1
[य] पितामह महाप्राज्ञ सर्वशास्त्रविशारथ शरुतं मे महथ आख्यानम इथं मतिमतां वर 2 भूयस तु शरॊतुम इच्छामि धर्मार्दसहितं नृप कद्यमानं तवया किं चित तन मे वयाख्यातुम अर्हसि 3 केन मृत्युर गृहस्देन धर्मम आश्रित्य निर्जितः इत्य एतत सर्वम आचक्ष्व तत्त्वेन मम पार्दिव 4 [भ] अत्राप्य उथाहरन्तीमम इतिहासं पुरातनम यदा मृत्युर गृहस्देन धर्मम आश्रित्य निर्जितः 5 मनॊः परजापते राजन्न इक्ष्वाकुर अभवत सुतः तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः 6 थशमस तस्य पुत्रस तु थशाश्वॊ नाम भारत माहिष्मत्याम अभूथ राजा धर्म आत्मा सत्यविक्रमः 7 थशाश्वस्य सुतस तव आसीथ राजा परमधार्मिकः सत्ये तपसि थाने च यस्य नित्यं रतं मनः 8 मथिराश्व इति खयातः पृदिव्यां पृदिवीपतिः धनुर्वेथे च वेथे च निरतॊ यॊ ऽभवत सथा 9 मरिथाश्वस्य पुत्रस तु थयुतिमान नाम पार्दिवः महाभागॊ महातेजा महासत्त्वॊ महाबलः 10 पुत्रॊ थयुतिमतस तव आसीत सुवीरॊ नाम पार्दिवः धर्मात्मा कॊशवांश चापि थेवराज इवापरः 11 सुवीरस्य तु पुत्रॊ ऽभूत सर्वसंग्राम थुर्जयः थुर्जयेत्य अभिविख्यातः सर्वशास्त्रविशारथः 12 थुर्जयस्येन्थ्र वपुषः पुत्रॊ ऽगनिसथृशथ्युतिः थुर्यॊधनॊ नाम महान राजासीथ राजसत्तम 13 तस्येन्थ्र समवीर्यस्य संग्रामेष्व अनिवर्तिनः विषयश च परभावश च तुल्यम एवाभ्यवर्तत 14 रत्नैर धनैश च पशुभिः सस्यैश चापि पृदग्विधैः नगरं विषयश चास्य परतिपूर्णं तथाभवत 15 न तस्य विषये चाभूत कृपणॊ नापि थुर्गतः वयाधितॊ वा कृशॊ वापि तस्मिन नाभून नरः कव चित 16 सुथक्षिणॊ मधुरवाग अनसूयुर जितेन्थ्रियः धर्मात्मा चानृशंसश च विक्रान्तॊ ऽदाविकत्दनः 17 यज्वा वथान्यॊ मेधावी बरह्मण्यः सत्यसंगरः न चावमन्ता थाता च वेथवेथाङ्गपारगः 18 तं नर्मथा थेव नथी पुण्या शीतजला शिवा चकमे पुरुषश्रेष्ठं सवेन भावेन भारत 19 तस्य जज्ञे तथा नथ्यां कन्या राजीवलॊचना नाम्ना सुथर्शना राजन रूपेण च सुथर्शना 20 ताथृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर थुर्यॊधन सुता याथृग अभवथ वरवर्णिनी 21 ताम अग्निश चकमे साक्षाथ राजकन्यां सुथर्शनाम भूत्वा च बराह्मणः साक्षाथ वरयाम आस तं नृपम 22 थरिथ्रश चासवर्णश च ममायम इति पार्दिवः न थित्सति सुतां तस्मै तां विप्राय सुथर्शनाम 23 ततॊ ऽसय वितते यज्ञे नष्टॊ ऽभूथ धव्यवाहनः ततॊ थुर्यॊधनॊ राजा वाक्यम आहर्त्विजस तथा 24 थुष्कृतं मम किं नु सयाथ भवतां वा थविजर्षभाः येन नाशं जगामाग्निः कृतं कुपुरुषेष्व इव 25 न हय अल्पं थुष्कृतं नॊ ऽसति येनाग्निर नाशम आगतः भवतां वाद वा मह्यं तत्त्वेनैतथ विमृश्यताम 26 