1
[य] इथं थेयम इथं थेयम इतीयं शरुतिचॊथना बहु थेयाश च राजानः किं सविथ थेयम अनुत्तमम 2 [भ] अति थानानि सर्वाणि पृदिवी थानम उच्यते अचला हय अक्षया भूमिर थॊग्ध्री कामान अनुत्तमान 3 थॊग्ध्री वासांसि रत्नानि पशून वरीहि यवांस तदा भूमिथः सर्वभूतेषु शाश्वतीर एधते समाः 4 यावथ भूमेर आयुर इह तावथ भूमिथ एधते न भूमिथानाथ अस्तीह परं किं चिथ युधिष्ठिर 5 अप्य अल्पं परथथुः पूर्वे पृदिव्या इति नः शरुतम भूमिम एते थथुः सर्वे ये भूमिं भुञ्जते जनाः 6 सवकर्मैवॊपजीवन्ति नरा इह परत्र च भूमिर भूतिर महाथेवी थातारं कुरुते परियम 7 य एतां थक्षिणां थथ्याथ अक्षयां पृदिवीपतिः पुनर नरत्वं संप्राप्य भवेत स पृदिवीपतिः 8 यदा थानं तदा भॊग इति धर्मेषु निश्चयः संग्रामे वा तनुं जह्याथ थथ्याथ वा पृदिवीम इमाम 9 इत्य एतां कषत्रबन्धूनां वथन्ति परम आशिषम पुनाति थत्ता पृदिवी थातारम इति शुश्रुम 10 अपि पापसमाचारं बरह्मघ्नम अपि वानृतम सैव पापं पावयति सैव पापात परमॊचयेत 11 अपि पापकृतां राज्ञां परतिगृह्णन्ति साधवः पृदिवीं नान्यथ इच्छन्ति पावनं जननी यदा 12 नामास्याः परिय थत्तेति गुह्यं थेव्याः सनातनम थानं वाप्य अद वा जञानं नाम्नॊ ऽसयाः परमं परियम तस्पात पराप्यैव पृदिवीं थथ्याथ विप्राय पार्दिवः 13 नाभूमि पतिना भूमिर अधिष्ठेया कदं चन न वा पात्रेण वा गूहेथ अन्तर्धानेन वा चरेत ये चान्ये भूमिम इच्छेयुः कुर्युर एवम असंशयम 14 यः साधॊर भूमिम आथत्ते न भूमिं विन्थते तु सः भूमिं तु थत्त्वा साधुभ्यॊ विन्थते भूमिम एव हि परेत्येह च स धर्मात्मा संप्राप्नॊति महथ यशः 15 यस्य विप्रानुशासन्ति साधॊर भूमिं सथैव हि न तस्य शत्रवॊ राजन परशासन्ति वसुंधराम 16 यत किं चित पुरुषः पापं कुरुते वृत्ति कर्शितः अपि गॊचर्म मात्रेण भूमिथानेन पूयते 17 ये ऽपि संकीर्ण कर्माणॊ राजानॊ रौथ्रकर्मिणः तेभ्यः पवित्रम आख्येयं भूमिथानम अनुत्तमम 18 अल्पान्तरम इथं शश्वत पुराणा मेनिरे जनाः यॊ यजेथ अश्वमेधेन थथ्याथ वा साधवे महीम 19 अपि चेत सुकृतं कृत्वा शङ्केरन्न अपि पण्डिताः अशक्यम एकम एवैतथ भीमि थानम अनुत्तमम 20 सुवर्णं रजतं वस्त्रं मणिमुक्ता वसूनि च सर्वम एतन महाप्राज्ञ थथाति वसुधां थथत 21 तपॊयज्ञः शरुतं शीलम अलॊभः सत्यसंधता गुरु थैवतपूजा च नातिवर्तन्ति भूमिथम 22 भर्तुर निःश्रेयसे युक्तास तयक्तात्मानॊ रणे हताः बरह्मलॊकगताः सिथ्धा नातिक्रामन्ति भूमिथम 23 यदा जनित्री कषीरेण सवपुत्रं भरते सथा अनुगृह्णाति थातारं तदा सर्वरसैर मही 24 मृत्यॊर वै किंकरॊ थण्डस तापॊ वह्नेः सुथारुणः घॊराश च वारुणाः पाशा नॊपसर्पन्ति भूमिथम 25 पितॄंश च पितृलॊकस्दान थेवलॊके च थेवताः संतर्पयति शान्तात्मा यॊ थथाति वसुंधराम 26 कृशाय मिर्यमाणाय वृत्ति मलानाय सीथते भूमिं वृत्ति करीं थत्त्वा सत्री भवति मानवः 27 यदा धावति गौर वत्सं कषीरम अभ्युत्सृजन्त्य उत एवम एव महाभाग भूमिर भवति भूमिथम 28 हलकृष्टां महीं थत्त्वा स बीजां सफलाम अपि उथीर्णं वापि शरणं तदा भवति कामथः 29 बराह्मणं वृत्तसंपन्नम आहिताग्निं शुचिव्रतम नरः परतिग्राह्य महीं न याति यमसाथनम यदा चन्थ्रमसॊ वृथ्धिर अहन्य अहनि जायते 30 तदा भूमिकृतं थानं सस्ये सस्ये विवर्धते 31 अत्र गादा भूमिगीताः कीर्तयन्ति पुरा विथः याः शरुत्वा जामथग्न्येन थत्ता भूः काश्यपाय वै 32 माम एवाथत्त मां थत्तमां थत्त्वा माम अवाप्स्यद अस्मिँल लॊके परे चैव ततश चाजनने पुनः 33 य इमां वयाहृतिं वेथ बराह्मणॊ बरह्म संश्रितः शराथ्धस्य हूयमानस्य बरह्मभूयं स गच्छति 34 कृत्यानाम अभिशस्तानां थुरिष्ट शमनं महत परायश्चित्तम अहं कृत्वा पुनात्य उभयतॊ थश 35 पुनाति य इथं वेथ वेथ चाहं तदैव च परकृतिः सर्वभूतानां भूमिर वै शाश्वती मता 36 अभिषिच्यैव नृपतिं शरावयेथ इमम आगमम यदा शरुत्वा महीं थथ्यान नाथथ्यात साधुतश च ताम 37 सॊ ऽयं कृत्स्नॊ बराह्मणार्दॊ राजार्दश चाप्य असंशयम राजा हि धर्मकुशलः परदमं भूतिलक्षणम 38 अद येषाम अधर्मज्ञॊ राजा भवति नास्तिकः न ते सुखं परबुध्यन्ते न सुखं परस्वपन्ति च 39 सथा भवन्ति चॊथ्विग्नास तस्य थुश्चरितैर नराः यॊगक्षेमा हि बहवॊ राष्ट्रं नास्याविशन्ति तत 40 अद येषां पुनः पराज्ञॊ राजा भवति धार्मिकः सुखं ते परतिबुध्यन्ते सुसुखं परस्वपन्ति च 41 तस्य राज्ञः शुभैर आर्यैः कर्मभिर निर्वृताः परजाः यॊगक्षेमेण वृष्ट्या च विवर्धन्ते सवकर्मभिः 42 स कुलीनः स पुरुषः स बन्धुः स च पुण्यकृत स थाता स च विक्रान्तॊ यॊ थथाति वसुंधराम 43 आथित्या इव थीप्यन्ते तेजसा भुवि मानवाः थथन्ति वसुधां सफीतां ये वेथविथुषि थविजे 44 यदा बीजानि रॊहन्ति परकीर्णानि महीतले तदा कामाः पररॊहन्ति भूमिथानसमार्जिताः 45 आथित्यॊ वरुणॊ विष्णुर बरह्मा सॊमॊ हुताशनः शूलपाणिश च भगवान परतिनन्थन्ति भूमिथम 46 भूमौ जायन्ति पुरुषा भूमौ निष्ठां वरजन्ति च चतुर्विधॊ हि लॊकॊ ऽयं यॊ ऽयं भूमिगुणात्मकः 47 एषा माता पिता चैव जगतः पृदिवीपते नानया सथृशं भूतं किं चिथ अस्ति जनाधिप 48 अत्राप्य उथाहरन्तीमम इतिहासं पुरातनम बृहस्पतेश च संवाथम इन्थ्रस्य च युधिष्ठिर 49 इष्ट्वा करतुशतेनाद महता