1
[ज] शरुत्वा कर्णं हतं युथ्धे पुत्रांश चैवापलायिनः नरेन्थ्रः किं चिथ आश्वस्तॊ थविजश्रेष्ठ किम अब्रवीत 2 पराप्तवान परमं थुःखं पुत्रव्यसनजं महत तस्मिन यथ उक्तवान काले तन ममाचक्ष्व पृच्छतः 3 [वै] शरुत्वा कर्णस्य निधनम अश्रथ्धेयम इवाथ्भुतम भूतसंमॊहनं भीमं मेरॊः पर्यसनं यदा 4 चित्तमॊहम इवायुक्तं भार्गवस्य महामतेः पराजयम इवेन्थ्रस्य थविषथ्भ्यॊ भीमकर्मणः 5 थिवः परपतनं भानॊर उर्व्याम इव महाथ्युतेः संशॊषणम इवाचिन्त्यं समुथ्रस्याक्षयाम्भसः 6 मही वियथ थिग ईशानां सर्वनाशम इवाथ्भुतम कर्मणॊर इव वैफल्यम उभयॊः पुण्यपापयॊः 7 संचिन्त्य निपुणं बुथ्ध्या धृतराष्ट्रॊ जनेश्वरः नेथम अस्तीति संचिन्त्य कर्णस्य निधनं परति 8 पराणिनाम एतथ आत्मत्वात सयाथ अपीति विनाशनम शॊकाग्निना थह्यमानॊ धम्यमान इवाशयः 9 विध्वस्तात्मा शवसन थीनॊ हाहेत्य उक्त्वा सुथुःखितः विललाप महाराज धृतराष्ट्रॊ ऽमबिका सुतः 10 [धृ] संजयाधिरदॊ वीरः सिंहथ्विरथविक्रमः वृषम अप्रतिमस्कन्धॊ वृषभाक्ष गतिस्वनः 11 वृषभॊ वृषभस्येव यॊ युथ्धे न निवर्तते शत्रॊर अपि महेन्थ्रस्य वज्रसंहननॊ युवा 12 यस्य जयातलशब्थेन शरवृष्टिरवेण च रदाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे 13 यम आश्रित्य महाबाहुं थविषत संघघ्नम अच्युतम थुर्यॊधनॊ ऽकरॊथ वैरं पाण्डुपुत्रैर महाबलैः 14 स कदं रदिनां शरेष्ठः कर्णः पार्देन संयुगे निहतः पुरुषव्याघ्रः परसह्यासह्य विक्रमः 15 यॊ नामन्यत वै नित्यम अच्युतं न धनंजयम न वृष्णीन अपि तान अन्यान सवबाहुबलम आश्रितः 16 शार्ङ्गगाण्डीवधन्वानौ सहिताव अपराजितौ अहं थिव्याथ रदाथ एकः पातयिष्यामि संयुगे 17 इति यः सततं मन्थम अवॊचल लॊभमॊहितम थुर्यॊधनम अपाथीनं राज्यकामुकम आतुलम 18 यश चाजैषीथ अतिबलान अमित्रान अपि थुर्जयान गान्धारान मथ्रकान मत्स्यांस तरिगर्तांस तङ्गणाञ शकान 19 पाञ्चालांश च विथेहांश च कुणिन्थान काशिकॊसलान सुह्यान अङ्गांश च पुण्ड्रांश च निषाथान वङ्ग कीचकान 20 वत्सान कलिङ्गांस तरलान अश्मकान ऋषिकांस तदा यॊ जित्वा समरे वीरश चक्रे बलिभृतः पुरा 21 उच्चैःश्रवा वरॊ ऽशवानां राज्ञां वैश्रवणॊ वरः वरॊ महेन्थ्रॊ थेवानां कर्णः परहरतां वरः 22 यं लब्ध्वा मागधॊ राजा सान्त्वमानार्द गौरवैः अरौत्सीत पार्दिवं कषत्रम ऋते कौरव याथवान 23 तं शरुत्वा निहतं कर्णं थवैरदे सव्यसाचिना शॊकार्णवे निमग्नॊ ऽहम अप्लवः सागरे यदा 24 ईथृशैर यथ्य अहं थुःखैर न विनश्यामि संजय वज्राथ थृढतरं मन्ये हृथयं मम थुर्भिथम 25 जञातिसंबन्धिमित्राणाम इमं शरुत्वा पराजयम कॊ मथ अन्यः पुमाँल लॊके न जह्यात सूत जीवितम 26 विषम अग्निं परपातं वा पर्वताग्राथ अहं वृणे न हि शक्ष्यामि थुःखानि सॊढुं कष्टानि संजय 27 [स] शरिया कुलेन यशसा तपसा च शरुतेन च तवाम अथ्य सन्तॊ मन्यन्ते ययातिम इव नाहुषम 28 शरुते महर्षिप्रतिमः कृतकृत्यॊ ऽसि पार्दिव पर्यवस्दापयात्मानं मा विषाथे मनः कृदाः 29 [धृ] थैवम एव परं मन्ये धिक पौरुषम अनर्दकम यत्र राम परतीकाशः कर्णॊ ऽहन्यत संयुगे 30 हत्वा युधिष्ठिरानीकं पाञ्चालानां रदव्रजान परताप्य