एतथ राज्ञॊ वचः शरुत्वा विप्रास ते भरतर्षभ नियता वाग्यताश चैव पावकं शरणं ययुः 27 तान थर्शयाम आस तथा भगवान हव्यवाहनः सवं रूपं थीप्तिमत कृत्वा शरथर्कसमथ्युतिः 28 ततॊ महात्मा तान आह थहनॊ बराह्मणर्षभान वरयाम्य आत्मनॊ ऽरदाय थुर्यॊधन सुताम इति 29 ततस ते काल्यम उत्दाय तस्मै राज्ञे नयवेथयन बराह्मणा विस्मिताः सर्वे यथ उक्तं चित्रभानुना 30 ततः स राजा तच छरुत्वा वचनं बरह्मवाथिनाम अवाप्य परमं हर्षं तदेति पराह बुथ्धिमान 31 परायाचत नृपः शुल्कं भगवन्तं विभावसुम नित्यं सांनिध्यम इह ते चित्रभानॊ भवेथ इति तम आह भगवान अग्निर एवम अस्त्व इति पार्दिवम 32 ततः सांनिध्यम अध्यापि माहिष्मत्यां विभावसॊः थृष्टं हि सहथेवेन थिशॊ विजयता तथा 33 ततस तां समलंकृत्य कन्याम अहत वाससम थथौ थुर्यॊधनॊ राजा पावकाय महात्मने 34 परतिजग्राह चाग्निस तां राजपुत्रीं सुथर्शनाम विधिना वेथ थृष्टेन वसॊर धाराम इवाध्वरे 35 तस्या रूपेण शीलेन कुलेन वपुषा शरिया अभवत परीतिमान अग्निर गर्भं तस्यां समाथधे 36 तस्यां समभवत पुत्रॊ नाम्नाग्नेयः सुथर्शनः शिशुर एवाध्यगात सर्वं स च बरह्म सनातनम 37 अदौघवान नाम नृपॊ नृगस्यासीत पितामहः तस्याप्य ओघवती कन्या पुत्रश चौघरदॊ ऽभवत 38 ताम ओघवान थथौ तस्मै सवयम ओघवतीं सुताम सुथर्शनाय विथुषे भार्यार्दं थेवरूपिणाम 39 स गृहस्दाश्रमरतस तया सह सुथर्शनः कुरुक्षेत्रे ऽवसथ राजन्न ओघवत्या समन्वितः 40 गृहस्दश चावजेष्यामि मृत्युम इत्य एव स परभॊ परतिज्ञाम अकरॊथ धीमान थीप्ततेजा विशां पते 41 ताम अदौघवतीं राजन स पावकसुतॊ ऽबरवीत अतिदेः परतिकूलं ते न कर्तव्यं कदं चन 42 येन येन च तुष्येत नित्यम एव तवयातिदिः अप्य आत्मनः परथानेन न ते कार्या विचारणा 43 एतथ वरतं मम सथा हृथि संपरिवर्तते गृहस्दानां हि सुश्रॊणि नातिदेर विथ्यते परम 44 परमाणं यथि वामॊरु वचस ते मम शॊभने इथं वचनम अव्यग्रा हृथि तवं धारयेः सथा 45 निष्क्रान्ते मयि कल्याणि तदा संनिहिते ऽनघे नातिदिस ते ऽवमन्तव्यः परमाणं यथ्य अहं तव 46 तम अब्रवीथ ओघवती यता मूर्ध्नि कृताञ्जलिः न मे तवथ वचनात किं चिथ अकर्तव्यं कदं चन 47 जिगीषमाणं तु गृहे तथा मृत्युः सुथर्शनम पृष्ठतॊ ऽनवगमथ राजन रन्धान्वेषी तथा सथा 48 इध्मार्दं तु गते तस्मिन्न अग्निपुत्रे सुथर्शने अतिदिर बराह्मणः शरीमांस ताम आहौघवतीं तथा 49 आतिद्यं थत्तम इच्छामि तवयाथ्य वरवर्णिनि परमाणं यथि धर्मस ते गृहस्दाश्रमसंमतः 50 इत्य उक्ता तेन विप्रेण राजपुत्री यशस्विनी विधिना परतिजग्राह वेथॊक्तेन विशां पते 51 आसनं चैव पाथ्यं च तस्मै थत्त्वा थविजातये परॊवाचौघवती विप्रं केनार्दः किं थथामि ते 52 ताम अब्रवीत ततॊ विप्रॊ राजपुत्रीं सुथर्शनाम तवया ममार्दः कल्याणि निर्विशङ्के तथ आचर 53 यथि परमाणं धर्मस ते गृहस्दाश्रमसंमतः परथानेनात्मनॊ राज्ञि कर्तुम अर्हसि मे परियम 54 तदा संछन्थ्यमानॊ ऽनयैर ईप्सितैर नृप कन्यया नान्यम आत्मप्रथानात स तस्या वव्रे वरं थविजः 55 सा तु राजसुता समृत्वा हर्तुर वचनम आथितः तदेति लज्जमाना सा तम उवाच थविजर्षभम 56 ततॊ रहः स विप्रर्षिः सा चैवॊपविवेश ह संस्मृत्य भर्तुर वचनं गृहस्दाश्रमकाङ्क्षिणः 57 अदेध्मान समुपाथाय स पावकिर उपागमत मृत्युना रौथ्रभावेन नित्यं बन्धुर इवान्वितः 58 ततस तव आश्रमम आगम्य स पावकसुतस तथा ताम आजुहावौघवतीं कवासि यातेति चासकृत 59 तस्मै परतिवचः सा तु भर्त्रे न परथथौ तथा कराभ्यां तेन विप्रेण सपृष्टा भर्तृव्रता सती 60 उच्छिष्टास्मीति मन्वाना लज्जिता भर्तुर एव च तूष्णींभूताभवत साध्वी न चॊवाचाद किं चन 61 अद तां पुनर एवेथं परॊवाच स सुथर्शनः कव सा साध्वी कव सा याता गरीयः किम अतॊ मम 62 पतिव्रता सत्यशीला नित्यं चैवार्जवे रता कदं न परत्युथेत्य अथ्य समयमाना यदा पुरा 63 उटजस्दस तु तं विप्रः परत्युवाच सुथर्शनम अतिदिं विथ्धि संप्राप्तं पावके बराह्मणं च माम 64 अनया छन्थ्यमानॊ ऽहं भार्यया तव सत्तम तैस तैर अतिदि सत्कारैर आर्जवे ऽसया थृढं मनः 65 अनेन विधिना सेयं माम अर्चति शुभानना अनुरूपं यथ अत्राथ्य तथ भवान वक्तुम अर्हति 66 कूटमुथ्गर हस्तस तु मृत्युस तं वै समन्वयात हीनप्रतिज्ञम अत्रैनं वधिष्यामीति चिन्तयन 67 सुथर्शनस तु मनसा कर्मणा चक्षुषा गिरा तयक्तेर्ष्यस तयक्तमन्युश च समयमानॊ ऽबरवीथ इथम 68 सुरतं ते ऽसतु विप्राग्र्य परीतिर हि परमा मम गृहस्दस्य हि धर्मॊ ऽगर्यः संप्राप्तातिदि पूजनम 69 अतिदिः पूजितॊ यस्य गृहस्दस्य तु गच्छति नान्यस तस्मात परॊ धर्म इति पराहुर मनीषिणः 70 पराणा हि मम थाराश च यच चान्यथ विथ्यते वसु अतिदिभ्यॊ मया थेयम इति मे वरतम आहितम 71 निःसंथिग्धं मया वाक्यम एतत ते समुथाहृतम तेनाहं विप्र सत्येन सवयम आत्मानम आलभे 72 पृदिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम बुथ्धिर आत्मा मनः कालॊ थिशश चैव गुणा थश 73 नित्यम एते हि पश्यन्ति थेहिनां थेहसंश्रिताः सुकृतं थुष्कृतं चापि कर्म धर्मभृतां वर 74 यदैषा नानृता वाणी मयाथ्य समुथाहृता तेन सत्येन मां थेवाः पालयन्तु थहन्तु वा 75 ततॊ नाथः समभवथ थिक्षु सर्वासु भारत असकृत सत्यम इत्य एव नैतन मिद्येति सर्वशः 76 उटजात तु ततस तस्मान निश्चक्राम स वै थविजः वपुषा खं च भूमिं च वयाप्य वायुर इवॊथ्यतः 