1
[जनमेजय] कदं स भगवान थेवॊ यज्ञेष्व अग्रहरः परभुः यज्ञधारी च सततं वेथवेथाङ्गवित तदा 2 निवृत्तं चास्दितॊ धर्मं कषेमी भागवत परियः परवृत्ति धर्मान विथधे स एव भगवान परभुः 3 कदं परवृत्ति धर्मेषु भागार्हा थेवताः कृताः कदं निवृत्ति धर्माश च कृता वयावृत्तबुथ्धयः 4 एतं नः संशयं विप्र छिन्धि गुह्यं सनातनम तवया नारायण कदा शरुता वै धर्मसंहिता 5 इमे सब्रह्मका लॊकाः ससुरासुरमानवाः करियास्व अभ्युथयॊक्तासु सक्ता थृश्यन्ति सर्वशः मॊक्षश चॊक्तस तवया बरह्मन निर्वानं परमं सुखम 6 ये च मुक्ता भवन्तीह पुण्यपापविवर्जिताः ते सहस्रार्चिषं थेवं परविशन्तीति शुश्रुमः 7 अहॊ हि थुरनुष्ठेयॊ मॊक्षधर्मः सनातनः यं हित्वा थेवताः सर्वा हव्यकव्य भुजॊ ऽभवन 8 किं नु बरह्मा च रुथ्रश च शक्रश च बलभित परभुः सूर्यस ताराधिपॊ वायुर अग्निर वरुण एव च आकाशं जगती चैव ये च शेषा थिवौकसः 9 परलयं न विजानन्ति आत्मनः परिनिर्मितम ततस तेनास्दिता मार्गं धरुवम अक्षयम अव्ययम 10 समृत्वा कालपरीमाणं परवृत्तिं ये समास्दिताः थॊषः कालपरीमाणे महान एष करियावताम 11 एतन मे संशयं विप्र हृथि शल्यम इवार्पितम छिन्धीतिहास कदनात परं कौतूहलं हि मे 12 कदं भागहराः परॊक्ता थेवताः करतुषु थविज किमर्दं चाध्वरे बरह्मन्न इज्यन्ते तरिथिवौकसः 13 ये च भागं परगृह्णन्ति यज्ञेषु थविजसत्तम ते यजन्तॊ महायज्ञैः कस्य भागं थथन्ति वै 14 [वैषम्पायन] अहॊ गूढतमः परश्नस तवया पृष्टॊ जनेश्वर नातप्त तपसा हय एष नावेथ विथुषा तदा नापुराणविथा चापि शक्यॊ वयाहर्तुम अञ्जसा 15 हन्त ते कदयिष्यामि यन मे पृष्ठः पुरा गुरुः कृष्णथ्वैपायनॊ वयासॊ वेथ वयासॊ महान ऋषिः 16 सुमन्तुर जैमिनिश चैव पैलश च सुथृध वरतः अहं चतुर्दः शिष्यॊ वै पञ्चमश च शुकः समृतः 17 एतान समागतान सर्वान पञ्च शिष्यान थमान्वितान शौचाचार समायुक्ताञ जितक्रॊधाञ जितेन्थ्रियान 18 वेथान अध्यापयाम आस महाभारत पञ्चमान मेरौ गिरिवरे रम्ये सिथ्धचारणसेविते 19 तेषाम अभ्यस्यतां वेथान कथा चित संशयॊ ऽभवत एष वै यस तवया पृष्टस तेन तेषां परकीर्तितः ततः शरुतॊ मया चापि तवाख्येयॊ ऽथय भारत 20 शिष्याणां वचनं शरुत्वा सर्वाज्ञान तमॊनुथः पराशर सुतः शरीमान वयासॊ वाक्यम उवाच ह 21 मया हि सुमहत तप्तं तपः परमथारुणम भूतं भव्यं भविष्यच च जानीयाम इति सत्तमाः 22 तस्य मे तप्ततपसॊ निगृहीतेन्थ्रियस्य च नारायण परसाथेन कषीरॊथस्यानुकूलतः 23 तरैकालिकम इथं जञानं पराथुर्भूतं यदेप्सितम तच छृणुध्वं यदा जञानं वक्ष्ये संशयम उत्तमम यदावृत्तं हि कल्पाथौ थृष्ठं मे जञानचक्षुषा 24 परमात्मेति यं पराहुः सांख्ययॊगविथॊ जनाः महापुरुष संज्ञां स लभते सवेन कर्मणा 25 तस्मात परसूतम अव्यक्तं परधानं तथ विथुर बुधाः अव्यक्ताथ वयक्तम उत्पन्नं लॊकसृष्ट्य अर्दम ईश्वरात 26 अनिरुथ्धॊ हि लॊकेषु महान आत्मेति कद्यते यॊ ऽसौ वयक्तत्वम आपन्नॊ निर्ममे च पितामहम सॊ ऽहंकार इति परॊक्तः सर्वतेजॊमयॊ हि सः 27 पृदिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम अहंकारप्रसूतानि महाभूतानि भारत 28 महाभूतानि सृष्ट्वाद तथ गुणान निर्ममे पुनः भूतेभ्यश चैव निष्पन्ना मूर्तिमन्तॊ ऽसतताञ शृणु 29 मरीचिर अङ्गिराश चात्रिः पुलस्त्यः पुलहः