च विज्ञाय कार्याकार्यविनिश्चये 15 संधातव्यं बुधैर नित्यं वयवस्यं च हितार्दिभिः अमित्रैर अपि संधेयं पराणा रक्ष्याश च भारत 16 यॊ हय अमित्रैर नरॊ नित्यं न संथध्याथ अपण्डितः न सॊ ऽरदम आप्नुयात किं चित फलान्य अपि च भारत 17 यस तव अमित्रेण संधत्ते मित्रेण च विरुध्यते अर्दयुक्तिं समालॊक्य सुमहथ विन्थते फलम 18 अत्राप्य उथाहरन्तीमम इतिहासं पुरातनम मार्जारस्य च संवाथं नयग्रॊधे मूषकस्य च 19 वने महति कस्मिंश चिन नयग्रॊधः सुमहान अभूत लता जालपरिच्छन्नॊ नानाथ्विज गणायुतः 20 सकन्धवान मेघसंकाशः शीतच छायॊ मनॊरमः वैरन्त्यम अभितॊ जातस तरुर वयालमृगाकुलः 21 तस्य मूलं समाश्रित्य कृत्वा शतमुखं बिलम वसति सम महाप्राज्ञः पलितॊ नाम मूषकः 22 शाखाश च तस्य संश्रित्य वसति सम सुखं पुरः लॊमशॊ नाम मार्जारः पक्षिसत्त्वावसाथकः 23 तत्र चागत्य चाण्डालॊ वैरन्त्य कृतकेतनः अयॊजयत तम उन्मादं नित्यम अस्तं गते रवौ 24 तत्र सनायुमयान पाशान यदावत संनिधाय सः गृहं गत्वा सुखं शेते परभाताम एति शर्वरीम 25 तत्र सम नित्यं बध्यन्ते नक्तं बहुविधा मृगाः कथा चित तत्र मार्जारस तव अप्रमत्तॊ ऽपय अबध्यत 26 तस्मिन बथ्धे महाप्राज्ञः शत्रौ नित्याततायिनि तं कालं पलितॊ जञात्वा विचचार सुनिर्भयः 27 तेनानुचरता तस्मिन वने विश्वस्तचारिणा भक्षं विचरमाणेन नचिराथ थृष्टम आमिषम 28 स तम उन्मादम आरुह्य तथ आमिषम अभक्षयत तस्यॊपरि सपत्नस्य बथ्धस्य मनसा हसन 29 आमिषे तु परसक्तः स कथा चिथ अवलॊकयन अपश्यथ अपरं घॊरम आत्मनः शत्रुम आगतम 30 शरप्रसून संकाशं मही विवर शायिनम नकुलं हरिकं नाम चपलं ताम्रलॊचनम 31 तेन मूषक गन्धेन तवरमाणम उपागतम भक्षार्दं लेलिहथ वक्त्रं भूमाव ऊर्ध्वमुखं सदितम 32 शखा गतम अरिं चान्यथ अपश्यत कॊटरालयम उलूकं चन्थ्रकं नाम तीक्ष्णतुण्डं कषपाचरम 33 गतस्य विषयं तस्य नकुलॊलूकयॊस तथा अदास्यासीथ इयं चिन्ता तत पराप्य सुमहथ भयम 34 आपथ्य अस्यां सुकष्टायां मरणे समुपस्दिते समन्ताथ भय उत्पन्ने कदं कार्यं हितैषिणा 35 स तदा सर्वतॊ रुथ्धः सर्वत्र समथर्शनः अभवथ भयसंतप्तश चक्रे चेमां परां गतिम 36 आपथ विनाशभूयिष्ठा शतैकीयं च जीवितम समन्त संशया चेयम अस्मान आपथ उपस्दिता 37 गतं हि सहसा भूमिं नकुलॊ मां समाप्नुयात उलूकश चेह तिष्ठन्तं मार्जारः पाशसंक्षयात 38 न तव एवास्मथ विधः पराज्ञः संमॊहं गन्तुम अर्हति करिष्ये जीविते यत्नं यावथ उच्छ्वासनिग्रहम 39 न हि बुथ्ध्यान्विताः पराज्ञा नीतिशास्त्रविशारथाः संभ्रमन्त्य आपथं पराप्य महतॊ ऽरदान अवाप्य च 40 न तव अन्याम इह मार्जाराथ गतिं पश्यामि सांप्रतम विषमस्दॊ हय अयं जन्तुः कृत्यं चास्य महन मया 41 जीवितार्दी कदं तव अथ्य परार्दितः शत्रुभिस तरिभिः तस्माथ इमम अहं शत्रुं मार्जारं संश्रयामि वै 42 कषत्रविथ्यां समाश्रित्य हितम अस्यॊपधारये येनेमं शत्रुसंघातं मतिपूर्वेण वञ्चये 43 अयम अत्यन्तशत्रुर मे वैषम्यं परमं गतः मूढॊ गराहयितुं सवार्दं संगत्या यथि शक्यते 44 कथा चिथ वयसनं पराप्य संधिं कुर्यान मया सह बलिना संनिविष्टस्य शत्रॊर अपि परिग्रहः कार्य इत्य आहुर आचार्या विषमे जीवितार्दिना 45 शरेयान हि पण्डितः शत्रुर न च मित्रम अपण्डितम मम हय अमित्रे मार्जारे जीवितं संप्रतिष्ठितम 46 हन्तैनं संप्रवक्ष्यामि हेतुम आत्माभिरक्षणे अपीथानीम अयं शत्रुः संगत्या पण्डितॊ भवेत 47 ततॊ ऽरदगतितत्त्वज्ञः संधिविग्रहकालवित सान्त्वपूर्वम इथं वाक्यं मार्जारं मूषकॊ ऽबरवीत 48 सौहृथेन भिभाषे तवा कच चिन मार्जारजीवसि जीवितं हि तवेच्छामि शरेयः साधारणं हि नौ 49 न ते सौम्य विषत्तव्यं जीविष्यसि यदा पुरा अहं तवाम उथ्धरिष्यामि पराणाञ जह्यां हि ते कृते 50 अस्ति कश चिथ उपायॊ ऽतर पुष्कलः परतिभाति माम येन शक्यस तवया मॊक्षः पराप्तुं शरेयॊ यदा मया 51 मया हय उपायॊ थृष्टॊ ऽयं विचार्य मतिम आत्मनः आत्मार्दं च तवथर्दं च शरेयः साधारणं हि नौ 52 इथं हि नकुलॊलूकं पापबुथ्ध्य अभितः सदितम न धर्षयति मार्जारतेन मे सवस्ति सांप्रतम 53 कूजंश चपल नेत्रॊ ऽयं कौशिकॊ मां निरीक्षते नगशाखा गरहस तिष्ठंस तस्याहं भृशम उथ्विजे 54 सतां साप्तपथं सख्यं स वासॊ मे ऽसि पण्डितः सांवास्यकं करिष्यामि नास्ति ते मृत्युतॊ भयम 55 न हि शक्नॊषि मार्जारपाशं छेत्तुं विना मया अहं छेत्स्यामि ते पाशं यथि मां तवं न हिंससि 56 तवम आश्रितॊ नगस्याग्रं मूलं तव अहम उपाश्रितः चिरॊषिताव इहावां वै वृक्षे ऽसमिन विथितं हि ते 57 यस्मिन्न आश्वसते कश चिथ यश च नाश्वसते कव चित न तौ धीराः परशंसन्ति नित्यम उथ्विग्नचेतसौ 58 तस्माथ विवर्धतां परीतिः सत्या संगतिर अस्तु नौ कालातीतम अपार्दं हि न परशंसन्ति पण्डिताः 59 अर्दयुक्तिम इमां तावथ यदा भूतां निशामय तव जीवितम इच्छामि तवं ममेच्छसि जीवितम 60 कश चित तरति काष्ठेन सुगम्भीरां महानथीम स तारयति तत काष्ठं स च काष्ठेन तार्यते 61 ईथृशॊ नौ समायॊगॊ भविष्यति सुनिस्तरम अहं तवां तारयिष्यामि तवं च मां तारयिष्यसि 62 एवम उक्त्वा तु पलितस तथर्दम उभयॊर हितम हेतुमथ गरहणीयं च कालाकाङ्क्षी वयपैक्षत 63 अद सुव्याहृतं तस्य शरुत्वा शत्रुर विचक्षणः हेतुमथ गरहणीयार्दं मार्जारॊ वाक्यम अब्रवीत 64 बुथ्धिमान वाक्यसंपन्नस तथ वाक्यम अनुवर्णयन ताम अवस्दाम अवेक्ष्यान्त्यां साम्नैव परत्यपूजयत 65 ततस तीक्ष्णाग्रथशनॊ वैडूर्यमणिलॊचनः मूषकं मन्थम उथ्वीक्ष्य मार्जारॊ लॊमशॊ ऽबरवीत 66 नन्थामि सौम्य भथ्रं ते यॊ मां जीवन्तम इच्छसि शरेयश च यथि जानीषे करियतां मा विचारय 67 अहं हि थृढम आपन्नस तवम आपन्नतरॊ मया थवयॊर आपन्नयॊः संधिः करियतां मा विचारय 68 विधत्स्व पराप्तकालं यत कार्यं सिध्यतु चावयॊः मयि कृच्छ्राथ विनिर्मुक्ते न विनङ्क्ष्यति ते कृतम 69 नयस्तमानॊ ऽसमि भक्तॊ ऽसमि शिष्यस तवथ्धितकृत तदा निथेशवशवर्ती च