शरवर्षेण थिशः सर्वा महारदः 31 मॊहयित्वा रणे पार्दान वज्रहस्त इवासुरान स कदं निहतः शेते वातरुग्ण इव थरुमः 32 शॊकस्यान्तं न पश्यामि समुथ्रस्येव विप्लुकाः चिन्ता मे वर्धते तीव्रा मुमूर्षा चापि जायते 33 कर्णस्य निधनं शरुत्वा विजयं फल्गुनस्य च अश्रथ्धेयम अहं मन्ये वधं कर्णस्य संजय 34 वज्रसार मयं नूनं हृथयं सुथृढं मम यच छरुत्वा पुरुषव्याघ्रं हतं कर्णं न थीर्यते 35 आयुर नूनं सुथीर्घं मे विहितं थैवतैः पुरा यत्र कर्णं हतं शरुत्वा जीवामीह सुथुःखितः 36 धिग जीवितम इथं मे ऽथय सुहृथ धीनस्य संजय अथ्य चाहं थशाम एतां गतः संजय गर्हिताम कृपणं वर्तयिष्यामि शॊच्यः सर्वस्य मन्थधीः 37 अहम एव पुरा भूत्वा सर्वलॊकस्य सत्कृतः परिभूतः कदं सूत पुनः शक्ष्यामि जीवितुम थुःखात सुथुःखं वयसनं पराप्तवान अस्मि संजय 38 तस्माथ भीष्म वधे चैव थरॊणस्य च महात्मनः नात्र शेषं परपश्यामि सूतपुत्रे हते युधि 39 स हि पारं महान आसीत पुत्राणां मम संजय युथ्धे विनिहतः शूरॊ विसृजन सायकान बहून 40 कॊ हि मे जीवितेनार्दस तम ऋते पुरुषर्षभम रदाथ अतिरदॊ नूनम अपतत सायकार्थितः 41 पर्वतस्येव शिखरं वज्रपात विथारितम शयीत पृदिवीं नूनं शॊभयन रुधिरॊक्षितः मातङ्ग इव मत्तेन मातङ्गेन निपातितः 42 यथ बलं धार्तराष्ट्राणां पाण्डवानां यतॊ भयम सॊ ऽरजुनेन हतः कर्णः परतिमानं धनुष्मताम 43 स हि वीरॊ महेष्वासः पुत्राणाम अभयंकरः शेते विनिहतॊ वीरः शक्रेणेव यदाबलः 44 पङ्गॊर इवाध्व गमनं थरिथ्रस्येव कामितम थुर्यॊधनस्य चाकूतं तृषितस्येव पिप्लुकाः 45 अन्यदा चिन्तितं कार्यम अन्यदा तत तु जायते अहॊ नु बलवथ थैवं कालश च थुरतिक्रमः 46 पलायमानः कृपणं थीनात्मा थीनपौरुषः कच चिन न निहतः सूतपुत्रॊ थुःशासनॊ मम 47 कच चिन न नीचाचरितं कृतवांस तात संयुगे कच चिन न निहतः शूरॊ यदा न कषत्रिया हताः 48 युधिष्ठिरस्य वचनं मा युथ्धम इति सर्वथा थुर्यॊधनॊ नाभ्यगृह्णान मूढः पद्यम इवौषधम 49 शरतल्पे शयानेन भीष्मेण सुमहात्मना पानीयं याचितः पार्दः सॊ ऽविध्यन मेथिनी तलम 50 जलस्य धारां विहितां थृष्ट्वा तां पाण्डवेन ह अब्रवीत स महाबाहुस तात संशाम्य पाण्डवैः 51 परशमाथ धि भवेच छान्तिर मथन्तं युथ्धम अस्तु च भरातृभावेन पृदिवीं भुङ्क्ष्व पाण्डुसुतैः सह 52 अकुर्वन वचनं तस्य नूनं शॊचति मे सुतः तथ इथं समनुप्राप्तं वचनं थीर्घथर्शिनः 53 अहं तु निहतामात्यॊ हतपुत्रश च संजय थयूततः कृच्छ्रम आपन्नॊ लूनपक्ष इव थविजः 54 यदा हि शकुनिं गृह्य छित्वा पक्षौ च संजय विसर्जयन्ति संहृष्टाः करीडमानाः कुमारकाः 55 छिन्नपक्षतया तस्य गमनं नॊपपथ्यते तदाहम अपि संप्राप्तॊ लूनपक्ष इव थविजः 56 कषीणः सर्वार्दहीनश च निर्बन्धुर जञातिवर्जितः कां थिशं परतिपत्स्यामि थीनः शत्रुवशं गतः 57 थुर्यॊधनस्य वृथ्ध्यर्दं पृदिवीं यॊ ऽजयत परभुः स जितः पाण्डवैः शूरैः समर्दैर वीर्यशालिभिः 58 तस्मिन हते महेष्वासे कर्णे युधि किरीटिना के वीराः पर्यवर्तन्त तन ममाचक्ष्व संजय 59 कच चिन नैकः परित्यक्तः पाण्डवैर निहतॊ रणे उक्तं तवया पुरा वीर यदा वीरा निपातिताः 60 भीष्मम