77 सवरेण विप्रः शैक्षेण तरीँल लॊकान अनुनाथयन उवाच चैनं धर्मज्ञं पूर्वम आमन्त्र्य नामतः 78 धर्मॊ ऽहम अस्मि भथ्रं ते जिज्ञासार्दं तवानघ पराप्तः सत्यं च ते जञात्वा परीतिर मे परमा तवयि 79 विजितश च तवया मृत्युर यॊ ऽयं तवाम अनुगच्छति रन्ध्रान्वेषी तव सथा तवया धृत्या वशीकृतः 80 न चास्ति शक्तिस तरैलॊक्ये कस्य चित पुरुषॊत्तम पतिव्रताम इमां साध्वीं तवॊथ्वीक्षितुम अप्य उत 81 रक्षिता तवथ गुणैर एषा पतिव्रतगुणैस तदा अधृष्या यथ इयं बरूयात तदा तन नान्यदा भवेत 82 एषा हि तपसा सवेन संयुक्ता बरह्मवाथिनी पावनार्दं च लॊकस्य सरिच्छ्रेष्ठा भविष्यति 83 अर्धेनौघवती नाम तवाम अर्देनानुयास्यति शरीरेण महाभागा यॊगॊ हय अस्या वशे सदितः 84 अनया सह लॊकांश च गन्तासि तपसार्जितान यत्र नावृत्तिम अभ्येति शाश्वतांस तान सनातनान 85 अनेन चैव थेहेन लॊकांस तवम अभिपत्स्यसे निर्जितश च तवया मृत्युर ऐश्वर्यं च तवॊत्तमम 86 पञ्च भूतान्य अतिक्रान्तः सववीर्याच च मनॊ भवः गृहस्द धर्मेणानेन कामक्रॊधौ च ते जितौ 87 सनेहॊ रागश च तन्थ्री च मॊहॊ थरॊहश च केवलः तव शुश्रूषया राजन राजपुत्र्या विनिर्जिताः 88 [भ] शुक्लानां तु सहस्रेण वाजिनां रदम उत्तमम युक्तं परगृह्य भगवान वयवसायॊ जगाम तम 89 मृत्युर आत्मा च लॊकाश च जिता भूतानि पञ्च च बुथ्धिः कालॊ मनॊ वयॊम कामक्रॊधौ तदैव च 90 तस्माथ गृहाश्रमस्दस्य नान्यथ थैवतम अस्ति वै ऋते ऽतिदिं नरव्याघ्र मनसैतथ विचारय 91 अतिदिः पूजितॊ यस्य धयायते मनसा शुभम न तत करतुशतेनापि तुल्यम आहुर मनीषिणः 92 पात्रं तव अतिदिम आसाथ्य शीलाढ्यं यॊ न पूजयेत स थत्त्वा सुकृतं तस्य कषपयेत हय अनर्चितः 93 एतत ते कदितं पुत्र मयाख्यानम अनुत्तमम यदा हि विजितॊ मृत्युर गृहस्देन पुराभवत 94 धन्यं यशस्यम आयुष्मथ इथम आख्यानम उत्तमम बुभूषिताभिमन्तव्यं सर्वथुश्चरितापहम 95 य इथं कदयेथ विथ्वान अहन्य अहनि भारत सुथर्शनस्य चरितं पुण्याँल लॊकान अवाप्नुयात |
1
[y] pitāmaha mahāprājña sarvaśāstraviśārada śrutaṃ me mahad ākhyānam idaṃ matimatāṃ vara 2 bhūyas tu śrotum icchāmi dharmārthasahitaṃ nṛpa kathyamānaṃ tvayā kiṃ cit tan me vyākhyātum arhasi 3 kena mṛtyur gṛhasthena dharmam āśritya nirjitaḥ ity etat sarvam ācakṣva tattvena mama pārthiva 4 [bh] atrāpy udāharantīmam itihāsaṃ purātanam yathā mṛtyur gṛhasthena dharmam āśritya nirjitaḥ 5 manoḥ prajāpate rājann ikṣvākur abhavat sutaḥ tasya putraśataṃ jajñe nṛpateḥ sūryavarcasaḥ 6 daśamas tasya putras tu daśāśvo nāma bhārata māhiṣmatyām abhūd rājā dharm ātmā satyavikramaḥ 7 daśāśvasya sutas tv āsīd rājā paramadhārmikaḥ satye tapasi dāne ca yasya nityaṃ rataṃ manaḥ 8 madirāśva iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ dhanurvede ca vede ca nirato yo 'bhavat sadā 9 maridāśvasya putras tu dyutimān nāma pārthivaḥ mahābhāgo mahātejā mahāsattvo mahābalaḥ 10 putro dyutimatas tv āsīt suvīro nāma pārthivaḥ dharmātmā kośavāṃś cāpi devarāja ivāparaḥ 11 suvīrasya tu putro 'bhūt sarvasaṃgrāma durjayaḥ durjayety abhivikhyātaḥ sarvaśāstraviśāradaḥ 12 durjayasyendra vapuṣaḥ putro 'gnisadṛśadyutiḥ duryodhano nāma mahān rājāsīd rājasattama 13 tasyendra samavīryasya saṃgrāmeṣv anivartinaḥ viṣayaś ca prabhāvaś ca tulyam evābhyavartata 14 ratnair dhanaiś ca paśubhiḥ sasyaiś cāpi pṛthagvidhaiḥ nagaraṃ viṣayaś cāsya pratipūrṇaṃ tadābhavat 15 na tasya viṣaye cābhūt kṛpaṇo nāpi durgataḥ vyādhito vā kṛśo vāpi tasmin nābhūn naraḥ kva cit 16 sudakṣiṇo madhuravāg anasūyur jitendriyaḥ dharmātmā cānṛśaṃsaś ca vikrānto 'thāvikatthanaḥ 17 yajvā vadānyo medhāvī brahmaṇyaḥ satyasaṃgaraḥ na cāvamantā dātā ca vedavedāṅgapāragaḥ 18 taṃ narmadā deva nadī puṇyā śītajalā śivā cakame puruṣaśreṣṭhaṃ svena bhāvena bhārata 19 tasya jajñe tadā nadyāṃ kanyā rājīvalocanā nāmnā sudarśanā rājan rūpeṇa ca sudarśanā 20 tādṛgrūpā na nārīṣu bhūtapūrvā yudhiṣṭhira duryodhana sutā yādṛg abhavad varavarṇinī 21 tām agniś cakame sākṣād rājakanyāṃ sudarśanām bhūtvā ca brāhmaṇaḥ sākṣād varayām āsa taṃ nṛpam 22 daridraś cāsavarṇaś ca mamāyam iti pārthivaḥ na ditsati sutāṃ tasmai tāṃ viprāya sudarśanām 23 tato 'sya vitate yajñe naṣṭo 'bhūd dhavyavāhanaḥ tato duryodhano rājā vākyam āhartvijas tadā 24 duṣkṛtaṃ mama kiṃ nu syād bhavatāṃ vā dvijarṣabhāḥ yena nāśaṃ jagāmāgniḥ kṛtaṃ kupuruṣeṣv iva 25 na hy alpaṃ duṣkṛtaṃ no 'sti yenāgnir nāśam āgataḥ bhavatāṃ vātha vā mahyaṃ tattvenaitad vimṛśyatām 26 etad rājño vacaḥ śrutvā viprās te bharatarṣabha niyatā vāgyatāś caiva pāvakaṃ śaraṇaṃ yayuḥ 27 tān darśayām āsa tadā bhagavān havyavāhanaḥ svaṃ rūpaṃ dīptimat kṛtvā śaradarkasamadyutiḥ 28 tato mahātmā tān āha dahano brāhmaṇarṣabhān varayāmy ātmano 'rthāya duryodhana sutām iti 