भवन्तं शरणं गतः 70 इत्य एवम उक्तः पलितॊ मार्जारं वशम आगतम वाक्यं हितम उवाचेथम अभिनीतार्दम अर्दवत 71 उथारं यथ भवान आह नैतच चित्रं भवथ्विधे विथितॊ यस तु मार्गॊ मे हितार्दं शृणु तं मम 72 अहं तवानुप्रवेक्ष्यामि नकुलान मे महथ भयम तरायस्व मां मा वधीश च शक्तॊ ऽसमि तव मॊक्षणे 73 उलूकाच चैव मां रक्ष कषुथ्रः परार्दयते हि माम अहं छेत्स्यामि ते पाशान सखे सत्येन ते शपे 74 तथ वचः संगतं शरुत्वा लॊमशॊ युक्तम अर्दवत हर्षाथ उथ्वीक्ष्य पलितं सवागतेनाभ्यपूजयत 75 स तं संपूज्य पलितं मार्जारः सौहृथे सदितः सुविचिन्त्याब्रवीथ धीरः परीतस तवरित एव हि 76 कषिप्रम आगच्छ भथ्रं ते तवं मे पराणसमः सखा तव पराज्ञ परसाथाथ धि कषिप्रं पराप्स्यामि जीवितम 77 यथ यथ एवंगतेनाथ्य शक्यं कर्तुं मया तव तथ आज्ञापय कर्ताहं संधिर एवास्तु नौ सखे 78 अस्मात ते संशयान मुक्तः स मित्र गणबान्धवः सर्वकार्याणि कर्ताहं परियाणि च हितानि च 79 मुक्तश च वयसनाथ अस्मात सौम्याहम अपि नाम ते परीतिम उत्पाथयेयं च परतिकर्तुं च शक्नुयाम 80 गराहयित्वा तु तं सवार्दं मार्जारं मूषकस तथा परविवेश सुविस्रब्धः सम्यग अर्दांश चचार ह 81 एवम आश्वसितॊ विथ्वान मार्जारेण स मूषकः मार्जारॊरसि विस्रब्धः सुष्वाप पितृमातृवत 82 लीनं तु तस्य गात्रेषु मार्जारस्याद मूषकम तौ थृष्ट्वा नकुलॊलूकौ निराशौ जग्मतुर गृहान 83 लीनस तु तस्य गात्रेषु पलितॊ थेशकालवित चिच्छेथ पाशान नृपते कालाकाङ्क्षी शनैः शनैः 84 अद बन्धपरिक्लिष्टॊ मार्जारॊ वीक्ष्य मूषकम छिन्थन्तं वै तथा पाशान अत्वरन्तं तवरान्वितः 85 तम अत्वरन्तं पलितं पाशानां छेथने तथा संचॊथयितुम आरेभे मार्जारॊ मूषकं तथा 86 किं सौम्य नाभित्वरसे किं कृतार्दॊ ऽवमन्यसे छिन्धि पाशान अमित्रघ्न पुरा शवपच एति सः 87 इत्य उक्तस तवरता तेन मतिमान पलितॊ ऽबरवीत मार्जारम अकृतप्रज्ञं वश्यम आत्महितं वचः 88 तूष्णीं भव न ते सौम्य तवरा कार्या न संभ्रमः वयम एवात्र कालज्ञा न कालः परिहास्यते 89 अकाले कृत्यम आरब्धं कर्तुं नार्दाय कल्पते तथ एव काल आरब्धं महते ऽरदाय कल्पते 90 अकालविप्रमुक्तान मे तवत्त एव भयं भवेत तस्मात कालं परतीक्षस्व किम इति तवरसे सखे 91 यावत पश्यामि चण्डालम आयान्तं शस्त्रपाणिनम ततश छेत्स्यामि ते पाशं पराप्ते साधारणे भये 92 तस्मिन काले परमुक्तस तवं तरुम एवाधिरॊहसि न हि ते जीविताथ अन्यत किं चित कृत्यं भविष्यति 93 ततॊ भवत्य अतिक्रान्ते तरस्ते भीते च लॊमश अहं बिलं परवेक्ष्यामि भवाट शाखां गमिष्यति 94 एवम उक्तस तु मार्जारॊ मूषकेणात्मनॊ हितम वचनं वाक्यतत्त्वज्ञॊ जीवितार्दी महामतिः 95 अदात्मकृत्य तवरितः सम्यक परश्रयम आचरन उवाच लॊमशॊ वाक्यं मूषकं चिरकारिणम 96 न हय एवं मित्रकार्याणि परीत्या कुर्वन्ति साधवः यदा तवं मॊक्षितः कृच्छ्रात तवरमाणेन वै मया 97 तादैव तवरमाणेन तवया कार्यं हितं मम यत्नं कुरु महाप्राज्ञ यदा सवस्त्य आवयॊर भवेत 98 अद वा पूर्ववैरं तवं समरन कालं विकर्षसि पश्य थुष्कृतकर्मत्वं वयक्तम आयुः कषयॊ मम 99 यच च किं चिन मयाज्ञानात पुरस्ताथ विप्रियं कृतम न तन मनसि कर्तव्यं कषमये तवां परसीथ मे 100 तम एवं वाथिनं पराज्ञः शास्त्रविथ बुथ्धिसंमतः उवाचेथं वचः शरेष्ठं मार्जारं मूषकस तथा 101 शरुतं मे तव मार्जारस्वम अर्दं परिगृह्णतः ममापि तवं विजानीहि सवम अर्दं परिगृह्णतः 102 यन मित्रं भीतवत साध्यं यन मित्र भयसंहितम सुरक्षितं ततः कार्यं पाणिः सर्पमुखाथ इव 103 कृत्वा बलवता संधिम आत्मानं यॊ न रक्षति अपद्यम इव तथ भुक्तं तस्यानर्दाय कल्पते 104 न कश चित कस्य चिन मित्रं न कश चित कस्य चित सुहृत अर्दैर अर्दा निबध्यन्ते गजैर वनगजा इव 105 न हि कश चित कृते कार्ये कर्तारं समवेक्षते तस्मात सर्वाणि कार्याणि सावशेषाणि कारयेत 106 तस्मिन काले ऽपि च भवान थिवा कीर्तिभयान्वितः मम न गरहणे शक्तः पलायनपरायणः 107 छिन्नं तु तन्तु बाहुल्यं तन्तुर एकॊ ऽवशेषितः छेत्स्याम्य अहं तथ अप्य आशु निर्वृतॊ भव लॊमश 108 तयॊः संवथतॊर एवं तदैवापन्नयॊर थवयॊः कषयं जगाम सा रात्रिर लॊमशं चाविशथ भयम 109 ततः परभातसमये विकृतः कृष्णपिङ्गलः सदूलस्फिग विकचॊ रूक्षः शवचक्रपरिवारितः 110 शङ्कुकर्णॊ महावक्त्रः पलितॊ घॊरथर्शनः परिघॊ नाम चण्डालः शस्त्रपाणिर अथृश्यत 111 तं थृष्ट्वा यमथूताभं मार्जारस तरस्तचेतनः उवाच पलितं भीतः किम इथानीं करिष्यसि 112 अद चापि सुसंत्रस्तौ तं थृष्ट्वा घॊरथर्शनम कषणेन नकुलॊलूकौ नैराश्यं जग्मतुस तथा 113 बलिनौ मतिमन्तौ च संघातं चाप्य उपागतौ अशक्यौ सुनयात तस्मात संप्रधर्षयितुं बलात 114 कार्यार्दं कृतसंधी तौ थृष्ट्वा मार्जारमूषकौ उलूक नकुलौ तूर्णं जग्मतुः सवं सवम आलयम 115 ततश चिच्छेथ तं तन्तुं मार्जारस्य स मूषकः विप्रमुक्तॊ ऽद मार्जारस तम एवाभ्यपतथ थरुमम 116 स च तस्माथ भयान मुक्तॊ मुक्तॊ घॊरेण शत्रुणा बिलं विवेश पलितः शाखां भेजे च लॊमशः 117 उन्मादम अप्य अदाथाय चण्डालॊ वीक्ष्य सर्वशः विहताशः कषणेनाद तस्माथ थेशाथ अपाक्रमत जगाम च सवभवनं चण्डालॊ भरतर्षभ 118 ततस तस्माथ भयान मुक्तॊ थुर्लभं पराप्य जीवितम बिलस्दं पाथपाग्रस्दः पलितं लॊमशॊ ऽबरवीत 119 अकृत्वा संविथं कां चित सहसाहम उपप्लुतः कृतज्ञं कृतकल्याणं कच चिन मां नाभिशङ्कसे 120 गत्वा च मम विश्वासं थत्त्वा च मम जीवितम मित्रॊपभॊग समये किं तवं नैवॊपसर्पसि 121 कृत्वा हि पूर्वं मित्राणि यः पश्चान नानुतिष्ठति न स मित्राणि लभते कृच्छ्रास्व आपत्सु थुर्मतिः 122 तत कृतॊ ऽहं तवया मित्रं सामर्द्याथ आत्मनः सखे स मां मित्रत्वम आपन्नम उपभॊक्तुं तवम अर्हसि 123 यानि मे सन्ति मित्राणि ये च मे सन्ति बान्धवाः सर्वे तवां पूजयिष्यन्ति शिष्या गुरुम इव परियम 124 अहं च पूजयिष्ये तवां समित्रगणबान्धवम जीवितस्य परथातारं कृतज्ञः कॊ न पूजयेत 125 ईश्रवॊ मे भवान अस्तु शरीरस्य गृहस्य च अर्दानां चैव सर्वेषाम अनुशास्ता च मे भव 126 अमात्यॊ मे भव पराज्ञ पितेव हि परशाधि माम न ते ऽसति भयम अस्मत्तॊ जीवितेनात्मनः शपे 127 बुथ्ध्या तवम उशनाः साक्षाथ बले तव अधिकृता वयम तवन्मन्त्रबलयुक्तॊ हि विन्थेत जयम एव ह 128 एवम उक्तः परं सान्त्वं मार्जारेण स मूषकः उवाच परमार्दज्ञः शलक्ष्णम आत्महितं वचः 129 यथ भवान आह तत सर्वं मया ते लॊमश शरुतम ममापि तावथ बरुवतः शृणु यत परतिभाति माम 130 वेथितव्यानि मित्राणि बॊथ्धव्याश चापि शत्रवः एतत सुसूक्ष्मं लॊके ऽसमिन थृश्यते पराज्ञसंमतम 131 शत्रुरूपाश च सुहृथॊ मित्ररूपाश च शत्रवः सान्त्वितास ते न बुध्यन्ते रागलॊभ वशंगताः 132 नास्ति जात्या रिपुर नाम मित्रं नाम न विथ्यते सामर्द्य यॊगाज जायन्ते मित्राणि रिपवस तदा 133 यॊ यस्मिञ जीवति सवार्दं पश्येत तावत स जीवति स तस्य तावन मित्रं सयाथ यावन न सयाथ विपर्ययः 134 नास्ति मैत्री सदिरा नाम न च धरुवम असौहृथम अर्दयुक्त्या हि जायन्ते मित्राणि रिपवस तदा 135 मित्रं च शत्रुताम एति कस्मिंश चित कालपर्यये शत्रुश च मित्रताम एति सवार्दॊ हि बलवत्तरः 136 यॊ विश्वसति मित्रेषु न चाश्वसति शत्रुषु अर्दयुक्तिम अविज्ञाय चलितं तस्य जीवितम 137 अर्दयुक्तिम अविज्ञाय यः शुभे कुरुते मतिम मित्रे वा यथि वा शत्रौ तस्यापि चलिता मतिः 138 न विश्वसेथ अविश्वस्ते विश्वस्ते ऽपि न विश्वसेत विश्वासाथ भयम उत्पन्नं मूलान्य अपि निकृन्तति 139 अर्दयुक्त्या हि थेश्यन्ते पिता माता सुतास तदा मातुला भागिनेयाश च तदा संबन्धिबान्धवाः 140 पुत्रं हि माता पितरु तयजतः पतितं परियम लॊकॊ रक्षति चात्मानं पश्य सवार्दस्य सारताम 141 तं मन्ये निकृतिप्रज्ञं यॊ मॊक्षं परत्यनन्तरम कृत्यं मृगयसे कर्तुं सुखॊपायम असंशयम 142 अस्मिन निलय एव तवं नयग्रॊधाथ अवतारितः पूर्वं निविष्टम उन्मादं चपलत्वान न बुथ्धिवान 143 आत्मनश चपलॊ नास्ति कुतॊ ऽनयेषां भविष्यति तस्मात सर्वाणि कार्याणि चपलॊ हन्त्य असंशयम 144 बरवीति मधुरं कं चित परियॊ मे ह भवान इति तन मिद्या करणं सर्वं विस्तरेणापि मे शृणु 145 कारणात परियताम एति थवेष्यॊ भवति कारणात अर्दार्दी जीवलॊकॊ ऽयं न कश चित कस्य चित परियः 146 सख्यं सॊथरयॊर भरात्रॊर थम्पत्यॊर वा परस्परम कस्य चिन नाभिजानामि परीतिं निष्कारणाम इह 147 यथ्य अपि भरातरः करुथ्धा मार्या वा कारणान्तरे सवभावतस ते परीयन्ते नेतरः परीयते जनः 148 परियॊ भवति थानेन परियवाथेन चापरः मन्त्रहॊम जपैर अन्यः कार्यार्दं परीयते जनः 149 उत्पन्ने कारणे परीतिर नास्ति नौ कारणान्तरे परध्वस्ते कारणस्दाने सा परीतिर विनिवर्तते 150 किं नु तत कारणं मन्ये यनाहं भवतः परियः अन्यत्राभ्यवहारार्दात तत्रापि च बुधा वयम 151 कालॊ हेतुं विकुरुते सवार्दस तम अनुवर्तते सवार्दं पराज्ञॊ ऽभिजानाति पराज्ञं लॊकॊ ऽनुवर्तते 152 न तव ईथृशं तवया वाच्यं विथुषि सवार्दपण्डिते अकाले ऽविषमस्दस्य सवार्दहेतुर अयं तव 153 तस्मान नाहं चले सवार्दात सुस्दितः संधिविग्रहे अभ्राणाम इव रूपाणि विकुर्वन्ति कषणे कषणे 154 अथ्यैव हि रिपुर भूत्वा पुनर अथ्यैव सौहृथम पुनश च रिपुर अथ्यैव युक्तीनां पश्य चापलम 155 आसीत तावत तु मैत्री नौ यावथ धेतुर अभूत पुरा सा गता सह तेनैव कालयुक्तेन हेतुना 156 तवं हि मे ऽतयन्ततः शत्रुः सामर्द्यान मित्रतां गतः तत कृत्यम अभिनिर्वृत्तं परकृतिः शत्रुतां गता 157 सॊ ऽहम एवं परणीतानि जञात्वा शास्त्राणि तत्त्वतः परविशेयं कदं पाशं तवत्कृतं तथ वथस्व मे 158 तवथ्वीर्येण विमुक्तॊ ऽहं मथ्वीर्येण तदा भवान अन्यॊन्यानुग्रहे वृत्ते नास्ति भूयः समागमः 159 तवं हि सौम्य कृतार्दॊ ऽथय निर्वृत्तार्दास तदा वयम न ते ऽसत्य अन्यन मया कृत्यं किं चिथ अन्यत्र भक्षणात 160 अहम अन्नं भवान भॊक्ता थुर्बलॊ ऽहं भवान बली नावयॊर विथ्यते संधिर नियुक्ते विषमे बले 161 संमन्ये ऽहं तव परज्ञां यन मॊक्षात परत्यनन्तरम भक्ष्यं मृगयसे नूनं सुखॊपायम असंशयम 162 भक्ष्यार्दम एव बथ्धस तवं स मुक्तः परसृतः कषुधा शास्त्रज्ञम अभिसंधाय नूनं भक्षयिताथ्य माम 163 जानामि कषुधितं हि तवाम आहारसमयश च ते स तवं माम अभिसंधाय भक्ष्यं मृगयसे पुनः 164 यच चापि पुत्रथारं सवं तत संनिसृजसे मयि शुश्रूषां नाम मे कर्तुं सखे मम न तत्क्षमम 165 तवया मां सहितं थृष्ट्वा परिया भार्या सुताश च ये कस्मान मां ते न खाथेयुर हृष्टाः परणयिनस तवयि 166 नाहं तवया समेष्यामि वृत्तॊ हेतुः समागमे शिवं धयायस्व मे ऽतरस्दः सुकृतं समर्यते यथि 167 शत्रॊर अन्नाथ्य भूतः सन कलिष्टस्य कषुधितस्य च भक्ष्यं मृगयमाणस्य कः पराज्ञॊ विषयं वरजेत 168 सवस्ति ते ऽसतु गमिष्यामि थूराथ अपि तवॊथ्विजे नाहं तवया समेष्यामि निर्वृतॊ भव लॊमश 169 बलवत संनिकर्षॊ हि न कथा चित परशस्यते परशान्ताथ अपि मे पराज्ञ भेतव्यं बलिनः सथा 170 यथि तव अर्देन मे कार्यं बरूहि किं करवाणि ते कामं सर्वं परथास्यामि न तव आत्मानं कथा चन 171 आत्मार्दे संततिस तयाज्या राज्यं रत्नं धनं तदा अपि सर्वस्वम उत्सृज्य रक्षेथ आत्मानम आत्मना 172 ऐश्वर्यधनरत्नानां परत्यमित्रे ऽपि तिष्ठताम थृष्टा हि पुनर आवृत्तिर जीविताम इति नः शरुतम 173 न तव आत्मनः संप्रथानं धनरत्नवथ इष्यते आत्मा तु सर्वतॊ रक्ष्यॊ थारैर अपि धनैर अपि 174 आत्मरक्षित तन्त्राणां सुपरीक्षित कारिणाम आपथॊ नॊपपथ्यन्ते पुरुषाणां सवथॊषजाः 175 शत्रून सम्यग विजानन्ति थुर्बला ये बलीयसः तेषां न चाल्यते बुथ्धिर आत्मार्दं कृतनिश्चया 176 इत्य अभिव्यक्तम एवासौ पलितेनावभर्त्सितः मार्जारॊ वरीडितॊ भूत्वा मूषकं वाक्यम अब्रवीत 177 संमन्ये ऽहं तव परज्ञां यस तवं मम हिते रतः उक्तवान अर्दतत्त्वेन मया संभिन्नथर्शनः 178 न तु माम अन्यदा साधॊ तवं