थक्षिणावता मघवा वाग विथां शरेष्ठं पप्रच्छेथं बृहस्पतिम 50 भगवन केन थानेन सवर्गतः सुखम एधते यथ अक्षयं महार्घं च तथ बरूहि वथतां वर 51 इत्य उक्तः स सुरेन्थ्रेण ततॊ थेवपुरॊहितः बृहस्पतिर महातेजाः परत्युवाच शतक्रतुम 52 सुवर्णथानं गॊथानं भूमिथानं च वृत्रहन थथथ एतान महाप्राज्ञः सर्वपापैः परमुच्यते 53 न भूमिथानाथ थेवेन्थ्र परं किं चिथ इति परभॊ विशिष्टम इति मन्यामि यदा पराहुर मनीषिणः 54 ये शूरा निहता युथ्धे सवर्याता थानगृथ्धिनः सर्वे ते विबुधश्रेष्ठ नातिक्रामन्ति भूमिथम 55 भर्तुर निःश्रेयसे युक्तास तयक्तात्मानॊ रणे हताः बरह्मलॊकगताः शूरा नातिक्रामन्ति भूमिथम 56 पञ्च पूर्वाथि पुरुषाः षट च ये वसुधां गताः एकाथश थथथ भूमिं परित्रातीह मानवः 57 रत्नॊपकीर्णां वसुधां यॊ थथाति पुरंथर स मुक्तः सर्वकलुषैः सवर्गलॊके महीयते 58 महीं सफीतां थथथ राजा सर्वकामगुणान्विताम राजाधिराजॊ भवति तथ धि थानम अनुत्तमम 59 सर्वकामसमायुक्तां काश्यपीं यः परयच्छति सर्वभूतानि मन्यन्ते मां थथातीति वासव 60 सर्वकामथुघां धेनुं सर्वकामपुरॊगमाम थथाति यः सहस्राक्ष सस्वर्गं याति मानवः 61 मधु सर्पिः परवाहिन्यः पयॊ थधि वहास तदा सरितस तर्पयन्तीह सुरेन्थ्र वसुधा परथम 62 भूमिप्रथानान नृपतिर मुच्यते राजकिल्बिषात न हि भूमिप्रथानेन थानम अन्यथ विशिष्यते 63 थथाति यः समुथ्रान्तां पृदिवीं शस्त्रनिर्जिताम तं जनाः कदयन्तीह यावथ धरति गौर इयम 64 पुण्याम ऋथ्धरसां भूमिं यॊ थथाति पुरंथर न तस्य लॊकाः कषीयन्ते भूमिथानगुणार्जिताः 65 सर्वदा पार्दिवेनेह सततं भूतिम इच्छता भूर थेया विधिवच छक्र पात्रे सुखम अभीप्सता 66 अपि कृत्वा नरः पापं भूमिं थत्त्वा थविजातये समुत्सृजति तत पापं जीर्णां तवचम इवॊरगः 67 सागरान सरितः शैलान काननानि च सर्वशः सर्वम एतन नरः शक्र थथाति वसुधां थथत 68 तडागान्य उथपानानि सरॊतांसिच सरांसि च सनेहान सर्वरसांश चैव थथाति वसुधां थथत 69 ओषधीः कषीरसंपन्ना नगान पुष्पफलान्वितान काननॊपल शैलांश च थथाति वसुधां थथत 70 अग्निष्टॊमप्रभृतिभिर इष्ट्वा च सवाप्तथक्षिणैः न तत फलम अवाप्नॊति भूमिथानाथ यथ अश्नुते 71 थाता थशानुगृह्णाति थश हन्ति तदा कषिपन पूर्वथत्तां हरन भूमिं नरकायॊपगच्छति 72 न थथाति परतिश्रुत्य थत्त्वा वा हरते तु यः स बथ्धॊवारुणैः पाशैस तप्यते मृत्युशासनात 73 आहिताग्निं सथा यज्ञं कृश भृत्यं परियातिदिम ये भरन्ति थविजश्रेष्ठं नॊपसर्पन्ति ते यमम 74 बराह्मणेष्व ऋण भूतं सयात पार्दिवस्य पुरंथर इतरेषां तु वर्णानां तारयेत कृश थुर्बलान 