अप्रतियुध्यन्तं शिखण्डी सायकॊत्तमैः पातयाम आस समरे सर्वशस्त्रभृतां वरम 61 तदा थरौपथिना थरॊणॊ नयस्तसर्वायुधॊ युधि युक्तयॊगॊ महेष्वासः शरैर बहुभिर आचितः निहतः खड्गम उथ्यम्य धृष्टथ्युम्नेन संजय 62 अन्तरेण हताव एतौ छलेन च विशेषतः अश्रौषम अहम एतथ वै भीष्मथ्रॊणौ निपातितौ 63 भीष्मथ्रॊणौ हि समरे न हन्याथ वज्रभृत सवयम नयायेन युध्यमानौ हि तथ वै सत्यं बरवीमि ते 64 कर्णं तव अस्यन्तम अस्त्राणि थिव्यानि च बहूनि च कदम इन्थ्रॊपमं वीरं मृत्युर युथ्धे समस्पृशत 65 यस्य विथ्युत्प्रभां शक्तिं थिव्यां कनकभूषणाम परायच्छथ थविषतां हन्त्रीं कुण्डलाभ्यां पुरंथरः 66 यस्य सर्पमुखॊ थिव्यः शरः कनकभूषणः अशेत निहतः पत्री चन्थनेष्व अरिसूथनः 67 भीष्मथ्रॊणमुखान वीरान यॊ ऽवमन्य महारदान जामथग्न्यान महाघॊरं बराह्मम अस्त्रम अशिक्षत 68 यश च थरॊण मुखान थृष्ट्वा विमुखान अर्थिताञ शरैः सौभथ्रस्य महाबाहुर वयधमत कार्मुकं शरैः 69 यश च नागायुत पराणं वातरंहसम अच्युतम विरदं भरातरं कृत्वा भीमसेनम उपाहसत 70 सहथेवं च निर्जित्य शरैः संनतपर्वभिः कृपया विरदं कृत्वा नाहनथ धर्मवित्तया 71 यश च माया सहस्राणि धवंसयित्वा रणॊत्कटम घटॊत्कचं राक्षसेन्थ्रं शक्र शक्त्याभिजघ्निवान 72 एतानि थिवसान्य अस्य युथ्धे भीतॊ धनंजयः नागमथ थवैरदं वीरः स कदं निहतॊ रणे 73 रदसङ्गॊ न चेत तस्य धनुर वा न वयशीर्यत न चेथ अस्त्राणि निर्णेशुः स कदं निहतः परैः 74 कॊ हि शक्तॊ रणे कर्णं विधुन्वानं महथ धनुः विमुञ्चन्तं शरान घॊरान थिव्यान्य अस्त्राणि चाहवे जेतुं पुरुषशार्थूलं शार्थूलम इव वेगितम 75 धरुवं तस्य धनुश छिन्नं रदॊ वापि गतॊ महीम अस्त्राणि वा परनष्टानि यदा शंससि मे हतम न हय अन्यथ अनुपश्यामि कारणं तस्य नाशने 76 न हन्याम अर्जुनं यावत तावत पाथौ न धावये इति यस्य महाघॊरं वरतम आसीन महात्मनः 77 यस्य भीतॊ वने नित्यं धर्मराजॊ युधिष्ठिरः तरयॊथश समा निथ्रां न लेभे पुरुषर्षभः 78 यस्य वीर्यवतॊ वीर्यं समाश्रित्य महात्मनः मम पुत्रः सभां भार्यां पाण्डूनां नीतवान बलात 79 तत्र चापि सभामध्ये पाण्डवानां च पश्यताम थासभार्येति पाञ्चालीम अब्रवीत कुरुसंसथि 80 यश च गाण्डीवमुक्तानां सपर्शम उग्रम अचिन्तयन अपतिर हय असि कृष्णेति बरुवन पार्दान अवैक्षत 81 यस्य नासीथ भयं पार्दैः सपुत्रैः सजनार्थनैः सवबाहुबलम आश्रित्य मुहूर्तम अपि संजय 82 तस्य नाहं वधं मन्ये थेवैर अपि स वासवैः परतीपम उपधावथ्भिः किं पुनस तात पाण्डवैः 83 न हि जयां सपृशमानस्य तलत्रे चापि गृह्णतः पुमान आधिरदेः कश चित परमुखे सदातुम अर्हति 84 अपि सयान मेथिनी हीना सॊमसूर्यप्रभांशुभिः न वधः पुरुषेन्थ्रस्य समरेष्व अपलायिनः 85 यथि मन्थः सहायेन भरात्रा थुःशासनेन च वासुथेवस्य थुर्बुथ्धिः परत्याख्यानम अरॊचयत 86 स नूनम ऋषभस्कन्धं थृष्ट्वा कर्णं निपातितम थुःशासनं च निहतं मन्ये शॊचति पुत्रकः 87 हतं वैकर्तनं शरुत्वा थवैरदे सव्यसाचिना जयतः पाण्डवान थृष्ट्वा किंस्विथ थुर्यॊधनॊ ऽबरवीत 88 थुर्मर्षणं हतं शरुत्वा वृषसेनं च संयुगे परभग्नं च बलं थृष्ट्वा वध्यमानं