1
[वै] एतच छरुत्वा महाराज धृतराष्ट्रॊ ऽमबिका सुतः अब्रवीत संजयं सूतं शॊकव्याकुल चेतनः 2 थुष्प्रणीतेन मे तात मनसाभिप्लुतात्मनः हतं वैकर्तनं शरुत्वा शॊकॊ मर्माणि कृन्तति 3 कृतास्त्र परमाः शल्ये थुःखपारं तितीर्षवः कुरूणां सृञ्जयानां च के नु जीवन्ति के मृताः 4 [स] हतः शांतनवॊ राजन थुराधर्षः परतापवान हत्वा पाण्डव यॊधानाम अर्बुथं थशभिर थिनैः 5 ततॊ थरॊणॊ महेष्वासः पाञ्चालानां रदव्रजान निहत्य युधि थुर्धर्षः पश्चाथ रुक्मरदॊ हतः 6 हतशिष्टस्य भीष्मेण थरॊणेन च महात्मना अर्धं निहत्य सैन्यस्य कर्णॊ वैकर्तनॊ हतः 7 विविंशतिर महाराज राजपुत्रॊ महाबलः आनर्तयॊधाञ शतशॊ निहत्य निहतॊ रणे 8 अद पुत्रॊ विकर्णस ते कषत्रव्रतम अनुस्मरन कषीणवाहायुधः शूरः सदितॊ ऽभिमुखतः परान 9 घॊररूपान परिक्लेशान थुर्यॊधनकृतान बहून परतिज्ञां समरता चैव भीमसेनेन पातितः 10 विन्थानुविन्थाव आवन्त्यौ राजपुत्रौ महाबलौ कृत्वा न सुकरं कर्म गतौ वैवस्वतक्षयम 11 सिन्धुराष्ट्रमुखानीह थश राष्ट्राणि यस्य वै वशे तिष्ठन्ति वीरस्य यः सदितस तव शासने 12 अक्षौहिणीर थशैकां च निर्जित्य निशितैः शरैः अर्जुनेन हतॊ राजन महावीर्यॊ जयथ्रदः 13 तदा थुर्यॊधन सुतस तरस्वी युथ्धथुर्मथः वर्तमानः पितुः शास्त्रे सौभथ्रेण निपातितः 14 तदा थौःशासनिर वीरॊ बाहुशाली रणॊत्कटः थरौपथेयेन विक्रम्य गमितॊ यमसाथनम 15 किरातानाम अधिपतिः सागरानूपवासिनाम थेवराजस्य धर्मात्मा परियॊ बहुमतः सखा 16 भगथत्तॊ महीपालः कषत्रधर्मरतः सथा धनंजयेन विक्रम्य गमितॊ यमसाथनम 17 तदा कौरव थायाथः सौमथत्तिर महायशाः हतॊ भूरिश्रवा राजञ शूरः सात्यकिना युधि 18 शरुतायुर अपि चाम्बष्ठः कषत्रियाणां धनुर्धरः चरन्न अभीतवत संख्ये निहतः सव्यसाचिना 19 तव पुत्रः सथा संख्ये कृतास्त्रॊ युथ्धथुर्मथः थुःशासनॊ महाराज भीमसेनेन पातितः 20 यस्य राजन गजानीकं बहुसाहस्रम अथ्भुतम सुथक्षिणः स संग्रामे निहतः सव्यसाचिना 21 कॊसलानाम अधिपतिर हत्वा बहुशतान परान सौभथ्रेण हि विक्रम्य गमितॊ यमसाथनम 22 बहुशॊ यॊधयित्वा च भीमसेनं महारदः चित्रसेनस तव सुतॊ भीमसेनेन पातितः 23 मथ्रराजात्मजः शूरः परेषां भयवर्धनः असि चर्म धरः शरीमान सौभथ्रेण निपातितः 24 समः कर्णस्य समरे यः स कर्णस्य पश्यतः वृषसेनॊ महातेजाः शीघ्रास्त्रः कृतनिश्चयः 25 अभिमन्यॊर वधं समृत्वा परतिज्ञाम अपि चात्मनः धनंजयेन विक्रम्य गमितॊ यमसाथनम 26 नित्यप्रसक्तवैरॊ यः पाण्डवैः पृदिवीपतिः विश्राव्य वैरं पार्देन शरुतायुः स निपातितः 27 शल्य पुत्रस तु विक्रान्तः सहथेवेन मारिष हतॊ रुक्मरदॊ राजन भराता मातुलजॊ युधि 28 राजा भगीरदॊ वृथ्धॊ बृहत कषत्रश च केकयः पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ 29 भगथत्तसुतॊ राजन कृतप्रज्ञॊ महाबलः शयेनवच चरता संख्ये नकुलेन निपातितः 30 पितामहस तव तदा बाह्लिकः सह बाह्लिकैः भीमसेनेन विक्रम्य गमितॊ यमसाथनम 31 जयत्सेनस तदा राजञ जारासंधिर महाबलः मागधॊ निहतः संख्ये सौभथ्रेण महात्मना 32 पुत्रस ते थुर्मुखॊ राजन थुःसहश च महारदः गथया भीमसेनेन निहतौ शूरमानिनौ 33 थुर्मर्षणॊ थुर्विषहॊ थुर्जयश च महारदः कृत्वा न सुकरं कर्म गता वैवस्वतक्षयम 34 सचिवॊ वृषवर्मा ते सूतः परमवीर्यवान भीमसेनेन विक्रम्य गमितॊ यमसाथनम 35 नागायुत बलॊ राजा नागायुत बलॊ महान सगणः पाण्डुपुत्रेण निहतः सव्यसाचिना 36 वसातयॊ महाराज थविसाहस्राः परहारिणः शूरसेनाश च विक्रान्ताः सर्वे युधि निपातिताः 37 अभीषाहाः कवचिनः परहरन्तॊ महॊत्कटाः शिबयश च रदॊथाराः कलिङ्ग सहिता हताः 38 गॊकुले नित्यसंवृथ्धा युथ्धे परमकॊविथाः शरेणयॊ बहुसाहस्राः संशप्तक गणाश च ये ते सर्वे पार्दम आसाथ्य गता वैवस्वतक्षयम 39 सयालौ तव महाराज राजानौ वृषकाचलौ तवथर्दे संपराक्रान्तौ निहतौ सव्यसाचिना 40 उग्रकर्मा महेष्वासॊ नामतः कर्मतस तदा शाल्वराजॊ महाराज भीमसेनेन पातितः 41 ओघवांश च महाराज बृहन्तः सहितॊ रणे पराक्रमन्तौ मित्रार्दे गतौ वैवस्वतक्षयम 42 तदैव रदिनां शरेष्ठः कषेमधूर्तिर विशां पते निहतॊ गथया राजन भीमसेनेन संयुगे 43 तदा राजा महेष्वासॊ जलसंधॊ महाबलः सुमहत कथनं कृत्त्वा हतः सात्यकिना रणे 44 अलायुधॊ राक्षसेन्थ्रः खरबन्धुर यानगः घटॊत्कचेन विक्रम्य गमितॊ यमसाथनम 45 राधेयाः सूतपुत्राश च भरातरश च महारदाः केकयाः सर्वशश चापि निहताः सव्यसाचिना 46 मालवा मथ्रकाश चैव थरविडाश चॊग्रविक्रमाः यौधेयाश च ललित्दाश च कषुथ्रकाश चाप्य उशीनराः 47 मावेल्लकास तुण्डिकेराः सावित्री पुत्र काञ्चलाह पराच्यॊथीच्याः परतीच्याश च थाक्षिणात्याश च मारिष 48 पत्तीनां निहताः संघा हयानाम अयुतानि च रदव्रजाश च निहता हताश च वरवारणाः 49 स धवजाः सायुधाः शूराः स वर्माम्बर भूषणाः कालेन महता यत्ताः कुले ये च विवर्धिताः 50 ते हताः समरे राजन पार्देनाक्लिष्ट कर्मणा अन्ये तदामित बलाः परस्परवधैषिणः 51 एते चान्ये च बहवॊ राजानः सगणा रणे हताः सहस्रशॊ राजन यन मां तवं परिपृच्छसि एवम एष कषयॊ वृत्तः कर्णार्जुन समागमे 52 महेन्थ्रेण यदा वृत्रॊ यदा रामेण रावणः यदा कृष्णेन निहतॊ मुरॊ रणनिपातितः कार्तवीर्यश च रामेण भार्गवेण हतॊ यदा 53 स जञातिबान्धवः शूरः समरे युथ्धथुर्मथः रणे कृत्वा महायुथ्धं घॊरं तरैलॊक्यविश्रुतम 54 तदार्जुनेन निहतॊ थवैरदे युथ्धथुर्मथः सामात्यबान्धवॊ राजन कर्णः परहरतां वरः 55 जयाशा धार्तराष्ट्राणां वैरस्य च मुखं यतः तीर्णं तत पाण्डवै राजन यत पुरा नावबुध्यसे 56 उच्यमानॊ महाराज बन्धुभिर हितकाङ्क्षिभिः तथ इथं समनुप्राप्तं वयसनं तवां महात्ययम 57 पुत्राणां राज्यकामानां तवया राजन हितैषिणा अहितानीव चीर्णानि तेषां ते फलम आगतम 58 [धृ] आख्याता मामकास तात निहता युधि पाण्डवैः निहतान पाण्डवेयानां मामकैर बरूहि संजय 59 [स] कुन्तयॊ युधि विक्रान्ता महासत्त्वा महाबलाः सानुबन्धाः सहामात्या भीष्मेण युधि पातिताः 60 समः किरीटिना संख्ये वीर्येण च बलेन च सत्यजित सत्यसंधेन थरॊणेन निहतॊ रणे 61 तदा विराटथ्रुपथौ वृथ्धौ सह सुतौ नृपौ पराक्रमन्तौ मित्रार्दे थरॊणेन निहतौ रणे 62 यॊ बाल एव समरे संमितः सव्यसाचिना केशवेन च थुर्धर्षॊ बलथेवेन चाभिभूः 63 स एष कथनं कृत्वा महथ रणविशारथः परिवार्य महामात्रैः षड्भिः परमकै रदैः अशक्नुवथ्भिर