75 नाच्छिन्थ्यात सर्शितां भूमिं परेण तरिथशाथिप बराह्मणाय सुरश्रेष्ठ कृश भृत्याय कश चन 76 अदाश्रु पतितं तेषां थीनानाम अवसीथताम बराह्मणानां हृते कषेत्रे हन्यात तरिपुरुषं कुलम 77 भूमिपालं चयुतं राष्ट्राथ यस तु संस्दापयेत पुनः तस्य वासः सहस्राक्ष नाकपृष्ठे महीयते 78 इक्षुभिः संततां भूमिं यवगॊधूमसंकुलाम गॊऽशववाहन संपूर्णां बाहुवीर्यसमार्जिताम 79 निधिगर्भां थथथ भूमिं सर्वरत्नपरिच्छथाम अक्षयाँल लभते लॊकान भूमिसत्रं हि तस्य तत 80 विधूय कलुषं सर्वं विरजाः संमतः सताम लॊके महीयते सथ्भिर यॊ थथाति वसुंधराम 81 यदाप्सु पतितः शक्र तैलबिन्थुर विसर्पति तदा भूमिकृतं थानं सस्ये सस्ये विसर्पति 82 ये रणाग्रे महीपालाः शूराः समितिशॊभनाः वध्यन्ते ऽभिमुखाः शक्र बरह्मलॊकं वरजन्ति ते 83 नृत्यगीतपरा नार्यॊ थिव्यमाल्यविभूषिताः उपतिष्ठन्ति थेवेन्थ्र सथा भूमिप्रथं थिवि 84 मॊथते च सुखं सवर्गे थेवगन्धर्वपूजितः यॊ थथाति महीं सम्यग विधिनेह थविजातये 85 शतम अप्सरसश चैव थिव्यमाल्यविभूषिताः उपतिष्ठन्ति थेवेन्थ्र सथा भूमिप्रथं नरम 86 शङ्खं भथ्रासनं छत्रं वराश्वा वरवारणाः भूमिप्रथानात पुष्पाणि हिरण्यनिचयास तदा 87 आज्ञा सथा परतिहता जयशब्थॊ भवत्य अद भूमिथानस्य पुष्पाणि फलं सवर्गः पुरंथर 88 हिरण्यपुष्पाश चौषध्यः कुश काञ्चनशाड्वलाः अमृतप्रसवां भूमिं पराप्नॊति पुरुषॊ थथत 89 नास्ति भूमिसमं थानं नास्ति मातृसमॊ गुरुः नास्ति सत्यसमॊ धर्मॊ नास्ति थानसमॊ निधिः 90 एतथ आङ्गिरसाच छरुत्वा वासवॊ वसुधाम इमाम वसु रत्नसमाकीर्णां थथाव आङ्गिरसे तथा 91 य इमं शरावयेच छराथ्धे भूमिथानस्य संस्तवम न तस्य रक्षसां भागॊ नासुराणां भवत्य उत 92 अक्षयं च भवेथ थत्तं पितृभ्यस तन न संशयः तस्माच छराथ्धेष्व इथं विप्र भुञ्जतः शरावयेथ थविजान 93 इत्य एत सर्वथानानां शरेष्ठम उक्तं तवानघ मया भरतशार्थूल किं भूयः शरॊतुम इच्छसि |
1
[y] idaṃ deyam idaṃ deyam itīyaṃ śruticodanā bahu deyāś ca rājānaḥ kiṃ svid deyam anuttamam 2 [bh] ati dānāni sarvāṇi pṛthivī dānam ucyate acalā hy akṣayā bhūmir dogdhrī kāmān anuttamān 3 dogdhrī vāsāṃsi ratnāni paśūn vrīhi yavāṃs tathā bhūmidaḥ sarvabhūteṣu śāśvatīr edhate samāḥ 4 yāvad bhūmer āyur iha tāvad bhūmida edhate na bhūmidānād astīha paraṃ kiṃ cid yudhiṣṭhira 5 apy alpaṃ pradaduḥ pūrve pṛthivyā iti naḥ śrutam bhūmim ete daduḥ sarve ye bhūmiṃ bhuñjate janāḥ 6 svakarmaivopajīvanti narā iha paratra ca