29 tatas te kālyam utthāya tasmai rājñe nyavedayan brāhmaṇā vismitāḥ sarve yad uktaṃ citrabhānunā 30 tataḥ sa rājā tac chrutvā vacanaṃ brahmavādinām avāpya paramaṃ harṣaṃ tatheti prāha buddhimān 31 prāyācata nṛpaḥ śulkaṃ bhagavantaṃ vibhāvasum nityaṃ sāṃnidhyam iha te citrabhāno bhaved iti tam āha bhagavān agnir evam astv iti pārthivam 32 tataḥ sāṃnidhyam adhyāpi māhiṣmatyāṃ vibhāvasoḥ dṛṣṭaṃ hi sahadevena diśo vijayatā tadā 33 tatas tāṃ samalaṃkṛtya kanyām ahata vāsasam dadau duryodhano rājā pāvakāya mahātmane 34 pratijagrāha cāgnis tāṃ rājaputrīṃ sudarśanām vidhinā veda dṛṣṭena vasor dhārām ivādhvare 35 tasyā rūpeṇa śīlena kulena vapuṣā śriyā abhavat prītimān agnir garbhaṃ tasyāṃ samādadhe 36 tasyāṃ samabhavat putro nāmnāgneyaḥ sudarśanaḥ śiśur evādhyagāt sarvaṃ sa ca brahma sanātanam 37 athaughavān nāma nṛpo nṛgasyāsīt pitāmahaḥ tasyāpy oghavatī kanyā putraś caugharatho 'bhavat 38 tām oghavān dadau tasmai svayam oghavatīṃ sutām sudarśanāya viduṣe bhāryārthaṃ devarūpiṇām 39 sa gṛhasthāśramaratas tayā saha sudarśanaḥ kurukṣetre 'vasad rājann oghavatyā samanvitaḥ 40 gṛhasthaś cāvajeṣyāmi mṛtyum ity eva sa prabho pratijñām akarod dhīmān dīptatejā viśāṃ pate 41 tām athaughavatīṃ rājan sa pāvakasuto 'bravīt atitheḥ pratikūlaṃ te na kartavyaṃ kathaṃ cana 42 yena yena ca tuṣyeta nityam eva tvayātithiḥ apy ātmanaḥ pradānena na te kāryā vicāraṇā 43 etad vrataṃ mama sadā hṛdi saṃparivartate gṛhasthānāṃ hi suśroṇi nātither vidyate param 44 pramāṇaṃ yadi vāmoru vacas te mama śobhane idaṃ vacanam avyagrā hṛdi tvaṃ dhārayeḥ sadā 45 niṣkrānte mayi kalyāṇi tathā saṃnihite 'naghe nātithis te 'vamantavyaḥ pramāṇaṃ yady ahaṃ tava 46 tam abravīd oghavatī yatā mūrdhni kṛtāñjaliḥ na me tvad vacanāt kiṃ cid akartavyaṃ kathaṃ cana 47 jigīṣamāṇaṃ tu gṛhe tadā mṛtyuḥ sudarśanam pṛṣṭhato 'nvagamad rājan randhānveṣī tadā sadā 48 idhmārthaṃ tu gate tasminn agniputre sudarśane atithir brāhmaṇaḥ śrīmāṃs tām āhaughavatīṃ tadā 49 ātithyaṃ dattam icchāmi tvayādya varavarṇini pramāṇaṃ yadi dharmas te gṛhasthāśramasaṃmataḥ 50 ity uktā tena vipreṇa rājaputrī yaśasvinī vidhinā pratijagrāha vedoktena viśāṃ pate 51 āsanaṃ caiva pādyaṃ ca