विज्ञातुम इहार्हसि पराणप्रथानजं तवत्तॊ मम सौहृथम आगतम 179 धर्मज्ञॊ ऽसमि गुणज्ञॊ ऽसमि कृतज्ञॊ ऽसमि विशेषतः मित्रेषु वत्सलश चास्मि तवथ्विधेषु विशेषतः 180 तन माम एवंगते साधॊ न यावयितुम अर्हसि तवया हि याव्यमानॊ ऽहं पराणाञ जह्यां सबान्धवः 181 धिक शब्थॊ हि बुधैर थृष्टॊ मथ्विधेषु मनस्विषु मरणं धर्मतत्त्वज्ञ न मां शङ्कितुम अर्हसि 182 इति संस्तूयमानॊ हि मार्जारेण स मूषकः मनसा भावगम्भीरं मार्जारं वाक्यम अब्रवीत 183 साधुर भवाञ शरुतार्दॊ ऽसमि परीयते न च विश्वसे संस्तवैर वा धनौघैर वा नाहं शक्यः पुनस तवया 184 न हय अमित्रवशं यान्ति पराज्ञा निष्करणं सखे अस्मिन्न अर्दे च गादे थवे निबॊधॊशनसा कृते 185 शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा समाहितश चरेथ युक्त्या कृतार्दश च न विश्वसेत 186 तस्मात सर्वास्व अवस्दासु रक्षेञ जीवितम आत्मनः थरव्याणि संततिश चैव सर्वं भवति जीवतः 187 संक्षेपॊ नीतिशास्त्राणाम अविश्वासः परॊ मतः नृषु तस्माथ अविश्वासः पुष्कलं हितम आत्मनः 188 वध्यन्ते न हय अविश्वस्ताः शत्रुभिर थुर्बला अपि विश्वस्तास तव आशु वध्यन्ते बलवन्तॊ ऽपि थुर्बलैः 189 तवथ्विधेभ्यॊ मया हय आत्मा रक्ष्यॊ मार्जारसर्वथा रक्ष तवम अपि चात्मानं चण्डालाञ जातिकिल्बिषात 190 स तस्य बरुवतस तव एवं संत्रासाञ जातसाध्वसः सवबलिं हि जवेनाशु मार्जारः परययौ ततः 191 ततः शास्त्रार्दतत्त्वज्ञॊ बुथ्धिसामर्द्यम आत्मनः विश्राव्य पलितः पराज्ञॊ बिलम अन्यञ जगाम ह 192 एवं परज्ञावता बुथ्ध्या थुर्बलेन महाबलाः एकेन बहवॊ ऽमित्राः संधिं कुर्वीत पण्डितः 193 अरिणापि समर्देन संधिं कुर्वीत पण्डितः मूषकश च विडालश च मुक्ताव अन्यॊन्यसंश्रयात 194 इत्य एष कषत्रधर्मस्य मया मार्गॊ ऽनुथर्शितः विस्तरेण महीपाल संक्षेपेण पुनः शृणु 195 अन्यॊन्यकृतवैरौ तु चक्रतुः परीतिम उत्तमाम अन्यॊन्यम अभिसंधातुम अभूच चैव तयॊर मतिः 196 तत्र पराज्ञॊ ऽभिसंधत्ते सम्यग बुथ्धिबलाश्रयात अभिसंधीयते पराज्ञः परमाथाथ अपि चाबुधैः 197 तस्माथ अभीतवथ भीतॊ विश्वस्तवथ अविश्वसन न हय अप्रमत्तश चलति चलितॊ वा विनश्यति 198 कालेन रिपुणा संधिः काले मित्रेण विग्रहः कार्य इत्य एव तत्त्वज्ञाः पराजुर नित्यं युधिष्ठिर 199 एवं मत्वा महाराज शास्त्रार्दम अभिगम्य च अभियुक्तॊ ऽपरमत्तश च पराग भयाथ भीतवच चरेत 200 भीतवत संविधिः कार्यः परतिसंधिस तदैव च भयाथ उत्पथ्यते बुथ्धिर अप्रमत्ताभियॊगजा 201 न भयं विथ्यते राजन भीतस्यानागते भये अभीतस्य तु विस्रम्भात सुमहाञ जायते भयम 202 न भीरुर इति चात्यन्तं मन्त्रॊ ऽथेयः कदं चन अविज्ञानाथ धि विज्ञाते गच्छेथ आस्पथ थर्शिषु 203 तस्माथ अभीतवथ भीतॊ विश्वस्तवथ अविश्वसन कार्याणां गुरुतां बुथ्ध्वा नानृतं किं चिथ आचरेत 204 एवम एतन मया परॊक्तम इतिहासं युधिष्ठिर शरुत्वा तवं सुहृथां मध्ये यदावत समुपाचर 205 उपलभ्य मतिं चाग्र्याम अरिमित्रान्तरं तदा संधिविग्रहकालं च मॊक्षॊपायं तदापथि 206 शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा समागमं चरेथ युक्त्या कृतार्दॊ न च विश्वसेत 207 अविरुथ्धां तरिवर्गेण नीतिम एतां युधिष्ठिर अभ्युत्तिष्ठ शरुताथ अस्माथ भूयस तवं रञ्जयन परजाः 208 बराह्मणैश चापि ते सार्धं यात्रा भवतु पाण्डव बराह्मणा हि परं शरेयॊ थिवि चेह च भारत 209 एते धर्मस्य वेत्तारः कृतज्ञाः सततं परभॊ पूजिताः शुभकर्माणः पूर्वजित्या नराधिप 210 राज्यं शरेयः परं राजन यशः कीर्तिं च लप्स्यसे कुलस्य संततिं चैव यदान्यायं यदाक्रमम 211 थवयॊर इमं भारत संधिविग्रहं; सुभाषितं बुथ्धिविशेषकारितम तदान्ववेक्ष्य कषितिपेन सर्वथा; निषेवितव्यं नृप शत्रुमण्डले |
1
[y] sarvatra buddhiḥ kathitā śreṣṭhā te bharatarṣabha anāgatā tathotpannā dīrghasūtrā vināśinī 2 tad icchāmi parāṃ buddhiṃ śrotuṃ bharatasattama yathā rājan na muhyeta śatrubhiḥ parivāritaḥ 3 dharmārthakuśalaprājña sarvaśāstraviśārada pṛcchāmi tvā kuru kśreṣṭha tan me vyākhyātum arhasi 4 śatrubhir bahubhir grasto yathā varteta pārthivaḥ etad icchāmy ahaṃ śrotuṃ sarvam eva yathāvidhi 5 viṣamasthaṃ hi rājānaṃ śatravaḥ paripanthinaḥ bahavo 'py ekam uddhartuṃ yatante pūrvatāpitāḥ 6 sarvataḥ prārthyamānena durbalena mahābalaiḥ ekenaivāsahāyena śakyaṃ sthātuṃ kathaṃ bhavet 7 kathaṃ mitram ariṃ caiva vindeta bharatarṣabha ceṣṭitavyaṃ kathaṃ cātha śatror mitrasya cāntare 8 prajñāta lakṣaṇe rājann amitre mitratāṃ gate kathaṃ nu puruṣaḥ kuryāt kiṃ vā kṛtvā sukhī bhavet 9 vigrahaṃ kena vā kuryāt saṃdhiṃ vā kena yojayet kathaṃ vā śatrumadhyastho vartetābalavān iti 10 etad vai sarvakṛtyānāṃ paraṃ kṛtyaṃ paraṃtapa naitasya kaś cid vaktāsti śrotā cāpi sudurlabhaḥ 11 ṛte śāṃtanavād bhīṣmāt satyasaṃdhāj jitendriyāt tad anviṣya mahābāho sarvam etad vadasva me 12 [bh] tvad yukto 'yam anupraśno yudhiṣṭhira guṇodayaḥ śṛṇu me putra kārtsnyena guhyam āpatsu bhārata 13 amitro mitratāṃ yāti mitraṃ cāpi praduṣyati sāmarthya yogāt kāryāṇāṃ tadgatyā hi sadāgatiḥ 14 tasmād viśvasitavyaṃ ca vigrahaṃ ca samācaret deśaṃ kālaṃ ca vijñāya kāryākāryaviniścaye 15 saṃdhātavyaṃ budhair nityaṃ vyavasyaṃ ca hitārthibhiḥ amitrair api saṃdheyaṃ prāṇā rakṣyāś ca bhārata 16 yo hy amitrair naro nityaṃ na saṃdadhyād apaṇḍitaḥ na so 'rtham āpnuyāt kiṃ cit phalāny api ca bhārata 17 yas tv amitreṇa saṃdhatte mitreṇa ca virudhyate arthayuktiṃ samālokya sumahad vindate phalam 18 atrāpy udāharantīmam itihāsaṃ purātanam mārjārasya ca saṃvādaṃ nyagrodhe mūṣakasya ca 19 vane mahati kasmiṃś cin nyagrodhaḥ sumahān abhūt latā jālaparicchanno nānādvija gaṇāyutaḥ 20 skandhavān meghasaṃkāśaḥ śītac chāyo manoramaḥ vairantyam abhito jātas tarur vyālamṛgākulaḥ 21 tasya mūlaṃ samāśritya kṛtvā śatamukhaṃ bilam vasati sma mahāprājñaḥ palito nāma mūṣakaḥ 22 śākhāś ca tasya saṃśritya vasati sma sukhaṃ puraḥ lomaśo nāma mārjāraḥ pakṣisattvāvasādakaḥ 23 tatra cāgatya cāṇḍālo vairantya kṛtaketanaḥ ayojayat tam unmāthaṃ nityam astaṃ gate ravau 24 tatra snāyumayān pāśān yathāvat saṃnidhāya saḥ gṛhaṃ gatvā sukhaṃ śete prabhātām eti śarvarīm 25 tatra sma nityaṃ badhyante naktaṃ bahuvidhā mṛgāḥ kadā cit tatra mārjāras tv apramatto 'py abadhyata 26 tasmin baddhe mahāprājñaḥ śatrau nityātatāyini taṃ kālaṃ palito jñātvā vicacāra sunirbhayaḥ 27 tenānucaratā tasmin vane viśvastacāriṇā bhakṣaṃ vicaramāṇena nacirād dṛṣṭam āmiṣam 28 sa tam unmātham āruhya tad āmiṣam abhakṣayat tasyopari sapatnasya baddhasya manasā hasan 29 āmiṣe tu prasaktaḥ sa kadā cid avalokayan apaśyad aparaṃ ghoram ātmanaḥ śatrum āgatam 30 śaraprasūna saṃkāśaṃ mahī vivara śāyinam nakulaṃ harikaṃ nāma capalaṃ tāmralocanam 31 tena mūṣaka gandhena tvaramāṇam upāgatam bhakṣārthaṃ lelihad vaktraṃ bhūmāv ūrdhvamukhaṃ sthitam 32 śakhā gatam ariṃ cānyad apaśyat koṭarālayam ulūkaṃ candrakaṃ nāma tīkṣṇatuṇḍaṃ kṣapācaram 33 gatasya viṣayaṃ tasya nakulolūkayos tadā athāsyāsīd iyaṃ cintā tat prāpya sumahad bhayam 34 āpady asyāṃ sukaṣṭāyāṃ maraṇe samupasthite samantād bhaya utpanne kathaṃ kāryaṃ hitaiṣiṇā 35 sa tathā sarvato ruddhaḥ sarvatra samadarśanaḥ abhavad bhayasaṃtaptaś cakre cemāṃ parāṃ gatim 36 āpad vināśabhūyiṣṭhā śataikīyaṃ ca jīvitam samanta saṃśayā ceyam asmān āpad upasthitā 37 gataṃ hi sahasā bhūmiṃ nakulo māṃ samāpnuyāt ulūkaś ceha tiṣṭhantaṃ mārjāraḥ pāśasaṃkṣayāt 38 na tv evāsmad vidhaḥ prājñaḥ saṃmohaṃ gantum arhati kariṣye jīvite yatnaṃ yāvad ucchvāsanigraham 39 na hi buddhyānvitāḥ prājñā nītiśāstraviśāradāḥ saṃbhramanty āpadaṃ prāpya mahato 'rthān avāpya ca 40 na tv anyām iha mārjārād gatiṃ paśyāmi sāṃpratam viṣamastho hy ayaṃ jantuḥ kṛtyaṃ cāsya mahan mayā 41 jīvitārthī kathaṃ tv adya prārthitaḥ śatrubhis tribhiḥ tasmād imam ahaṃ śatruṃ mārjāraṃ saṃśrayāmi vai 42 kṣatravidyāṃ samāśritya hitam asyopadhāraye yenemaṃ śatrusaṃghātaṃ matipūrveṇa vañcaye 43 ayam atyantaśatrur me vaiṣamyaṃ paramaṃ gataḥ mūḍho grāhayituṃ svārthaṃ saṃgatyā yadi śakyate 44 kadā cid vyasanaṃ prāpya saṃdhiṃ kuryān mayā saha balinā saṃniviṣṭasya śatror api parigrahaḥ kārya ity āhur ācāryā viṣame jīvitārthinā 45 śreyān hi paṇḍitaḥ śatrur na ca mitram apaṇḍitam mama hy amitre mārjāre jīvitaṃ saṃpratiṣṭhitam 46 hantainaṃ saṃpravakṣyāmi hetum ātmābhirakṣaṇe apīdānīm ayaṃ śatruḥ saṃgatyā paṇḍito bhavet 47 tato 'rthagatitattvajñaḥ saṃdhivigrahakālavit sāntvapūrvam idaṃ vākyaṃ mārjāraṃ mūṣako 'bravīt 48 sauhṛdena bhibhāṣe tvā kac cin mārjārajīvasi jīvitaṃ hi tavecchāmi śreyaḥ sādhāraṇaṃ hi nau 49 na te saumya viṣattavyaṃ jīviṣyasi yathā purā ahaṃ tvām uddhariṣyāmi prāṇāñ jahyāṃ hi te kṛte 50 asti kaś cid upāyo 'tra puṣkalaḥ pratibhāti mām yena śakyas tvayā mokṣaḥ prāptuṃ śreyo yathā mayā 51 mayā hy upāyo dṛṣṭo 'yaṃ vicārya matim ātmanaḥ ātmārthaṃ ca tvadarthaṃ ca śreyaḥ sādhāraṇaṃ hi nau 52 idaṃ hi nakulolūkaṃ pāpabuddhy abhitaḥ sthitam na dharṣayati mārjāratena me svasti sāṃpratam 53 kūjaṃś capala netro 'yaṃ kauśiko māṃ nirīkṣate nagaśākhā grahas tiṣṭhaṃs tasyāhaṃ bhṛśam udvije 54 satāṃ sāptapadaṃ sakhyaṃ sa vāso me 'si paṇḍitaḥ sāṃvāsyakaṃ kariṣyāmi nāsti te mṛtyuto bhayam 55 na hi śaknoṣi mārjārapāśaṃ chettuṃ vinā mayā ahaṃ chetsyāmi te pāśaṃ yadi māṃ tvaṃ na hiṃsasi 56 tvam āśrito nagasyāgraṃ mūlaṃ tv aham upāśritaḥ ciroṣitāv ihāvāṃ vai vṛkṣe 'smin viditaṃ hi te 57 yasminn āśvasate kaś cid yaś ca nāśvasate kva cit na tau dhīrāḥ praśaṃsanti nityam udvignacetasau 58 tasmād vivardhatāṃ prītiḥ satyā saṃgatir astu nau kālātītam apārthaṃ hi na praśaṃsanti paṇḍitāḥ 59 arthayuktim imāṃ tāvad yathā bhūtāṃ niśāmaya tava jīvitam icchāmi tvaṃ mamecchasi jīvitam 60 kaś cit tarati kāṣṭhena sugambhīrāṃ mahānadīm sa tārayati tat kāṣṭhaṃ sa ca kāṣṭhena tāryate 61 īdṛśo nau samāyogo bhaviṣyati sunistaram ahaṃ tvāṃ tārayiṣyāmi tvaṃ ca māṃ tārayiṣyasi 62 evam uktvā tu palitas tadartham ubhayor hitam hetumad grahaṇīyaṃ ca kālākāṅkṣī vyapaikṣata 63 atha suvyāhṛtaṃ tasya śrutvā śatrur vicakṣaṇaḥ hetumad grahaṇīyārthaṃ mārjāro vākyam abravīt 64 buddhimān vākyasaṃpannas tad vākyam anuvarṇayan tām avasthām avekṣyāntyāṃ sāmnaiva pratyapūjayat 65 tatas tīkṣṇāgradaśano vaiḍūryamaṇilocanaḥ mūṣakaṃ mandam udvīkṣya mārjāro lomaśo 'bravīt 66 nandāmi saumya bhadraṃ te yo māṃ jīvantam icchasi śreyaś ca yadi jānīṣe kriyatāṃ mā vicāraya 67 ahaṃ hi dṛḍham āpannas tvam āpannataro mayā dvayor