बीभत्सुम अभिमन्युर निपातितः 64 तं कृतं विरदं वीरं कषत्रधर्मे वयवस्दितम थौःशासनिर महाराज सौभथ्रं हतवान रणे 65 बृहन्तस तु महेष्वासः कृतास्त्रॊ युथ्धथुर्मथः थुःशासनेन विक्रम्य गमितॊ यमसाथनम 66 मणिमान थण्डधारश च राजानौ युथ्धथुर्मथौ पराक्रमन्तौ मित्रार्दे थरॊणेन विनिपातितौ 67 अंशुमान भॊजराजस तु सह सैन्यॊ महारदः भारथ्वाजेन विक्रम्य गमितॊ यमसाथनम 68 चित्रायुधश चित्रयॊधी कृत्वा तौ कथनं महत चित्रमार्गेण विक्रम्य कर्णेन निहतौ युधि 69 वृकॊथर समॊ युथ्धे थृढः केकयजॊ युधि केकयेनैव विक्रम्य भरात्रा भराता निपातितः 70 जनमेजयॊ गथायुधी पार्वतीयः परतापवान थुर्मुखेन महाराज तव पुत्रेण पातितः 71 रॊचमानौ नरव्याघ्रौ रॊचमानौ गरहाव इव थरॊणेन युगपथ राजन थिवं संप्रेषितौ शरैः 72 नृपाश च परतियुध्यन्तः पराक्रान्ता विशां पते कृत्वा न सुकरं कर्म गता वैवस्वतक्षयम 73 पुरुजित कुन्तिभॊजश च मातुलः सव्यसाचिनः संग्रामनिर्जिताँल लॊकान गमितॊ थरॊण सायकैः 74 अभिभूः काशिराजश च काशिकैर बहुभिर वृतः वसु थानस्य पुत्रेण नयासितॊ थेहम आहवे 75 अमितौजा युधामन्युर उत्तमौजाश च वीर्यवान निहत्य शतशः शूरान परैर विनिहतौ रणे 76 कषत्रधर्मा च पाञ्चाल्यः कषत्रवर्मा च मारिष थरॊणेन परमेष्वासौ गमितौ यमसाथनम 77 शिखण्डितनयॊ युथ्धे कषत्रथेवॊ युधां पतिः लक्ष्मणेन हतॊ राजंस तव पौत्रेण भारत 78 सुचित्रश चित्रधर्मा च पिता पुत्रौ महारदौ परचरन्तौ महावीर्यौ थरॊणेन निहतौ रणे 79 वार्धक्षेमिर महाराज कृत्वा कथनम आहवे बाह्लिकेन महाराज कौरवेण निपातितः 80 धृष्टकेतुर महाराज चेथीनां परवरॊ रदः कृत्वा न सुकरं कर्म गतॊ वैवस्वतक्षयम 81 तदा सत्यधृतिस तात कृत्वा कथनम आहवे पाण्डवार्दे पराक्रान्तॊ गमितॊ यमसाथनम 82 पुत्रस तु शिशुपालस्य सुकेतुः पृदिवीपते निहत्य शात्रवान संख्ये थरॊणेन निहतॊ युधि 83 तदा सत्यधृतिर वीरॊ मथिराश्वश च वीर्यवान सूर्यथत्तश च विक्रान्तॊ निहतॊ थरॊण सायकैः 84 शरेणिमांश च महाराज युध्यमानः पराक्रमी कृत्वा न सुकरं कर्म गतॊ वैवस्वतक्षयम 85 तदैव युधि विक्रान्तॊ मागधः परवीरहा भीष्मेण निहतॊ राजन्युध्यमानः पराक्रमी 86 वसु थानश च कथनं कुर्वाणॊ ऽतीव संयुगे भारथ्वाजेन विक्रम्य गमितॊ यमसाथनम 87 एते चान्ये च बहवः पाण्डवानां महारदाः हता थरॊणेन विक्रम्य यन मां तवं परिपृच्छसि 88 [धृ] हतप्रवीरे सैन्ये ऽसमिन मामके वथतां वर अहताञ शंस मे सूत ये ऽतर जीवन्ति के चन 89 एतेषु निहतेष्व अथ्य ये तवया परिकीर्तिताः अहतान मन्यसे यांस तवं ते ऽपि सवर्गजितॊ मताः 90 [स] यस्मिन महास्त्राणि समर्पितानि; चित्राणि शुभ्राणि चतुर्विधानि थिव्यानि राजन निहितानि चैव; थरॊणेन वीर थविजसत्तमेन 91 महारदः कृतिमान कषिप्रहस्तॊ; थृढायुधॊ थृढमुष्टिर थृढेषुः स वीर्यवान थरॊणपुत्रस तरस्वी; वयवस्दितॊ यॊथ्धुकामस तवथर्दे 92 आनर्तवासी हृथिकात्मजॊ ऽसौ; महारदः सात्वतानां वरिष्ठः सवयं भॊजः कृतवर्मा कृतास्त्रॊ; वयवस्दितॊ यॊथ्धुकामस तवथर्दे 93 शारथ्वतॊ गौतमश चापि राजन; महाबलॊ बहु चित्रास्त्र यॊधी धनुश चित्रं सुमहथ भारसाहं; वयवस्दितॊ यॊत्स्यमानः