महारदैः 89 पराङ्मुखांस तदा राज्ञः पलायनपरायणान विथ्रुतान रदिनॊ थृष्ट्वा मन्ये शॊचति पुत्रकः 90 अनेयश चाभिमानेन बाल बुथ्धिर अमर्षणः हतॊत्साहं बलं थृष्ट्वा किंस्विथ थुर्यॊधनॊ ऽबरवीत 91 भरातरं निहतं थृष्ट्वा भीमसेनेन संयुगे रुधिरं पीयमानेन किंस्विथ थुर्यॊधनॊ ऽबरवीत 92 सह गान्धारराजेन सभायां यथ अभाषत कर्णॊ ऽरजुनं रणे हन्ता हते तस्मिन किम अब्रवीत 93 थयूतं कृत्वा पुरा हृष्टॊ वञ्चयित्वा च पाण्डवान शकुनिः सौबलस तात हते कर्णे किम अब्रवीत 94 कृतवर्मा महेष्वासः सात्वतानां महारदः कर्णं विनिहतं थृष्ट्वा हार्थिक्यः किम अभाषत 95 बराह्मणाः कषत्रिया वैश्या यस्य शिक्षाम उपासते धनुर्वेथं चिकीर्षन्तॊ थरॊणपुत्रस्य धीमतः 96 युवा रूपेण संपन्नॊ थर्शनीयॊ महायशाः अश्वत्दामा हते कर्णे किम अभाषत संजय 97 आचार्यत्वं धनुर्वेथे गतः परमतत्त्ववित कृपः शारथ्वतस तात हते कर्णे किम अब्रवीत 98 मथ्रराजॊ महेष्वासः शल्यः समितिशॊभनः थिष्टं तेन हि तत सर्वं यदा कर्णॊ निपातितः 99 ये च के चन राजानः पृदिव्यां यॊथ्धुम आगताः वैकर्तनं हतं थृष्ट्वा किम अभाषन्त संजय 100 कर्णे तु निहते वीरे रदव्याघ्रे नरर्षभे किं वॊ मुखम अनीकानाम आसीत संजय भागशः 101 मथ्रराजः कदं शल्यॊ नियुक्तॊ रदिनां वरः वैकर्तनस्य सारद्ये तन ममाचक्ष्व संजय 102 के ऽरक्षन थक्षिणं चक्रं सूतपुत्रस्य संयुगे वामं चक्रं ररक्षुर वा के वा वीरस्य पृष्ठतः 103 के कर्णं वाजहुः शूराः के कषुथ्राः पराथ्रवन भयात कदं च वः समेतानां हतः कर्णॊ महारदः 104 पाण्डवाश च कदं शूराः परत्युथीयुर महारदम सृजन्तं शरवर्षाणि वारिधारा इवाम्बुथम 105 स च सर्पमुखॊ थिव्यॊ महेषु परवरस तथा वयर्दः कदं समभवत तन ममाचक्ष्व संजय 106 मामकस्यास्य सैन्यस्य हृतॊत्सेधस्य संजय अवशेषं न पश्यामि ककुथे मृथिते सति 107 तौ हि वीरौ महेष्वासौ मथर्दे कुरुसत्तमौ भीष्मथ्रॊणौ हतौ शरुत्वा कॊ नव अर्दॊ जीवितेन मे 108 न मृष्यामि च राधेयं हतम आहवशॊभिनम यस्य बाह्वॊर बलं तुल्यं कुञ्जराणां शतं शतम 109 थरॊणे हते च यथ्वृत्तं कौरवाणां परैः सह संग्रामे नरवीराणां तन ममाचक्ष्व संजय 110 यदा च कर्णः कौन्तेयैः सह युथ्धम अयॊजयत यदा च थविषतां हन्ता रणे शान्तस तथ उच्यताम |
1
[j] śrutvā karṇaṃ hataṃ yuddhe putrāṃś caivāpalāyinaḥ narendraḥ kiṃ cid āśvasto dvijaśreṣṭha kim abravīt 2 prāptavān paramaṃ duḥkhaṃ putravyasanajaṃ mahat tasmin yad uktavān kāle tan mamācakṣva pṛcchataḥ 3 [vai] śrutvā karṇasya nidhanam aśraddheyam ivādbhutam bhūtasaṃmohanaṃ bhīmaṃ meroḥ paryasanaṃ yathā 4 cittamoham ivāyuktaṃ bhārgavasya mahāmateḥ parājayam ivendrasya dviṣadbhyo bhīmakarmaṇaḥ 5 divaḥ prapatanaṃ bhānor urvyām iva mahādyuteḥ saṃśoṣaṇam ivācintyaṃ samudrasyākṣayāmbhasaḥ 6 mahī viyad dig īśānāṃ sarvanāśam ivādbhutam karmaṇor iva vaiphalyam ubhayoḥ puṇyapāpayoḥ 7 saṃcintya nipuṇaṃ buddhyā dhṛtarāṣṭro janeśvaraḥ nedam astīti saṃcintya karṇasya nidhanaṃ prati 8 prāṇinām etad