tasmai dattvā dvijātaye provācaughavatī vipraṃ kenārthaḥ kiṃ dadāmi te 52 tām abravīt tato vipro rājaputrīṃ sudarśanām tvayā mamārthaḥ kalyāṇi nirviśaṅke tad ācara 53 yadi pramāṇaṃ dharmas te gṛhasthāśramasaṃmataḥ pradānenātmano rājñi kartum arhasi me priyam 54 tathā saṃchandyamāno 'nyair īpsitair nṛpa kanyayā nānyam ātmapradānāt sa tasyā vavre varaṃ dvijaḥ 55 sā tu rājasutā smṛtvā hartur vacanam āditaḥ tatheti lajjamānā sā tam uvāca dvijarṣabham 56 tato rahaḥ sa viprarṣiḥ sā caivopaviveśa ha saṃsmṛtya bhartur vacanaṃ gṛhasthāśramakāṅkṣiṇaḥ 57 athedhmān samupādāya sa pāvakir upāgamat mṛtyunā raudrabhāvena nityaṃ bandhur ivānvitaḥ 58 tatas tv āśramam āgamya sa pāvakasutas tadā tām ājuhāvaughavatīṃ kvāsi yāteti cāsakṛt 59 tasmai prativacaḥ sā tu bhartre na pradadau tadā karābhyāṃ tena vipreṇa spṛṣṭā bhartṛvratā satī 60 ucchiṣṭāsmīti manvānā lajjitā bhartur eva ca tūṣṇīṃbhūtābhavat sādhvī na covācātha kiṃ cana 61 atha tāṃ punar evedaṃ provāca sa sudarśanaḥ kva sā sādhvī kva sā yātā garīyaḥ kim ato mama 62 pativratā satyaśīlā nityaṃ caivārjave ratā kathaṃ na pratyudety adya smayamānā yathā purā 63 uṭajasthas tu taṃ vipraḥ pratyuvāca sudarśanam atithiṃ viddhi saṃprāptaṃ pāvake brāhmaṇaṃ ca mām 64 anayā chandyamāno 'haṃ bhāryayā tava sattama tais tair atithi satkārair ārjave 'syā dṛḍhaṃ manaḥ 65 anena vidhinā seyaṃ mām arcati śubhānanā anurūpaṃ yad atrādya tad bhavān vaktum arhati 66 kūṭamudgara hastas tu mṛtyus taṃ vai samanvayāt hīnapratijñam atrainaṃ vadhiṣyāmīti cintayan 67 sudarśanas tu manasā karmaṇā cakṣuṣā girā tyakterṣyas tyaktamanyuś ca smayamāno 'bravīd idam 68 surataṃ te 'stu viprāgrya prītir hi paramā mama gṛhasthasya hi dharmo 'gryaḥ saṃprāptātithi pūjanam 69 atithiḥ pūjito yasya gṛhasthasya tu gacchati nānyas tasmāt paro dharma iti prāhur manīṣiṇaḥ 70 prāṇā hi mama dārāś ca yac cānyad vidyate vasu atithibhyo mayā deyam iti me vratam āhitam 71 niḥsaṃdigdhaṃ mayā vākyam etat te samudāhṛtam tenāhaṃ vipra satyena svayam ātmānam ālabhe 72 pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam buddhir ātmā manaḥ kālo diśaś caiva guṇā daśa 73 nityam ete hi paśyanti dehināṃ dehasaṃśritāḥ sukṛtaṃ duṣkṛtaṃ cāpi karma dharmabhṛtāṃ vara 74 yathaiṣā nānṛtā vāṇī mayādya samudāhṛtā tena satyena māṃ devāḥ pālayantu dahantu vā 75 tato nādaḥ samabhavad dikṣu sarvāsu bhārata asakṛt satyam ity eva naitan mithyeti sarvaśaḥ 76 uṭajāt tu tatas tasmān niścakrāma sa vai dvijaḥ vapuṣā khaṃ ca bhūmiṃ ca vyāpya vāyur ivodyataḥ 77 svareṇa vipraḥ śaikṣeṇa trīṁl lokān anunādayan uvāca cainaṃ dharmajñaṃ pūrvam āmantrya nāmataḥ 78 dharmo 'ham asmi bhadraṃ te jijñāsārthaṃ tavānagha prāptaḥ satyaṃ ca te jñātvā prītir me paramā tvayi 79 vijitaś ca tvayā mṛtyur yo 'yaṃ tvām anugacchati randhrānveṣī tava sadā tvayā dhṛtyā vaśīkṛtaḥ 80 na cāsti śaktis trailokye kasya cit puruṣottama pativratām imāṃ sādhvīṃ tavodvīkṣitum apy uta 81 rakṣitā tvad guṇair eṣā pativrataguṇais tathā adhṛṣyā yad iyaṃ brūyāt tathā tan nānyathā bhavet 82 eṣā hi tapasā svena saṃyuktā brahmavādinī pāvanārthaṃ ca lokasya saricchreṣṭhā bhaviṣyati 83 ardhenaughavatī nāma tvām arthenānuyāsyati śarīreṇa mahābhāgā yogo hy asyā vaśe sthitaḥ 84 anayā saha lokāṃś ca gantāsi tapasārjitān yatra nāvṛttim abhyeti śāśvatāṃs tān sanātanān 85 anena caiva dehena lokāṃs tvam abhipatsyase nirjitaś ca tvayā mṛtyur aiśvaryaṃ ca tavottamam 86 pañca bhūtāny atikrāntaḥ svavīryāc ca mano bhavaḥ gṛhastha dharmeṇānena kāmakrodhau ca te jitau 87 sneho rāgaś ca tandrī ca moho drohaś ca kevalaḥ tava śuśrūṣayā rājan rājaputryā vinirjitāḥ 88 [bh] śuklānāṃ tu sahasreṇa vājināṃ ratham uttamam yuktaṃ pragṛhya bhagavān vyavasāyo jagāma tam 89 mṛtyur ātmā ca lokāś ca jitā bhūtāni pañca ca buddhiḥ kālo mano vyoma kāmakrodhau tathaiva ca 90 tasmād gṛhāśramasthasya nānyad daivatam asti vai ṛte 'tithiṃ naravyāghra manasaitad vicāraya 91 atithiḥ pūjito yasya dhyāyate manasā śubham na tat kratuśatenāpi tulyam āhur manīṣiṇaḥ 92 pātraṃ tv atithim āsādya śīlāḍhyaṃ yo na pūjayet sa dattvā sukṛtaṃ tasya kṣapayeta hy anarcitaḥ 93 etat te kathitaṃ putra mayākhyānam anuttamam yathā hi vijito mṛtyur gṛhasthena purābhavat 94 dhanyaṃ yaśasyam āyuṣmad idam ākhyānam uttamam bubhūṣitābhimantavyaṃ sarvaduścaritāpaham 95 ya idaṃ kathayed vidvān ahany ahani bhārata sudarśanasya caritaṃ puṇyāṁl lokān avāpnuyāt |