परगृह्य 94 आर्तायनिः समरे थुष्प्रकम्प्यः; सेनाग्रणीः परदमस तावकानाम सवस्रेयांस तान पाण्डवेयान विसृज्य; सत्यां वाचं तां चिकीर्षुस तरस्वी 95 तेजॊवधं सूतपुत्रस्य संख्ये; परतिश्रुत्वाजात शत्रॊः पुरस्तात थुराधर्षः शक्रसमानवीर्यः; शल्यः सदितॊ युथ्थु कामस तवथर्दे 96 आजानेयैः सैन्धवैः पार्वतीयैर; नथीज काम्बॊजवनायु बाह्लिकैः गान्धारराजः सवबलेन युक्तॊ; वयवस्दितॊ यॊथ्धुकामस तवथर्दे 97 तदा सुतस ते जवलनार्कवर्णं; रदं समास्दाय कुरुप्रवीर वयवस्दितः कुरु मित्रॊ नरेन्थ्र; वयभ्रे सूर्यॊ भराजमानॊ यदा वै 98 थुर्यॊधनॊ नागकुलस्य मध्ये; महावीर्यः सह सैन्यप्रवीरैः रदेन जाम्बूनथभूषणेन; वयवस्दितः समरे यॊथ्धुकामः 99 स राजमध्ये पुरुषप्रवीरॊ; रराज जाम्बूनथचित्रवर्मा पथ्मप्रभॊ वह्निर इवाल्पधूमॊ; मेघान्तरे सूर्य इव परकाशः 100 तदा सुषेणॊ ऽपय असि चर्म पाणिस; तवात्मजः सत्यसेनश च वीरः वयवस्दितौ चित्रसेनेन सार्धं; हृष्टात्मानौ समरे यॊथ्धुकामौ 101 हरीनिषेधा भरता राजपुत्राश; चित्रायुधः शरुतकर्मा जयश च शलश च सत्यव्रतथुःशलौ च; वयवस्दिता बलिनॊ यॊथ्धुकामाः 102 कैतव्यानाम अधिपः शूरमानी; रणे रणे शत्रुहा राजपुत्रः पत्री हयी नागरदप्रयायी; वयवस्दितॊ यॊथ्धुकामस तवथर्दे 103 वीरः शरुतायुश च शरुतायुधश च; चित्राङ्गथश चित्रवर्मा स वीरः वयवस्दिता ये तु सैन्ये नराग्र्याः; परहारिणॊ मानिनः सत्यसंधाः 104 कर्णात्मजः सत्यसेनॊ महात्मा; वयवस्दितः समरे यॊथ्धुकामः अदापरौ कर्णसुतौ वरार्हौ; वयवस्दितौ लघुहस्तौ नरेन्थ्र बलं महथ थुर्भिथम अल्पधैर्यैः; समाश्रितौ यॊत्स्यमानौ तवथर्दे 105 एतैश च मुख्यैर अपरैश च राजन; यॊधप्रवीरैर अमितप्रभावैः वयवस्दितॊ नागकुलस्य मध्ये; यदा महेन्थ्रः कुरुराजॊ जयाय 106 [धृ] आख्याता जीवमाना ये परेभ्यॊ ऽनये यदातदम इतीथम अभिगच्छामि वयक्तम अर्दाभिपत्तितः 107 [वै] एवं बरुवन्न एव तथा धृतराष्ट्रॊ ऽबमिका सुतः हतप्रवीरं विध्वस्तं किं चिच छेषं सवकं बलम शरुत्वा वयामॊहम अगमच छॊकव्याकुलितेन्थ्रियः 108 मुह्यमानॊ ऽबरवीच चापि मुहूर्तं तिष्ठ संजय वयाकुलं मे मनस तात शरुत्वा सुमहथ अप्रियम नष्टचित्तस ततः सॊ ऽद बभूव जगतीपतिः |
1
[vai] etac chrutvā mahārāja dhṛtarāṣṭro 'mbikā sutaḥ abravīt saṃjayaṃ sūtaṃ śokavyākula cetanaḥ 2 duṣpraṇītena me tāta manasābhiplutātmanaḥ hataṃ vaikartanaṃ śrutvā śoko marmāṇi kṛntati 3 kṛtāstra paramāḥ śalye duḥkhapāraṃ titīrṣavaḥ kurūṇāṃ sṛñjayānāṃ ca ke nu jīvanti ke mṛtāḥ 4 [s] hataḥ śāṃtanavo rājan durādharṣaḥ pratāpavān hatvā pāṇḍava yodhānām arbudaṃ daśabhir dinaiḥ 5 tato droṇo maheṣvāsaḥ pāñcālānāṃ rathavrajān nihatya yudhi durdharṣaḥ paścād rukmaratho hataḥ 6 hataśiṣṭasya bhīṣmeṇa droṇena ca mahātmanā ardhaṃ nihatya sainyasya karṇo vaikartano hataḥ 7 viviṃśatir mahārāja rājaputro mahābalaḥ ānartayodhāñ śataśo nihatya nihato raṇe 8 atha putro vikarṇas te kṣatravratam anusmaran kṣīṇavāhāyudhaḥ śūraḥ sthito 'bhimukhataḥ parān 9 ghorarūpān parikleśān duryodhanakṛtān bahūn pratijñāṃ smaratā caiva bhīmasenena pātitaḥ 10 vindānuvindāv āvantyau rājaputrau mahābalau kṛtvā na sukaraṃ karma gatau vaivasvatakṣayam 11 sindhurāṣṭramukhānīha daśa rāṣṭrāṇi yasya vai vaśe tiṣṭhanti vīrasya yaḥ sthitas tava śāsane 12 akṣauhiṇīr daśaikāṃ ca nirjitya niśitaiḥ śaraiḥ arjunena hato rājan mahāvīryo jayadrathaḥ 13 tathā duryodhana sutas tarasvī yuddhadurmadaḥ vartamānaḥ pituḥ śāstre saubhadreṇa nipātitaḥ 14 tathā dauḥśāsanir vīro bāhuśālī raṇotkaṭaḥ draupadeyena vikramya gamito yamasādanam 15 kirātānām adhipatiḥ sāgarānūpavāsinām devarājasya dharmātmā priyo bahumataḥ sakhā 16 bhagadatto mahīpālaḥ kṣatradharmarataḥ sadā dhanaṃjayena vikramya gamito yamasādanam 17 tathā kaurava dāyādaḥ saumadattir mahāyaśāḥ hato bhūriśravā rājañ śūraḥ sātyakinā yudhi 18 śrutāyur api cāmbaṣṭhaḥ kṣatriyāṇāṃ dhanurdharaḥ carann abhītavat saṃkhye nihataḥ savyasācinā 19 tava putraḥ sadā saṃkhye kṛtāstro yuddhadurmadaḥ duḥśāsano mahārāja bhīmasenena pātitaḥ 20 yasya rājan gajānīkaṃ bahusāhasram adbhutam sudakṣiṇaḥ sa saṃgrāme nihataḥ savyasācinā 21 kosalānām adhipatir hatvā bahuśatān parān saubhadreṇa hi vikramya gamito yamasādanam 22 bahuśo yodhayitvā ca bhīmasenaṃ mahārathaḥ citrasenas tava suto bhīmasenena pātitaḥ 23 madrarājātmajaḥ śūraḥ pareṣāṃ bhayavardhanaḥ asi carma dharaḥ śrīmān saubhadreṇa nipātitaḥ 24 samaḥ karṇasya samare yaḥ sa karṇasya paśyataḥ vṛṣaseno mahātejāḥ śīghrāstraḥ kṛtaniścayaḥ 25 abhimanyor vadhaṃ smṛtvā pratijñām api cātmanaḥ dhanaṃjayena vikramya gamito yamasādanam 26 nityaprasaktavairo yaḥ pāṇḍavaiḥ pṛthivīpatiḥ viśrāvya vairaṃ pārthena śrutāyuḥ sa nipātitaḥ 27 śalya putras tu vikrāntaḥ sahadevena māriṣa hato rukmaratho rājan bhrātā mātulajo yudhi 28 rājā bhagīratho vṛddho bṛhat kṣatraś ca kekayaḥ parākramantau vikrāntau nihatau vīryavattarau 29 bhagadattasuto rājan kṛtaprajño mahābalaḥ śyenavac caratā saṃkhye nakulena nipātitaḥ 30 pitāmahas tava tathā bāhlikaḥ saha bāhlikaiḥ bhīmasenena vikramya gamito yamasādanam 31 jayatsenas tathā rājañ jārāsaṃdhir mahābalaḥ māgadho nihataḥ saṃkhye saubhadreṇa mahātmanā 32 putras te durmukho rājan duḥsahaś ca mahārathaḥ gadayā bhīmasenena nihatau śūramāninau 33 durmarṣaṇo durviṣaho durjayaś ca mahārathaḥ kṛtvā na sukaraṃ karma gatā vaivasvatakṣayam 34 sacivo vṛṣavarmā te sūtaḥ paramavīryavān bhīmasenena vikramya gamito yamasādanam 35 nāgāyuta balo rājā nāgāyuta balo mahān sagaṇaḥ pāṇḍuputreṇa nihataḥ savyasācinā 36 vasātayo mahārāja dvisāhasrāḥ prahāriṇaḥ śūrasenāś ca vikrāntāḥ sarve yudhi nipātitāḥ 37 