bhūmir bhūtir mahādevī dātāraṃ kurute priyam 7 ya etāṃ dakṣiṇāṃ dadyād akṣayāṃ pṛthivīpatiḥ punar naratvaṃ saṃprāpya bhavet sa pṛthivīpatiḥ 8 yathā dānaṃ tathā bhoga iti dharmeṣu niścayaḥ saṃgrāme vā tanuṃ jahyād dadyād vā pṛthivīm imām 9 ity etāṃ kṣatrabandhūnāṃ vadanti param āśiṣam punāti dattā pṛthivī dātāram iti śuśruma 10 api pāpasamācāraṃ brahmaghnam api vānṛtam saiva pāpaṃ pāvayati saiva pāpāt pramocayet 11 api pāpakṛtāṃ rājñāṃ pratigṛhṇanti sādhavaḥ pṛthivīṃ nānyad icchanti pāvanaṃ jananī yathā 12 nāmāsyāḥ priya datteti guhyaṃ devyāḥ sanātanam dānaṃ vāpy atha vā jñānaṃ nāmno 'syāḥ paramaṃ priyam taspāt prāpyaiva pṛthivīṃ dadyād viprāya pārthivaḥ 13 nābhūmi patinā bhūmir adhiṣṭheyā kathaṃ cana na vā pātreṇa vā gūhed antardhānena vā caret ye cānye bhūmim iccheyuḥ kuryur evam asaṃśayam 14 yaḥ sādhor bhūmim ādatte na bhūmiṃ vindate tu saḥ bhūmiṃ tu dattvā sādhubhyo vindate bhūmim eva hi pretyeha ca sa dharmātmā saṃprāpnoti mahad yaśaḥ 15 yasya viprānuśāsanti sādhor bhūmiṃ sadaiva hi na tasya śatravo rājan praśāsanti vasuṃdharām 16 yat kiṃ cit puruṣaḥ pāpaṃ kurute vṛtti karśitaḥ api gocarma mātreṇa bhūmidānena pūyate 17 ye 'pi saṃkīrṇa karmāṇo rājāno raudrakarmiṇaḥ tebhyaḥ pavitram ākhyeyaṃ bhūmidānam anuttamam 18 alpāntaram idaṃ śaśvat purāṇā menire janāḥ yo yajed aśvamedhena dadyād vā sādhave mahīm 19 api cet sukṛtaṃ kṛtvā śaṅkerann api paṇḍitāḥ aśakyam ekam evaitad bhīmi dānam anuttamam 20 suvarṇaṃ rajataṃ vastraṃ maṇimuktā vasūni ca sarvam etan mahāprājña dadāti vasudhāṃ dadat 21 tapoyajñaḥ śrutaṃ śīlam alobhaḥ satyasaṃdhatā guru daivatapūjā ca nātivartanti bhūmidam 22 bhartur niḥśreyase yuktās tyaktātmāno raṇe hatāḥ brahmalokagatāḥ siddhā nātikrāmanti bhūmidam 23 yathā janitrī kṣīreṇa svaputraṃ bharate sadā anugṛhṇāti dātāraṃ tathā sarvarasair mahī 24 mṛtyor vai kiṃkaro daṇḍas tāpo vahneḥ sudāruṇaḥ ghorāś ca vāruṇāḥ pāśā nopasarpanti bhūmidam 25 pitṝṃś ca pitṛlokasthān devaloke ca devatāḥ saṃtarpayati śāntātmā yo dadāti vasuṃdharām 26 kṛśāya miryamāṇāya vṛtti mlānāya sīdate bhūmiṃ vṛtti karīṃ dattvā satrī bhavati mānavaḥ 27 yathā dhāvati gaur vatsaṃ kṣīram abhyutsṛjanty uta evam eva mahābhāga bhūmir bhavati bhūmidam 28 halakṛṣṭāṃ mahīṃ dattvā sa bījāṃ saphalām api udīrṇaṃ vāpi śaraṇaṃ tathā bhavati kāmadaḥ 29 brāhmaṇaṃ vṛttasaṃpannam āhitāgniṃ śucivratam naraḥ pratigrāhya mahīṃ na yāti yamasādanam yathā candramaso vṛddhir ahany ahani jāyate 30 tathā bhūmikṛtaṃ dānaṃ sasye sasye vivardhate 31 atra gāthā bhūmigītāḥ kīrtayanti purā vidaḥ yāḥ śrutvā jāmadagnyena dattā bhūḥ kāśyapāya vai 32 mām evādatta māṃ dattamāṃ dattvā mām avāpsyatha asmiṁl loke pare caiva tataś cājanane punaḥ 33 ya imāṃ vyāhṛtiṃ veda brāhmaṇo brahma saṃśritaḥ śrāddhasya hūyamānasya brahmabhūyaṃ sa gacchati 34 kṛtyānām abhiśastānāṃ duriṣṭa śamanaṃ mahat prāyaścittam ahaṃ kṛtvā punāty ubhayato daśa 35 punāti ya idaṃ veda veda cāhaṃ tathaiva ca prakṛtiḥ sarvabhūtānāṃ bhūmir vai śāśvatī matā 36 abhiṣicyaiva nṛpatiṃ śrāvayed imam āgamam yathā śrutvā mahīṃ dadyān nādadyāt sādhutaś ca tām 37 so 'yaṃ kṛtsno brāhmaṇārtho rājārthaś cāpy asaṃśayam rājā hi dharmakuśalaḥ prathamaṃ bhūtilakṣaṇam 38 atha yeṣām adharmajño rājā bhavati nāstikaḥ na te sukhaṃ prabudhyante na sukhaṃ prasvapanti ca 39 sadā bhavanti codvignās tasya duścaritair narāḥ yogakṣemā hi bahavo rāṣṭraṃ nāsyāviśanti tat 40 atha yeṣāṃ punaḥ prājño rājā bhavati dhārmikaḥ sukhaṃ te pratibudhyante susukhaṃ prasvapanti ca 41 tasya rājñaḥ śubhair āryaiḥ karmabhir nirvṛtāḥ prajāḥ yogakṣemeṇa vṛṣṭyā ca vivardhante svakarmabhiḥ 42 sa kulīnaḥ sa puruṣaḥ sa bandhuḥ sa ca puṇyakṛt sa dātā sa ca vikrānto yo dadāti vasuṃdharām 43 ādityā iva dīpyante tejasā bhuvi mānavāḥ dadanti vasudhāṃ sphītāṃ ye vedaviduṣi dvije 44 yathā bījāni rohanti prakīrṇāni mahītale tathā kāmāḥ prarohanti bhūmidānasamārjitāḥ 45 ādityo varuṇo viṣṇur brahmā somo hutāśanaḥ śūlapāṇiś ca bhagavān pratinandanti bhūmidam 46 bhūmau jāyanti puruṣā bhūmau niṣṭhāṃ vrajanti ca caturvidho hi loko 'yaṃ yo 'yaṃ bhūmiguṇātmakaḥ 47 eṣā mātā pitā caiva jagataḥ pṛthivīpate nānayā sadṛśaṃ bhūtaṃ kiṃ cid asti janādhipa 48 atrāpy udāharantīmam itihāsaṃ purātanam bṛhaspateś ca saṃvādam indrasya ca yudhiṣṭhira 49 iṣṭvā kratuśatenātha mahatā