ātmatvāt syād apīti vināśanam śokāgninā dahyamāno dhamyamāna ivāśayaḥ 9 vidhvastātmā śvasan dīno hāhety uktvā suduḥkhitaḥ vilalāpa mahārāja dhṛtarāṣṭro 'mbikā sutaḥ 10 [dhṛ] saṃjayādhiratho vīraḥ siṃhadviradavikramaḥ vṛṣam apratimaskandho vṛṣabhākṣa gatisvanaḥ 11 vṛṣabho vṛṣabhasyeva yo yuddhe na nivartate śatror api mahendrasya vajrasaṃhanano yuvā 12 yasya jyātalaśabdena śaravṛṣṭiraveṇa ca rathāśvanaramātaṅgā nāvatiṣṭhanti saṃyuge 13 yam āśritya mahābāhuṃ dviṣat saṃghaghnam acyutam duryodhano 'karod vairaṃ pāṇḍuputrair mahābalaiḥ 14 sa kathaṃ rathināṃ śreṣṭhaḥ karṇaḥ pārthena saṃyuge nihataḥ puruṣavyāghraḥ prasahyāsahya vikramaḥ 15 yo nāmanyata vai nityam acyutaṃ na dhanaṃjayam na vṛṣṇīn api tān anyān svabāhubalam āśritaḥ 16 śārṅgagāṇḍīvadhanvānau sahitāv aparājitau ahaṃ divyād rathād ekaḥ pātayiṣyāmi saṃyuge 17 iti yaḥ satataṃ mandam avocal lobhamohitam duryodhanam apādīnaṃ rājyakāmukam ātulam 18 yaś cājaiṣīd atibalān amitrān api durjayān gāndhārān madrakān matsyāṃs trigartāṃs taṅgaṇāñ śakān 19 pāñcālāṃś ca videhāṃś ca kuṇindān kāśikosalān suhyān aṅgāṃś ca puṇḍrāṃś ca niṣādān vaṅga kīcakān 20 vatsān kaliṅgāṃs taralān aśmakān ṛṣikāṃs tathā yo jitvā samare vīraś cakre balibhṛtaḥ purā 21 uccaiḥśravā varo 'śvānāṃ rājñāṃ vaiśravaṇo varaḥ varo mahendro devānāṃ karṇaḥ praharatāṃ varaḥ 22 yaṃ labdhvā māgadho rājā sāntvamānārtha gauravaiḥ arautsīt pārthivaṃ kṣatram ṛte kaurava yādavān 23 taṃ śrutvā nihataṃ karṇaṃ dvairathe savyasācinā śokārṇave nimagno 'ham aplavaḥ sāgare yathā 24 īdṛśair yady ahaṃ duḥkhair na vinaśyāmi saṃjaya vajrād dṛḍhataraṃ manye hṛdayaṃ mama durbhidam 25 jñātisaṃbandhimitrāṇām imaṃ śrutvā parājayam ko mad anyaḥ pumāṁl loke na jahyāt sūta jīvitam 26 viṣam agniṃ prapātaṃ vā parvatāgrād ahaṃ vṛṇe na hi śakṣyāmi duḥkhāni soḍhuṃ kaṣṭāni saṃjaya 27 [s] śriyā kulena yaśasā tapasā ca śrutena ca tvām adya santo manyante yayātim iva nāhuṣam 28 śrute maharṣipratimaḥ kṛtakṛtyo 'si pārthiva paryavasthāpayātmānaṃ mā viṣāde manaḥ kṛthāḥ 29 [dhṛ] daivam eva paraṃ manye dhik pauruṣam anarthakam yatra rāma pratīkāśaḥ karṇo 'hanyata saṃyuge 30 hatvā yudhiṣṭhirānīkaṃ pāñcālānāṃ rathavrajān pratāpya śaravarṣeṇa diśaḥ sarvā mahārathaḥ 31 mohayitvā raṇe pārthān vajrahasta ivāsurān sa kathaṃ nihataḥ śete vātarugṇa iva drumaḥ 32 śokasyāntaṃ na paśyāmi samudrasyeva viplukāḥ cintā me vardhate tīvrā mumūrṣā cāpi jāyate 33 karṇasya nidhanaṃ śrutvā vijayaṃ phalgunasya ca aśraddheyam ahaṃ manye vadhaṃ karṇasya saṃjaya 34 vajrasāra mayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama yac chrutvā