abhīṣāhāḥ kavacinaḥ praharanto mahotkaṭāḥ śibayaś ca rathodārāḥ kaliṅga sahitā hatāḥ 38 gokule nityasaṃvṛddhā yuddhe paramakovidāḥ śreṇayo bahusāhasrāḥ saṃśaptaka gaṇāś ca ye te sarve pārtham āsādya gatā vaivasvatakṣayam 39 syālau tava mahārāja rājānau vṛṣakācalau tvadarthe saṃparākrāntau nihatau savyasācinā 40 ugrakarmā maheṣvāso nāmataḥ karmatas tathā śālvarājo mahārāja bhīmasenena pātitaḥ 41 oghavāṃś ca mahārāja bṛhantaḥ sahito raṇe parākramantau mitrārthe gatau vaivasvatakṣayam 42 tathaiva rathināṃ śreṣṭhaḥ kṣemadhūrtir viśāṃ pate nihato gadayā rājan bhīmasenena saṃyuge 43 tathā rājā maheṣvāso jalasaṃdho mahābalaḥ sumahat kadanaṃ kṛttvā hataḥ sātyakinā raṇe 44 alāyudho rākṣasendraḥ kharabandhura yānagaḥ ghaṭotkacena vikramya gamito yamasādanam 45 rādheyāḥ sūtaputrāś ca bhrātaraś ca mahārathāḥ kekayāḥ sarvaśaś cāpi nihatāḥ savyasācinā 46 mālavā madrakāś caiva draviḍāś cogravikramāḥ yaudheyāś ca lalitthāś ca kṣudrakāś cāpy uśīnarāḥ 47 māvellakās tuṇḍikerāḥ sāvitrī putra kāñcalāh prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca māriṣa 48 pattīnāṃ nihatāḥ saṃghā hayānām ayutāni ca rathavrajāś ca nihatā hatāś ca varavāraṇāḥ 49 sa dhvajāḥ sāyudhāḥ śūrāḥ sa varmāmbara bhūṣaṇāḥ kālena mahatā yattāḥ kule ye ca vivardhitāḥ 50 te hatāḥ samare rājan pārthenākliṣṭa karmaṇā anye tathāmita balāḥ parasparavadhaiṣiṇaḥ 51 ete cānye ca bahavo rājānaḥ sagaṇā raṇe hatāḥ sahasraśo rājan yan māṃ tvaṃ paripṛcchasi evam eṣa kṣayo vṛttaḥ karṇārjuna samāgame 52 mahendreṇa yathā vṛtro yathā rāmeṇa rāvaṇaḥ yathā kṛṣṇena nihato muro raṇanipātitaḥ kārtavīryaś ca rāmeṇa bhārgaveṇa hato yathā 53 sa jñātibāndhavaḥ śūraḥ samare yuddhadurmadaḥ raṇe kṛtvā mahāyuddhaṃ ghoraṃ trailokyaviśrutam 54 tathārjunena nihato dvairathe yuddhadurmadaḥ sāmātyabāndhavo rājan karṇaḥ praharatāṃ varaḥ 55 jayāśā dhārtarāṣṭrāṇāṃ vairasya ca mukhaṃ yataḥ tīrṇaṃ tat pāṇḍavai rājan yat purā nāvabudhyase 56 ucyamāno mahārāja bandhubhir hitakāṅkṣibhiḥ tad idaṃ samanuprāptaṃ vyasanaṃ tvāṃ mahātyayam 57 putrāṇāṃ rājyakāmānāṃ tvayā rājan hitaiṣiṇā ahitānīva cīrṇāni teṣāṃ te phalam āgatam 58 [dhṛ] ākhyātā māmakās tāta nihatā yudhi pāṇḍavaiḥ nihatān pāṇḍaveyānāṃ māmakair brūhi saṃjaya 59 [s] kuntayo yudhi vikrāntā mahāsattvā mahābalāḥ sānubandhāḥ sahāmātyā bhīṣmeṇa yudhi pātitāḥ 60 samaḥ kirīṭinā saṃkhye vīryeṇa ca balena ca satyajit satyasaṃdhena droṇena nihato raṇe 61 tathā virāṭadrupadau vṛddhau saha sutau nṛpau parākramantau mitrārthe droṇena nihatau raṇe 62 yo bāla eva samare saṃmitaḥ savyasācinā keśavena ca durdharṣo baladevena cābhibhūḥ 63 sa eṣa