āpannayoḥ saṃdhiḥ kriyatāṃ mā vicāraya 68 vidhatsva prāptakālaṃ yat kāryaṃ sidhyatu cāvayoḥ mayi kṛcchrād vinirmukte na vinaṅkṣyati te kṛtam 69 nyastamāno 'smi bhakto 'smi śiṣyas tvaddhitakṛt tathā nideśavaśavartī ca bhavantaṃ śaraṇaṃ gataḥ 70 ity evam uktaḥ palito mārjāraṃ vaśam āgatam vākyaṃ hitam uvācedam abhinītārtham arthavat 71 udāraṃ yad bhavān āha naitac citraṃ bhavadvidhe vidito yas tu mārgo me hitārthaṃ śṛṇu taṃ mama 72 ahaṃ tvānupravekṣyāmi nakulān me mahad bhayam trāyasva māṃ mā vadhīś ca śakto 'smi tava mokṣaṇe 73 ulūkāc caiva māṃ rakṣa kṣudraḥ prārthayate hi mām ahaṃ chetsyāmi te pāśān sakhe satyena te śape 74 tad vacaḥ saṃgataṃ śrutvā lomaśo yuktam arthavat harṣād udvīkṣya palitaṃ svāgatenābhyapūjayat 75 sa taṃ saṃpūjya palitaṃ mārjāraḥ sauhṛde sthitaḥ suvicintyābravīd dhīraḥ prītas tvarita eva hi 76 kṣipram āgaccha bhadraṃ te tvaṃ me prāṇasamaḥ sakhā tava prājña prasādād dhi kṣipraṃ prāpsyāmi jīvitam 77 yad yad evaṃgatenādya śakyaṃ kartuṃ mayā tava tad ājñāpaya kartāhaṃ saṃdhir evāstu nau sakhe 78 asmāt te saṃśayān muktaḥ sa mitra gaṇabāndhavaḥ sarvakāryāṇi kartāhaṃ priyāṇi ca hitāni ca 79 muktaś ca vyasanād asmāt saumyāham api nāma te prītim utpādayeyaṃ ca pratikartuṃ ca śaknuyām 80 grāhayitvā tu taṃ svārthaṃ mārjāraṃ mūṣakas tadā praviveśa suvisrabdhaḥ samyag arthāṃś cacāra ha 81 evam āśvasito vidvān mārjāreṇa sa mūṣakaḥ mārjārorasi visrabdhaḥ suṣvāpa pitṛmātṛvat 82 līnaṃ tu tasya gātreṣu mārjārasyātha mūṣakam tau dṛṣṭvā nakulolūkau nirāśau jagmatur gṛhān 83 līnas tu tasya gātreṣu palito deśakālavit ciccheda pāśān nṛpate kālākāṅkṣī śanaiḥ śanaiḥ 84 atha bandhaparikliṣṭo mārjāro vīkṣya mūṣakam chindantaṃ vai tadā pāśān atvarantaṃ tvarānvitaḥ 85 tam atvarantaṃ palitaṃ pāśānāṃ chedane tadā saṃcodayitum ārebhe mārjāro mūṣakaṃ tadā 86 kiṃ saumya nābhitvarase kiṃ kṛtārtho 'vamanyase chindhi pāśān amitraghna purā śvapaca eti saḥ 87 ity uktas tvaratā tena matimān palito 'bravīt mārjāram akṛtaprajñaṃ vaśyam ātmahitaṃ vacaḥ 88 tūṣṇīṃ bhava na te saumya tvarā kāryā na saṃbhramaḥ vayam evātra kālajñā na kālaḥ parihāsyate 89 akāle kṛtyam ārabdhaṃ kartuṃ nārthāya kalpate tad eva kāla ārabdhaṃ mahate 'rthāya kalpate 90 akālavipramuktān me tvatta eva bhayaṃ bhavet tasmāt kālaṃ pratīkṣasva kim iti tvarase sakhe 91 yāvat paśyāmi caṇḍālam āyāntaṃ śastrapāṇinam tataś chetsyāmi te pāśaṃ prāpte sādhāraṇe bhaye 92 tasmin kāle pramuktas tvaṃ tarum evādhirohasi na hi te jīvitād anyat kiṃ cit kṛtyaṃ bhaviṣyati 93 tato bhavaty atikrānte traste bhīte ca lomaśa ahaṃ bilaṃ pravekṣyāmi bhavāṭ śākhāṃ gamiṣyati 94 evam uktas tu mārjāro mūṣakeṇātmano hitam vacanaṃ vākyatattvajño jīvitārthī mahāmatiḥ 95 athātmakṛtya tvaritaḥ samyak praśrayam ācaran uvāca lomaśo vākyaṃ mūṣakaṃ cirakāriṇam 96 na hy evaṃ mitrakāryāṇi prītyā kurvanti sādhavaḥ yathā tvaṃ mokṣitaḥ kṛcchrāt tvaramāṇena vai mayā 97 tāthaiva tvaramāṇena tvayā kāryaṃ hitaṃ mama yatnaṃ kuru mahāprājña yathā svasty āvayor bhavet 98 atha vā pūrvavairaṃ tvaṃ smaran kālaṃ vikarṣasi paśya duṣkṛtakarmatvaṃ vyaktam āyuḥ kṣayo mama 99 yac ca kiṃ cin mayājñānāt purastād vipriyaṃ kṛtam na tan manasi kartavyaṃ kṣamaye tvāṃ prasīda me 100 tam evaṃ vādinaṃ prājñaḥ śāstravid buddhisaṃmataḥ uvācedaṃ vacaḥ śreṣṭhaṃ mārjāraṃ mūṣakas tadā 101 śrutaṃ me tava mārjārasvam arthaṃ parigṛhṇataḥ mamāpi tvaṃ vijānīhi svam arthaṃ parigṛhṇataḥ 102 yan mitraṃ bhītavat sādhyaṃ yan mitra bhayasaṃhitam surakṣitaṃ tataḥ kāryaṃ pāṇiḥ sarpamukhād iva 103 kṛtvā balavatā saṃdhim ātmānaṃ yo na rakṣati apathyam iva tad bhuktaṃ tasyānarthāya kalpate 104 na kaś cit kasya cin mitraṃ na kaś cit kasya cit suhṛt arthair arthā nibadhyante gajair vanagajā iva 105 na hi kaś cit kṛte kārye kartāraṃ samavekṣate tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet 106 tasmin kāle 'pi ca bhavān divā kīrtibhayānvitaḥ mama na grahaṇe śaktaḥ palāyanaparāyaṇaḥ 107 chinnaṃ tu tantu bāhulyaṃ tantur eko 'vaśeṣitaḥ chetsyāmy ahaṃ tad apy āśu nirvṛto bhava lomaśa 108 tayoḥ saṃvadator evaṃ tathaivāpannayor dvayoḥ kṣayaṃ jagāma sā rātrir lomaśaṃ cāviśad bhayam 109 tataḥ prabhātasamaye vikṛtaḥ kṛṣṇapiṅgalaḥ sthūlasphig vikaco rūkṣaḥ śvacakraparivāritaḥ 110 śaṅkukarṇo mahāvaktraḥ palito ghoradarśanaḥ parigho nāma caṇḍālaḥ śastrapāṇir adṛśyata 111 taṃ dṛṣṭvā yamadūtābhaṃ mārjāras trastacetanaḥ uvāca palitaṃ bhītaḥ kim idānīṃ kariṣyasi 112 atha cāpi susaṃtrastau taṃ dṛṣṭvā ghoradarśanam kṣaṇena nakulolūkau nairāśyaṃ jagmatus tadā 113 balinau matimantau ca saṃghātaṃ cāpy upāgatau aśakyau sunayāt tasmāt saṃpradharṣayituṃ balāt 114 kāryārthaṃ kṛtasaṃdhī tau dṛṣṭvā mārjāramūṣakau ulūka nakulau tūrṇaṃ jagmatuḥ svaṃ svam ālayam 115 tataś ciccheda taṃ tantuṃ mārjārasya sa mūṣakaḥ vipramukto 'tha mārjāras tam evābhyapatad drumam 116 sa ca tasmād bhayān mukto mukto ghoreṇa