puruṣavyāghraṃ hataṃ karṇaṃ na dīryate 35 āyur nūnaṃ sudīrghaṃ me vihitaṃ daivataiḥ purā yatra karṇaṃ hataṃ śrutvā jīvāmīha suduḥkhitaḥ 36 dhig jīvitam idaṃ me 'dya suhṛd dhīnasya saṃjaya adya cāhaṃ daśām etāṃ gataḥ saṃjaya garhitām kṛpaṇaṃ vartayiṣyāmi śocyaḥ sarvasya mandadhīḥ 37 aham eva purā bhūtvā sarvalokasya satkṛtaḥ paribhūtaḥ kathaṃ sūta punaḥ śakṣyāmi jīvitum duḥkhāt suduḥkhaṃ vyasanaṃ prāptavān asmi saṃjaya 38 tasmād bhīṣma vadhe caiva droṇasya ca mahātmanaḥ nātra śeṣaṃ prapaśyāmi sūtaputre hate yudhi 39 sa hi pāraṃ mahān āsīt putrāṇāṃ mama saṃjaya yuddhe vinihataḥ śūro visṛjan sāyakān bahūn 40 ko hi me jīvitenārthas tam ṛte puruṣarṣabham rathād atiratho nūnam apatat sāyakārditaḥ 41 parvatasyeva śikharaṃ vajrapāta vidāritam śayīta pṛthivīṃ nūnaṃ śobhayan rudhirokṣitaḥ mātaṅga iva mattena mātaṅgena nipātitaḥ 42 yad balaṃ dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ yato bhayam so 'rjunena hataḥ karṇaḥ pratimānaṃ dhanuṣmatām 43 sa hi vīro maheṣvāsaḥ putrāṇām abhayaṃkaraḥ śete vinihato vīraḥ śakreṇeva yathābalaḥ 44 paṅgor ivādhva gamanaṃ daridrasyeva kāmitam duryodhanasya cākūtaṃ tṛṣitasyeva piplukāḥ 45 anyathā cintitaṃ kāryam anyathā tat tu jāyate aho nu balavad daivaṃ kālaś ca duratikramaḥ 46 palāyamānaḥ kṛpaṇaṃ dīnātmā dīnapauruṣaḥ kac cin na nihataḥ sūtaputro duḥśāsano mama 47 kac cin na nīcācaritaṃ kṛtavāṃs tāta saṃyuge kac cin na nihataḥ śūro yathā na kṣatriyā hatāḥ 48 yudhiṣṭhirasya vacanaṃ mā yuddham iti sarvadā duryodhano nābhyagṛhṇān mūḍhaḥ pathyam ivauṣadham 49 śaratalpe śayānena bhīṣmeṇa sumahātmanā pānīyaṃ yācitaḥ pārthaḥ so 'vidhyan medinī talam 50 jalasya dhārāṃ vihitāṃ dṛṣṭvā tāṃ pāṇḍavena ha abravīt sa mahābāhus tāta saṃśāmya pāṇḍavaiḥ 51 praśamād dhi bhavec chāntir madantaṃ yuddham astu ca bhrātṛbhāvena pṛthivīṃ bhuṅkṣva pāṇḍusutaiḥ saha 52 akurvan vacanaṃ tasya nūnaṃ śocati me sutaḥ tad idaṃ samanuprāptaṃ vacanaṃ dīrghadarśinaḥ 53 ahaṃ tu nihatāmātyo hataputraś ca saṃjaya dyūtataḥ kṛcchram āpanno lūnapakṣa iva dvijaḥ 54 yathā hi śakuniṃ gṛhya chitvā pakṣau ca saṃjaya visarjayanti saṃhṛṣṭāḥ krīḍamānāḥ kumārakāḥ 55 chinnapakṣatayā tasya gamanaṃ nopapadyate tathāham api saṃprāpto lūnapakṣa iva dvijaḥ 56 kṣīṇaḥ sarvārthahīnaś ca nirbandhur jñātivarjitaḥ kāṃ diśaṃ pratipatsyāmi dīnaḥ śatruvaśaṃ gataḥ 57 duryodhanasya vṛddhyarthaṃ pṛthivīṃ yo 'jayat prabhuḥ sa jitaḥ pāṇḍavaiḥ śūraiḥ samarthair vīryaśālibhiḥ 58 tasmin hate maheṣvāse karṇe yudhi kirīṭinā ke vīrāḥ paryavartanta tan mamācakṣva saṃjaya 59 kac cin naikaḥ parityaktaḥ pāṇḍavair nihato raṇe uktaṃ tvayā