kadanaṃ kṛtvā mahad raṇaviśāradaḥ parivārya mahāmātraiḥ ṣaḍbhiḥ paramakai rathaiḥ aśaknuvadbhir bībhatsum abhimanyur nipātitaḥ 64 taṃ kṛtaṃ virathaṃ vīraṃ kṣatradharme vyavasthitam dauḥśāsanir mahārāja saubhadraṃ hatavān raṇe 65 bṛhantas tu maheṣvāsaḥ kṛtāstro yuddhadurmadaḥ duḥśāsanena vikramya gamito yamasādanam 66 maṇimān daṇḍadhāraś ca rājānau yuddhadurmadau parākramantau mitrārthe droṇena vinipātitau 67 aṃśumān bhojarājas tu saha sainyo mahārathaḥ bhāradvājena vikramya gamito yamasādanam 68 citrāyudhaś citrayodhī kṛtvā tau kadanaṃ mahat citramārgeṇa vikramya karṇena nihatau yudhi 69 vṛkodara samo yuddhe dṛḍhaḥ kekayajo yudhi kekayenaiva vikramya bhrātrā bhrātā nipātitaḥ 70 janamejayo gadāyudhī pārvatīyaḥ pratāpavān durmukhena mahārāja tava putreṇa pātitaḥ 71 rocamānau naravyāghrau rocamānau grahāv iva droṇena yugapad rājan divaṃ saṃpreṣitau śaraiḥ 72 nṛpāś ca pratiyudhyantaḥ parākrāntā viśāṃ pate kṛtvā na sukaraṃ karma gatā vaivasvatakṣayam 73 purujit kuntibhojaś ca mātulaḥ savyasācinaḥ saṃgrāmanirjitāṁl lokān gamito droṇa sāyakaiḥ 74 abhibhūḥ kāśirājaś ca kāśikair bahubhir vṛtaḥ vasu dānasya putreṇa nyāsito deham āhave 75 amitaujā yudhāmanyur uttamaujāś ca vīryavān nihatya śataśaḥ śūrān parair vinihatau raṇe 76 kṣatradharmā ca pāñcālyaḥ kṣatravarmā ca māriṣa droṇena parameṣvāsau gamitau yamasādanam 77 śikhaṇḍitanayo yuddhe kṣatradevo yudhāṃ patiḥ lakṣmaṇena hato rājaṃs tava pautreṇa bhārata 78 sucitraś citradharmā ca pitā putrau mahārathau pracarantau mahāvīryau droṇena nihatau raṇe 79 vārdhakṣemir mahārāja kṛtvā kadanam āhave bāhlikena mahārāja kauraveṇa nipātitaḥ 80 dhṛṣṭaketur mahārāja cedīnāṃ pravaro rathaḥ kṛtvā na sukaraṃ karma gato vaivasvatakṣayam 81 tathā satyadhṛtis tāta kṛtvā kadanam āhave pāṇḍavārthe parākrānto gamito yamasādanam 82 putras tu śiśupālasya suketuḥ pṛthivīpate nihatya śātravān saṃkhye droṇena nihato yudhi 83 tathā satyadhṛtir vīro madirāśvaś ca vīryavān sūryadattaś ca vikrānto nihato droṇa sāyakaiḥ 84 śreṇimāṃś ca mahārāja yudhyamānaḥ parākramī kṛtvā na sukaraṃ karma gato vaivasvatakṣayam 85 tathaiva yudhi vikrānto māgadhaḥ paravīrahā bhīṣmeṇa nihato rājanyudhyamānaḥ parākramī 86 vasu dānaś ca kadanaṃ kurvāṇo 'tīva saṃyuge bhāradvājena vikramya gamito yamasādanam 87 ete cānye ca bahavaḥ pāṇḍavānāṃ mahārathāḥ hatā droṇena vikramya yan māṃ tvaṃ paripṛcchasi 88 [dhṛ] hatapravīre sainye 'smin māmake vadatāṃ vara ahatāñ śaṃsa me sūta ye 'tra jīvanti ke cana 89 eteṣu nihateṣv adya ye tvayā parikīrtitāḥ ahatān manyase yāṃs tvaṃ te 'pi svargajito matāḥ 90 [s] yasmin mahāstrāṇi