śatruṇā bilaṃ viveśa palitaḥ śākhāṃ bheje ca lomaśaḥ 117 unmātham apy athādāya caṇḍālo vīkṣya sarvaśaḥ vihatāśaḥ kṣaṇenātha tasmād deśād apākramat jagāma ca svabhavanaṃ caṇḍālo bharatarṣabha 118 tatas tasmād bhayān mukto durlabhaṃ prāpya jīvitam bilasthaṃ pādapāgrasthaḥ palitaṃ lomaśo 'bravīt 119 akṛtvā saṃvidaṃ kāṃ cit sahasāham upaplutaḥ kṛtajñaṃ kṛtakalyāṇaṃ kac cin māṃ nābhiśaṅkase 120 gatvā ca mama viśvāsaṃ dattvā ca mama jīvitam mitropabhoga samaye kiṃ tvaṃ naivopasarpasi 121 kṛtvā hi pūrvaṃ mitrāṇi yaḥ paścān nānutiṣṭhati na sa mitrāṇi labhate kṛcchrāsv āpatsu durmatiḥ 122 tat kṛto 'haṃ tvayā mitraṃ sāmarthyād ātmanaḥ sakhe sa māṃ mitratvam āpannam upabhoktuṃ tvam arhasi 123 yāni me santi mitrāṇi ye ca me santi bāndhavāḥ sarve tvāṃ pūjayiṣyanti śiṣyā gurum iva priyam 124 ahaṃ ca pūjayiṣye tvāṃ samitragaṇabāndhavam jīvitasya pradātāraṃ kṛtajñaḥ ko na pūjayet 125 īśravo me bhavān astu śarīrasya gṛhasya ca arthānāṃ caiva sarveṣām anuśāstā ca me bhava 126 amātyo me bhava prājña piteva hi praśādhi mām na te 'sti bhayam asmatto jīvitenātmanaḥ śape 127 buddhyā tvam uśanāḥ sākṣād bale tv adhikṛtā vayam tvanmantrabalayukto hi vindeta jayam eva ha 128 evam uktaḥ paraṃ sāntvaṃ mārjāreṇa sa mūṣakaḥ uvāca paramārthajñaḥ ślakṣṇam ātmahitaṃ vacaḥ 129 yad bhavān āha tat sarvaṃ mayā te lomaśa śrutam mamāpi tāvad bruvataḥ śṛṇu yat pratibhāti mām 130 veditavyāni mitrāṇi boddhavyāś cāpi śatravaḥ etat susūkṣmaṃ loke 'smin dṛśyate prājñasaṃmatam 131 śatrurūpāś ca suhṛdo mitrarūpāś ca śatravaḥ sāntvitās te na budhyante rāgalobha vaśaṃgatāḥ 132 nāsti jātyā ripur nāma mitraṃ nāma na vidyate sāmarthya yogāj jāyante mitrāṇi ripavas tathā 133 yo yasmiñ jīvati svārthaṃ paśyet tāvat sa jīvati sa tasya tāvan mitraṃ syād yāvan na syād viparyayaḥ 134 nāsti maitrī sthirā nāma na ca dhruvam asauhṛdam arthayuktyā hi jāyante mitrāṇi ripavas tathā 135 mitraṃ ca śatrutām eti kasmiṃś cit kālaparyaye śatruś ca mitratām eti svārtho hi balavattaraḥ 136 yo viśvasati mitreṣu na cāśvasati śatruṣu arthayuktim avijñāya calitaṃ tasya jīvitam 137 arthayuktim avijñāya yaḥ śubhe kurute matim mitre vā yadi vā śatrau tasyāpi calitā matiḥ 138 na viśvased aviśvaste viśvaste 'pi na viśvaset viśvāsād bhayam utpannaṃ mūlāny api nikṛntati 139 arthayuktyā hi deśyante pitā mātā sutās tathā mātulā bhāgineyāś ca tathā saṃbandhibāndhavāḥ 140 putraṃ hi mātā pitaru tyajataḥ patitaṃ priyam loko rakṣati cātmānaṃ paśya svārthasya sāratām 141 taṃ manye nikṛtiprajñaṃ yo mokṣaṃ pratyanantaram kṛtyaṃ mṛgayase kartuṃ sukhopāyam asaṃśayam 142 asmin nilaya eva tvaṃ nyagrodhād avatāritaḥ pūrvaṃ niviṣṭam unmāthaṃ capalatvān na buddhivān 143 ātmanaś capalo nāsti kuto 'nyeṣāṃ bhaviṣyati tasmāt sarvāṇi kāryāṇi capalo hanty asaṃśayam 144 bravīti madhuraṃ kaṃ cit priyo me ha bhavān iti tan mithyā karaṇaṃ sarvaṃ vistareṇāpi me śṛṇu 145 kāraṇāt priyatām eti dveṣyo bhavati kāraṇāt arthārthī jīvaloko 'yaṃ na kaś cit kasya cit priyaḥ 146 sakhyaṃ sodarayor bhrātror dampatyor vā parasparam kasya cin nābhijānāmi prītiṃ niṣkāraṇām iha 147 yady api bhrātaraḥ kruddhā māryā vā kāraṇāntare svabhāvatas te prīyante netaraḥ prīyate janaḥ 148 priyo bhavati dānena priyavādena cāparaḥ mantrahoma japair anyaḥ kāryārthaṃ prīyate janaḥ 149 utpanne kāraṇe prītir nāsti nau kāraṇāntare pradhvaste kāraṇasthāne sā prītir vinivartate 150 kiṃ nu tat kāraṇaṃ manye yanāhaṃ bhavataḥ priyaḥ anyatrābhyavahārārthāt tatrāpi ca budhā vayam 151 kālo hetuṃ vikurute svārthas tam anuvartate svārthaṃ prājño 'bhijānāti prājñaṃ loko 'nuvartate 152 na tv īdṛśaṃ tvayā vācyaṃ viduṣi svārthapaṇḍite akāle 'viṣamasthasya svārthahetur ayaṃ tava 153 tasmān nāhaṃ cale svārthāt susthitaḥ saṃdhivigrahe abhrāṇām iva rūpāṇi vikurvanti kṣaṇe kṣaṇe 154 adyaiva hi ripur bhūtvā punar adyaiva sauhṛdam punaś ca ripur adyaiva yuktīnāṃ paśya cāpalam 155 āsīt tāvat tu maitrī nau yāvad dhetur abhūt purā sā gatā saha tenaiva kālayuktena hetunā 156 tvaṃ hi me 'tyantataḥ śatruḥ sāmarthyān mitratāṃ gataḥ tat kṛtyam abhinirvṛttaṃ prakṛtiḥ śatrutāṃ gatā 157 so 'ham evaṃ praṇītāni jñātvā śāstrāṇi tattvataḥ praviśeyaṃ kathaṃ pāśaṃ tvatkṛtaṃ tad vadasva me 158 tvadvīryeṇa vimukto 'haṃ madvīryeṇa tathā bhavān anyonyānugrahe vṛtte nāsti bhūyaḥ samāgamaḥ 159 tvaṃ hi saumya kṛtārtho 'dya nirvṛttārthās tathā vayam na te 'sty anyan mayā kṛtyaṃ kiṃ cid anyatra bhakṣaṇāt 160 aham annaṃ bhavān bhoktā durbalo 'haṃ bhavān balī nāvayor vidyate saṃdhir niyukte viṣame bale 161 saṃmanye 'haṃ tava prajñāṃ yan mokṣāt pratyanantaram bhakṣyaṃ mṛgayase nūnaṃ sukhopāyam asaṃśayam 162 bhakṣyārtham eva baddhas tvaṃ sa muktaḥ prasṛtaḥ kṣudhā śāstrajñam abhisaṃdhāya nūnaṃ bhakṣayitādya mām 163 jānāmi kṣudhitaṃ hi tvām āhārasamayaś ca te sa tvaṃ mām abhisaṃdhāya bhakṣyaṃ mṛgayase punaḥ 164 yac cāpi putradāraṃ svaṃ tat saṃnisṛjase mayi śuśrūṣāṃ nāma me kartuṃ sakhe mama na tatkṣamam 165 tvayā māṃ sahitaṃ dṛṣṭvā priyā bhāryā sutāś ca ye kasmān māṃ te na khādeyur hṛṣṭāḥ praṇayinas tvayi 166 nāhaṃ tvayā sameṣyāmi vṛtto hetuḥ samāgame śivaṃ dhyāyasva me 'trasthaḥ sukṛtaṃ smaryate yadi 167 śatror annādya bhūtaḥ san kliṣṭasya kṣudhitasya ca bhakṣyaṃ mṛgayamāṇasya kaḥ prājño viṣayaṃ vrajet 168 svasti te 'stu gamiṣyāmi dūrād api tavodvije nāhaṃ tvayā sameṣyāmi nirvṛto bhava lomaśa 169 balavat saṃnikarṣo hi na kadā cit praśasyate praśāntād api me prājña bhetavyaṃ balinaḥ sadā 170 yadi tv arthena me kāryaṃ brūhi kiṃ karavāṇi te kāmaṃ sarvaṃ pradāsyāmi na tv ātmānaṃ kadā cana 171 ātmārthe saṃtatis tyājyā rājyaṃ ratnaṃ dhanaṃ tathā api sarvasvam utsṛjya rakṣed ātmānam ātmanā 172 aiśvaryadhanaratnānāṃ pratyamitre 'pi tiṣṭhatām dṛṣṭā hi punar āvṛttir jīvitām iti naḥ śrutam 173 na tv ātmanaḥ saṃpradānaṃ dhanaratnavad iṣyate ātmā tu sarvato rakṣyo dārair api dhanair api 174 ātmarakṣita tantrāṇāṃ suparīkṣita kāriṇām āpado nopapadyante puruṣāṇāṃ svadoṣajāḥ 175 śatrūn samyag vijānanti durbalā ye balīyasaḥ teṣāṃ na cālyate buddhir ātmārthaṃ kṛtaniścayā 176 ity abhivyaktam evāsau palitenāvabhartsitaḥ mārjāro vrīḍito bhūtvā mūṣakaṃ vākyam abravīt 177 saṃmanye 'haṃ tava prajñāṃ yas tvaṃ mama hite rataḥ uktavān arthatattvena mayā saṃbhinnadarśanaḥ 178 na tu mām anyathā sādho tvaṃ vijñātum ihārhasi prāṇapradānajaṃ tvatto mama sauhṛdam āgatam 179 dharmajño 'smi guṇajño 'smi kṛtajño 'smi viśeṣataḥ mitreṣu vatsalaś cāsmi tvadvidheṣu viśeṣataḥ 180 tan mām evaṃgate sādho na yāvayitum arhasi tvayā hi yāvyamāno 'haṃ prāṇāñ jahyāṃ sabāndhavaḥ 181 dhik śabdo hi budhair dṛṣṭo madvidheṣu manasviṣu maraṇaṃ dharmatattvajña na māṃ śaṅkitum arhasi 182 iti saṃstūyamāno hi mārjāreṇa sa mūṣakaḥ manasā bhāvagambhīraṃ mārjāraṃ vākyam abravīt 183 sādhur bhavāñ śrutārtho 'smi prīyate na ca viśvase saṃstavair vā dhanaughair vā nāhaṃ śakyaḥ punas tvayā 184 na hy amitravaśaṃ yānti prājñā niṣkaraṇaṃ sakhe asminn arthe ca gāthe dve nibodhośanasā kṛte 185 śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā samāhitaś cared yuktyā kṛtārthaś ca na viśvaset 186 tasmāt sarvāsv avasthāsu rakṣeñ jīvitam ātmanaḥ dravyāṇi saṃtatiś caiva sarvaṃ bhavati jīvataḥ 187 saṃkṣepo nītiśāstrāṇām aviśvāsaḥ paro mataḥ nṛṣu tasmād aviśvāsaḥ puṣkalaṃ hitam ātmanaḥ 188 vadhyante na hy aviśvastāḥ śatrubhir durbalā api viśvastās tv āśu vadhyante balavanto 'pi durbalaiḥ 189 tvadvidhebhyo mayā hy ātmā rakṣyo mārjārasarvadā rakṣa tvam api cātmānaṃ caṇḍālāñ jātikilbiṣāt 190 sa tasya bruvatas tv evaṃ saṃtrāsāñ jātasādhvasaḥ svabaliṃ hi javenāśu mārjāraḥ prayayau tataḥ 191 tataḥ śāstrārthatattvajño buddhisāmarthyam ātmanaḥ viśrāvya palitaḥ prājño bilam anyañ jagāma ha 192 evaṃ prajñāvatā buddhyā durbalena mahābalāḥ ekena bahavo 'mitrāḥ saṃdhiṃ kurvīta paṇḍitaḥ 193 ariṇāpi samarthena saṃdhiṃ kurvīta paṇḍitaḥ mūṣakaś ca viḍālaś ca muktāv anyonyasaṃśrayāt 194 ity eṣa kṣatradharmasya mayā mārgo 'nudarśitaḥ vistareṇa mahīpāla saṃkṣepeṇa punaḥ śṛṇu 195 anyonyakṛtavairau tu cakratuḥ prītim uttamām anyonyam abhisaṃdhātum abhūc caiva tayor matiḥ 196 tatra prājño 'bhisaṃdhatte samyag buddhibalāśrayāt abhisaṃdhīyate prājñaḥ pramādād api cābudhaiḥ 197 tasmād abhītavad bhīto viśvastavad aviśvasan na hy apramattaś calati calito vā vinaśyati 198 kālena ripuṇā saṃdhiḥ kāle mitreṇa vigrahaḥ kārya ity eva tattvajñāḥ prājur nityaṃ yudhiṣṭhira 199 evaṃ matvā mahārāja śāstrārtham abhigamya ca abhiyukto 'pramattaś ca prāg bhayād bhītavac caret 200 bhītavat saṃvidhiḥ kāryaḥ pratisaṃdhis tathaiva ca bhayād utpadyate buddhir apramattābhiyogajā 201 na bhayaṃ vidyate rājan bhītasyānāgate bhaye abhītasya tu visrambhāt sumahāñ jāyate bhayam 202 na bhīrur iti cātyantaṃ mantro 'deyaḥ kathaṃ cana avijñānād dhi vijñāte gacched āspada darśiṣu 203 tasmād abhītavad bhīto viśvastavad aviśvasan kāryāṇāṃ gurutāṃ buddhvā nānṛtaṃ kiṃ cid ācaret 204 evam etan mayā proktam itihāsaṃ yudhiṣṭhira śrutvā tvaṃ suhṛdāṃ madhye yathāvat samupācara 205 upalabhya matiṃ cāgryām arimitrāntaraṃ tathā saṃdhivigrahakālaṃ ca mokṣopāyaṃ tathāpadi 206 śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā samāgamaṃ cared yuktyā kṛtārtho na ca viśvaset 207 aviruddhāṃ trivargeṇa nītim etāṃ yudhiṣṭhira abhyuttiṣṭha śrutād asmād bhūyas tvaṃ rañjayan prajāḥ 208 brāhmaṇaiś cāpi te sārdhaṃ yātrā bhavatu pāṇḍava brāhmaṇā hi paraṃ śreyo divi ceha ca bhārata 209 ete dharmasya vettāraḥ kṛtajñāḥ satataṃ prabho pūjitāḥ śubhakarmāṇaḥ pūrvajityā narādhipa 210 rājyaṃ śreyaḥ paraṃ rājan yaśaḥ kīrtiṃ ca lapsyase kulasya saṃtatiṃ caiva yathānyāyaṃ yathākramam 211 dvayor imaṃ bhārata saṃdhivigrahaṃ; subhāṣitaṃ buddhiviśeṣakāritam tathānvavekṣya kṣitipena sarvadā; niṣevitavyaṃ nṛpa śatrumaṇḍale |