purā vīra yathā vīrā nipātitāḥ 60 bhīṣmam apratiyudhyantaṃ śikhaṇḍī sāyakottamaiḥ pātayām āsa samare sarvaśastrabhṛtāṃ varam 61 tathā draupadinā droṇo nyastasarvāyudho yudhi yuktayogo maheṣvāsaḥ śarair bahubhir ācitaḥ nihataḥ khaḍgam udyamya dhṛṣṭadyumnena saṃjaya 62 antareṇa hatāv etau chalena ca viśeṣataḥ aśrauṣam aham etad vai bhīṣmadroṇau nipātitau 63 bhīṣmadroṇau hi samare na hanyād vajrabhṛt svayam nyāyena yudhyamānau hi tad vai satyaṃ bravīmi te 64 karṇaṃ tv asyantam astrāṇi divyāni ca bahūni ca katham indropamaṃ vīraṃ mṛtyur yuddhe samaspṛśat 65 yasya vidyutprabhāṃ śaktiṃ divyāṃ kanakabhūṣaṇām prāyacchad dviṣatāṃ hantrīṃ kuṇḍalābhyāṃ puraṃdaraḥ 66 yasya sarpamukho divyaḥ śaraḥ kanakabhūṣaṇaḥ aśeta nihataḥ patrī candaneṣv arisūdanaḥ 67 bhīṣmadroṇamukhān vīrān yo 'vamanya mahārathān jāmadagnyān mahāghoraṃ brāhmam astram aśikṣata 68 yaś ca droṇa mukhān dṛṣṭvā vimukhān arditāñ śaraiḥ saubhadrasya mahābāhur vyadhamat kārmukaṃ śaraiḥ 69 yaś ca nāgāyuta prāṇaṃ vātaraṃhasam acyutam virathaṃ bhrātaraṃ kṛtvā bhīmasenam upāhasat 70 sahadevaṃ ca nirjitya śaraiḥ saṃnataparvabhiḥ kṛpayā virathaṃ kṛtvā nāhanad dharmavittayā 71 yaś ca māyā sahasrāṇi dhvaṃsayitvā raṇotkaṭam ghaṭotkacaṃ rākṣasendraṃ śakra śaktyābhijaghnivān 72 etāni divasāny asya yuddhe bhīto dhanaṃjayaḥ nāgamad dvairathaṃ vīraḥ sa kathaṃ nihato raṇe 73 rathasaṅgo na cet tasya dhanur vā na vyaśīryata na ced astrāṇi nirṇeśuḥ sa kathaṃ nihataḥ paraiḥ 74 ko hi śakto raṇe karṇaṃ vidhunvānaṃ mahad dhanuḥ vimuñcantaṃ śarān ghorān divyāny astrāṇi cāhave jetuṃ puruṣaśārdūlaṃ śārdūlam iva vegitam 75 dhruvaṃ tasya dhanuś chinnaṃ ratho vāpi gato mahīm astrāṇi vā pranaṣṭāni yathā śaṃsasi me hatam na hy anyad anupaśyāmi kāraṇaṃ tasya nāśane 76 na hanyām arjunaṃ yāvat tāvat pādau na dhāvaye iti yasya mahāghoraṃ vratam āsīn mahātmanaḥ 77 yasya bhīto vane nityaṃ dharmarājo yudhiṣṭhiraḥ trayodaśa samā nidrāṃ na lebhe puruṣarṣabhaḥ 78 yasya vīryavato vīryaṃ samāśritya mahātmanaḥ mama putraḥ sabhāṃ bhāryāṃ pāṇḍūnāṃ nītavān balāt 79 tatra cāpi sabhāmadhye pāṇḍavānāṃ ca paśyatām dāsabhāryeti pāñcālīm abravīt kurusaṃsadi 80 yaś ca gāṇḍīvamuktānāṃ sparśam ugram acintayan apatir hy asi kṛṣṇeti bruvan pārthān avaikṣata 81 yasya nāsīd bhayaṃ pārthaiḥ saputraiḥ sajanārdanaiḥ svabāhubalam āśritya muhūrtam api saṃjaya 82 tasya nāhaṃ vadhaṃ manye devair api sa vāsavaiḥ pratīpam upadhāvadbhiḥ kiṃ punas tāta pāṇḍavaiḥ 83 na hi jyāṃ spṛśamānasya talatre cāpi gṛhṇataḥ pumān ādhiratheḥ kaś cit pramukhe sthātum arhati 84 api syān medinī hīnā somasūryaprabhāṃśubhiḥ na vadhaḥ puruṣendrasya samareṣv apalāyinaḥ 85 yadi mandaḥ sahāyena bhrātrā duḥśāsanena ca vāsudevasya durbuddhiḥ pratyākhyānam arocayat 86 sa nūnam ṛṣabhaskandhaṃ dṛṣṭvā karṇaṃ nipātitam duḥśāsanaṃ ca nihataṃ manye śocati putrakaḥ 87 hataṃ vaikartanaṃ śrutvā dvairathe savyasācinā jayataḥ pāṇḍavān dṛṣṭvā kiṃsvid duryodhano 'bravīt 88 durmarṣaṇaṃ hataṃ śrutvā vṛṣasenaṃ ca saṃyuge prabhagnaṃ ca balaṃ dṛṣṭvā vadhyamānaṃ mahārathaiḥ 89 parāṅmukhāṃs tathā rājñaḥ palāyanaparāyaṇān vidrutān rathino dṛṣṭvā manye śocati putrakaḥ 90 aneyaś cābhimānena bāla buddhir amarṣaṇaḥ hatotsāhaṃ balaṃ dṛṣṭvā kiṃsvid duryodhano 'bravīt 91 bhrātaraṃ nihataṃ dṛṣṭvā bhīmasenena saṃyuge rudhiraṃ pīyamānena kiṃsvid duryodhano 'bravīt 92 saha gāndhārarājena sabhāyāṃ yad abhāṣata karṇo 'rjunaṃ raṇe hantā hate tasmin kim abravīt 93 dyūtaṃ kṛtvā purā hṛṣṭo vañcayitvā ca pāṇḍavān śakuniḥ saubalas tāta hate karṇe kim abravīt 94 kṛtavarmā maheṣvāsaḥ sātvatānāṃ mahārathaḥ karṇaṃ vinihataṃ dṛṣṭvā hārdikyaḥ kim abhāṣata 95 brāhmaṇāḥ kṣatriyā vaiśyā yasya śikṣām upāsate dhanurvedaṃ cikīrṣanto droṇaputrasya dhīmataḥ 96 yuvā rūpeṇa saṃpanno darśanīyo mahāyaśāḥ aśvatthāmā hate karṇe kim abhāṣata saṃjaya 97 ācāryatvaṃ dhanurvede gataḥ paramatattvavit kṛpaḥ śāradvatas tāta hate karṇe kim abravīt 98 madrarājo maheṣvāsaḥ śalyaḥ samitiśobhanaḥ diṣṭaṃ tena hi tat sarvaṃ yathā karṇo nipātitaḥ 99 ye ca ke cana rājānaḥ pṛthivyāṃ yoddhum āgatāḥ vaikartanaṃ hataṃ dṛṣṭvā kim abhāṣanta saṃjaya 100 karṇe tu nihate vīre rathavyāghre nararṣabhe kiṃ vo mukham anīkānām āsīt saṃjaya bhāgaśaḥ 101 madrarājaḥ kathaṃ śalyo niyukto rathināṃ varaḥ vaikartanasya sārathye tan mamācakṣva saṃjaya 102 ke 'rakṣan dakṣiṇaṃ cakraṃ sūtaputrasya saṃyuge vāmaṃ cakraṃ rarakṣur vā ke vā vīrasya pṛṣṭhataḥ 103 ke karṇaṃ vājahuḥ śūrāḥ ke kṣudrāḥ prādravan bhayāt kathaṃ ca vaḥ sametānāṃ hataḥ karṇo mahārathaḥ 104 pāṇḍavāś ca kathaṃ śūrāḥ pratyudīyur mahāratham sṛjantaṃ śaravarṣāṇi vāridhārā ivāmbudam 105 sa ca sarpamukho divyo maheṣu pravaras tadā vyarthaḥ kathaṃ samabhavat tan mamācakṣva saṃjaya 106 māmakasyāsya sainyasya hṛtotsedhasya saṃjaya avaśeṣaṃ na paśyāmi kakude mṛdite sati 107 tau hi vīrau maheṣvāsau madarthe kurusattamau bhīṣmadroṇau hatau śrutvā ko nv artho jīvitena me 108 na mṛṣyāmi ca rādheyaṃ hatam āhavaśobhinam yasya bāhvor balaṃ tulyaṃ kuñjarāṇāṃ śataṃ śatam 109 droṇe hate ca yadvṛttaṃ kauravāṇāṃ paraiḥ saha saṃgrāme naravīrāṇāṃ tan mamācakṣva saṃjaya 110 yathā ca karṇaḥ kaunteyaiḥ saha yuddham ayojayat yathā ca dviṣatāṃ hantā raṇe śāntas tad ucyatām |