samarpitāni; citrāṇi śubhrāṇi caturvidhāni divyāni rājan nihitāni caiva; droṇena vīra dvijasattamena 91 mahārathaḥ kṛtimān kṣiprahasto; dṛḍhāyudho dṛḍhamuṣṭir dṛḍheṣuḥ sa vīryavān droṇaputras tarasvī; vyavasthito yoddhukāmas tvadarthe 92 ānartavāsī hṛdikātmajo 'sau; mahārathaḥ sātvatānāṃ variṣṭhaḥ svayaṃ bhojaḥ kṛtavarmā kṛtāstro; vyavasthito yoddhukāmas tvadarthe 93 śāradvato gautamaś cāpi rājan; mahābalo bahu citrāstra yodhī dhanuś citraṃ sumahad bhārasāhaṃ; vyavasthito yotsyamānaḥ pragṛhya 94 ārtāyaniḥ samare duṣprakampyaḥ; senāgraṇīḥ prathamas tāvakānām svasreyāṃs tān pāṇḍaveyān visṛjya; satyāṃ vācaṃ tāṃ cikīrṣus tarasvī 95 tejovadhaṃ sūtaputrasya saṃkhye; pratiśrutvājāta śatroḥ purastāt durādharṣaḥ śakrasamānavīryaḥ; śalyaḥ sthito yuddu kāmas tvadarthe 96 ājāneyaiḥ saindhavaiḥ pārvatīyair; nadīja kāmbojavanāyu bāhlikaiḥ gāndhārarājaḥ svabalena yukto; vyavasthito yoddhukāmas tvadarthe 97 tathā sutas te jvalanārkavarṇaṃ; rathaṃ samāsthāya kurupravīra vyavasthitaḥ kuru mitro narendra; vyabhre sūryo bhrājamāno yathā vai 98 duryodhano nāgakulasya madhye; mahāvīryaḥ saha sainyapravīraiḥ rathena jāmbūnadabhūṣaṇena; vyavasthitaḥ samare yoddhukāmaḥ 99 sa rājamadhye puruṣapravīro; rarāja jāmbūnadacitravarmā padmaprabho vahnir ivālpadhūmo; meghāntare sūrya iva prakāśaḥ 100 tathā suṣeṇo 'py asi carma pāṇis; tavātmajaḥ satyasenaś ca vīraḥ vyavasthitau citrasenena sārdhaṃ; hṛṣṭātmānau samare yoddhukāmau 101 hrīniṣedhā bharatā rājaputrāś; citrāyudhaḥ śrutakarmā jayaś ca śalaś ca satyavrataduḥśalau ca; vyavasthitā balino yoddhukāmāḥ 102 kaitavyānām adhipaḥ śūramānī; raṇe raṇe śatruhā rājaputraḥ patrī hayī nāgarathaprayāyī; vyavasthito yoddhukāmas tvadarthe 103 vīraḥ śrutāyuś ca śrutāyudhaś ca; citrāṅgadaś citravarmā sa vīraḥ vyavasthitā ye tu sainye narāgryāḥ; prahāriṇo māninaḥ satyasaṃdhāḥ 104 karṇātmajaḥ satyaseno mahātmā; vyavasthitaḥ samare yoddhukāmaḥ athāparau karṇasutau varārhau; vyavasthitau laghuhastau narendra balaṃ mahad durbhidam alpadhairyaiḥ; samāśritau yotsyamānau tvadarthe 105 etaiś ca mukhyair aparaiś ca rājan; yodhapravīrair amitaprabhāvaiḥ vyavasthito nāgakulasya madhye; yathā mahendraḥ kururājo jayāya 106 [dhṛ] ākhyātā jīvamānā ye parebhyo 'nye yathātatham itīdam abhigacchāmi vyaktam arthābhipattitaḥ 107 [vai] evaṃ bruvann eva tadā dhṛtarāṣṭro 'bmikā sutaḥ hatapravīraṃ vidhvastaṃ kiṃ cic cheṣaṃ svakaṃ balam śrutvā vyāmoham agamac chokavyākulitendriyaḥ 108 muhyamāno 'bravīc cāpi muhūrtaṃ tiṣṭha saṃjaya vyākulaṃ me manas tāta śrutvā sumahad apriyam naṣṭacittas tataḥ so 'tha babhūva jagatīpatiḥ |