dakṣiṇāvatā maghavā vāg vidāṃ śreṣṭhaṃ papracchedaṃ bṛhaspatim 50 bhagavan kena dānena svargataḥ sukham edhate yad akṣayaṃ mahārghaṃ ca tad brūhi vadatāṃ vara 51 ity uktaḥ sa surendreṇa tato devapurohitaḥ bṛhaspatir mahātejāḥ pratyuvāca śatakratum 52 suvarṇadānaṃ godānaṃ bhūmidānaṃ ca vṛtrahan dadad etān mahāprājñaḥ sarvapāpaiḥ pramucyate 53 na bhūmidānād devendra paraṃ kiṃ cid iti prabho viśiṣṭam iti manyāmi yathā prāhur manīṣiṇaḥ 54 ye śūrā nihatā yuddhe svaryātā dānagṛddhinaḥ sarve te vibudhaśreṣṭha nātikrāmanti bhūmidam 55 bhartur niḥśreyase yuktās tyaktātmāno raṇe hatāḥ brahmalokagatāḥ śūrā nātikrāmanti bhūmidam 56 pañca pūrvādi puruṣāḥ ṣaṭ ca ye vasudhāṃ gatāḥ ekādaśa dadad bhūmiṃ paritrātīha mānavaḥ 57 ratnopakīrṇāṃ vasudhāṃ yo dadāti puraṃdara sa muktaḥ sarvakaluṣaiḥ svargaloke mahīyate 58 mahīṃ sphītāṃ dadad rājā sarvakāmaguṇānvitām rājādhirājo bhavati tad dhi dānam anuttamam 59 sarvakāmasamāyuktāṃ kāśyapīṃ yaḥ prayacchati sarvabhūtāni manyante māṃ dadātīti vāsava 60 sarvakāmadughāṃ dhenuṃ sarvakāmapurogamām dadāti yaḥ sahasrākṣa sasvargaṃ yāti mānavaḥ 61 madhu sarpiḥ pravāhinyaḥ payo dadhi vahās tathā saritas tarpayantīha surendra vasudhā pradam 62 bhūmipradānān nṛpatir mucyate rājakilbiṣāt na hi bhūmipradānena dānam anyad viśiṣyate 63 dadāti yaḥ samudrāntāṃ pṛthivīṃ śastranirjitām taṃ janāḥ kathayantīha yāvad dharati gaur iyam 64 puṇyām ṛddharasāṃ bhūmiṃ yo dadāti puraṃdara na tasya lokāḥ kṣīyante bhūmidānaguṇārjitāḥ 65 sarvathā pārthiveneha satataṃ bhūtim icchatā bhūr deyā vidhivac chakra pātre sukham abhīpsatā 66 api kṛtvā naraḥ pāpaṃ bhūmiṃ dattvā dvijātaye samutsṛjati tat pāpaṃ jīrṇāṃ tvacam ivoragaḥ 67 sāgarān saritaḥ śailān kānanāni ca sarvaśaḥ sarvam etan naraḥ śakra dadāti vasudhāṃ dadat 68 taḍāgāny udapānāni srotāṃsica sarāṃsi ca snehān sarvarasāṃś caiva dadāti vasudhāṃ dadat 69 oṣadhīḥ kṣīrasaṃpannā nagān puṣpaphalānvitān kānanopala śailāṃś ca dadāti vasudhāṃ dadat 70 agniṣṭomaprabhṛtibhir iṣṭvā ca svāptadakṣiṇaiḥ na tat phalam avāpnoti bhūmidānād yad aśnute 71 dātā daśānugṛhṇāti daśa hanti tathā kṣipan pūrvadattāṃ haran bhūmiṃ narakāyopagacchati 72 na dadāti pratiśrutya dattvā vā harate tu yaḥ sa baddhovāruṇaiḥ pāśais tapyate mṛtyuśāsanāt 73 āhitāgniṃ sadā yajñaṃ kṛśa bhṛtyaṃ priyātithim ye bharanti dvijaśreṣṭhaṃ nopasarpanti te yamam 74 brāhmaṇeṣv ṛṇa bhūtaṃ syāt pārthivasya puraṃdara itareṣāṃ tu varṇānāṃ tārayet kṛśa durbalān 75 nācchindyāt sarśitāṃ bhūmiṃ pareṇa tridaśādipa brāhmaṇāya suraśreṣṭha kṛśa bhṛtyāya kaś cana 76 athāśru patitaṃ teṣāṃ dīnānām avasīdatām brāhmaṇānāṃ hṛte kṣetre hanyāt tripuruṣaṃ kulam 77 bhūmipālaṃ cyutaṃ rāṣṭrād yas tu saṃsthāpayet punaḥ tasya vāsaḥ sahasrākṣa nākapṛṣṭhe mahīyate 78 ikṣubhiḥ saṃtatāṃ bhūmiṃ yavagodhūmasaṃkulām go'śvavāhana saṃpūrṇāṃ bāhuvīryasamārjitām 79 nidhigarbhāṃ dadad bhūmiṃ sarvaratnaparicchadām akṣayāṁl labhate lokān bhūmisatraṃ hi tasya tat 80 vidhūya kaluṣaṃ sarvaṃ virajāḥ saṃmataḥ satām loke mahīyate sadbhir yo dadāti vasuṃdharām 81 yathāpsu patitaḥ śakra tailabindur visarpati tathā bhūmikṛtaṃ dānaṃ sasye sasye visarpati 82 ye raṇāgre mahīpālāḥ śūrāḥ samitiśobhanāḥ vadhyante 'bhimukhāḥ śakra brahmalokaṃ vrajanti te 83 nṛtyagītaparā nāryo divyamālyavibhūṣitāḥ upatiṣṭhanti devendra sadā bhūmipradaṃ divi 84 modate ca sukhaṃ svarge devagandharvapūjitaḥ yo dadāti mahīṃ samyag vidhineha dvijātaye 85 śatam apsarasaś caiva divyamālyavibhūṣitāḥ upatiṣṭhanti devendra sadā bhūmipradaṃ naram 86 śaṅkhaṃ bhadrāsanaṃ chatraṃ varāśvā varavāraṇāḥ bhūmipradānāt puṣpāṇi hiraṇyanicayās tathā 87 ājñā sadā pratihatā jayaśabdo bhavaty atha bhūmidānasya puṣpāṇi phalaṃ svargaḥ puraṃdara 88 hiraṇyapuṣpāś cauṣadhyaḥ kuśa kāñcanaśāḍvalāḥ amṛtaprasavāṃ bhūmiṃ prāpnoti puruṣo dadat 89 nāsti bhūmisamaṃ dānaṃ nāsti mātṛsamo guruḥ nāsti satyasamo dharmo nāsti dānasamo nidhiḥ 90 etad āṅgirasāc chrutvā vāsavo vasudhām imām vasu ratnasamākīrṇāṃ dadāv āṅgirase tadā 91 ya imaṃ śrāvayec chrāddhe bhūmidānasya saṃstavam na tasya rakṣasāṃ bhāgo nāsurāṇāṃ bhavaty uta 92 akṣayaṃ ca bhaved dattaṃ pitṛbhyas tan na saṃśayaḥ tasmāc chrāddheṣv idaṃ vipra bhuñjataḥ śrāvayed dvijān 93 ity eta sarvadānānāṃ śreṣṭham uktaṃ tavānagha mayā bharataśārdūla kiṃ bhūyaḥ śrotum icchasi |