करतुः वसिष्ठश च महात्मा वै मनुः सवायम्भुवस तदा जञेयाः परकृतयॊ ऽसतौ ता यासु लॊकाः परतिष्ठिताः 30 वेथान वेथाङ्गसंयुक्तान यज्ञान यज्ञाङ्गसंयुतान निर्ममे लॊकसिथ्ध्यर्दं बरह्मा लॊकपितामहः अस्ताभ्यः परकृतिभ्यश च जातं विश्वम इथं जगत 31 रुथ्रॊ रॊषात्मकॊ जातॊ थशान्यान सॊ ऽसृजत सवयम एकाथशैते रुथ्रास तु विकाराः पुरुषाः समृताः 32 ते रुथ्राः परकृतिश चैव सर्वे चैव सुरर्षयः उत्पन्ना लॊकसिथ्ध्यर्दं बरह्माणं समुपस्दिताः 33 वयं हि सृष्टा भगवंस तवया वै परभविष्णुना येन यस्मिन्न अधीकारे वर्तितव्यं पितामह 34 यॊ ऽसौ तवया विनिर्थिष्टॊ अधिकारॊ ऽरदचिन्तकः परिपाल्यः कदं तेन सॊ ऽधिकारॊ ऽधिकारिणा 35 परथिशस्व बलं तस्य यॊ ऽधिकारार्द चिन्तकः एवम उक्तॊ महाथेवॊ थेवांस तान इथम अब्रवीत 36 साध्व अहं जञापितॊ थेवा युष्माभिर भथ्रम अस्तु वः ममाप्य एषा समुत्पन्ना चिन्ता या भवतां मता 37 लॊकतन्त्रस्य कृत्स्नस्य कदं कार्यः परिग्रहः कदं बलक्षयॊ न सयाथ युष्माकं हय आत्मनश च मे 38 इतः सर्वे ऽपि गच्छामः शरणं लॊकसाक्षिणम महापुरुषम अव्यक्तं स नॊ वक्ष्यति यथ धितम 39 ततस ते बरह्मणा सार्धम ऋषयॊ विबुधास तदा कषीरॊथस्यॊत्तरं कूलं जग्मुर लॊकहितार्दिनः 40 ते तपः समुपातिष्ठन बरह्मॊक्तं वेथ कल्पितम स महानियमॊ नाम तपश्चर्या सुथारुणा 41 ऊर्ध्वं थृष्टिर बाहवश च एकाग्रं च मनॊ ऽभवत एकपाथस्दिताः सम्यक काष्ठ भूताः समाहिताः 42 थिव्यं वर्षसहस्रं ते तपस तप्त्वा तथ उत्तमम शुश्रुवुर मधुरां वानीं वेथवेथाङ्गभूषिताम 43 भॊ भॊः सब्रह्मका थेवा ऋषयश च तपॊधनाः सवागतेनार्च्य वः सर्वाञ शरावये वाक्यम उत्तमम 44 विज्ञातं वॊ मया कार्यं तच च लॊकहितं महत परवृत्ति युक्तं कर्तव्यं युष्मत पराणॊपबृंहणम 45 सुतप्तं वस तपॊ थेवा ममाराधन काम्यया भॊक्ष्यदास्य महासत्त्वास तपसः फलम उत्तमम 46 एष बरह्मा लॊकगुरुः सर्वलॊकपितामहः यूयं च विबुधश्रेष्ठा मां यजध्वं समाहितः 47 सर्वे भागान कल्पयध्वं यज्ञेषु मम नित्यशः तदा शरेयॊ विधास्यामि यदाधीकारम ईश्वराः 48 शरुत्वैतथ थेवथेवस्य वाक्यं हृष्टतनू रुहाः ततस ते विबुधाः सर्वे बरह्मा ते च महर्षयः 49 वेथ थृष्टेन विधिना वैष्नवं करतुम आहरन तस्मिन सत्त्रे तथा बरह्मा सवयं भागम अकल्पयत थेवा थेवर्षयश चैव सर्वे भागान अकल्पयन 50 ते कार्ययुगधर्माणॊ भागाः परमसत्कृताः परापुर आथित्यवर्णं तं पुरुषं तमसः परम बृहन्तं सर्वगं थेवम ईशानं वरथं परभुम 51 ततॊ ऽद वरथॊ थेवस तान सर्वान अमरान सदितान अशरीरॊ बभासेथं वाक्यं खस्दॊ महेश्वरः 52 येन यः कल्पितॊ भागः स तदा समुपागतः परीतॊ ऽहं परथिशाम्य अथ्य फलम आवृत्ति लक्षणम 53 एतथ वॊ लक्षणं थेवा मत्प्रसाथ समुथ्भवम यूयं यज्ञैर इज्यमानाः समाप्तवरथक्षिणैः युगे युगे भविष्यध्वं परवृत्ति फलभॊगिनः 54 यज्ञैर ये चापि यक्ष्यन्ति सर्वलॊकेषु वै सुराः कल्पयिष्यन्ति वॊ भागांस ते नरा वेथ कल्पितान 55 यॊ मे यदाकल्पितवान भागम अस्मिन महाक्रतौ स तदा यज्ञभागार्हॊ वेथ सूत्रे मया कृतः 56 यूयं लॊकान धारयध्वं यज्ञभागफलॊथिताः सर्वार्दचिन्तका लॊके यदाधीकार निर्मिताः 57 याः करियाः परचरिष्यन्ति परवृत्ति फलसत्कृताः ताभिर आप्यायित बला लॊकान वै धारयिष्यद 58 यूयं हि भाविता लॊके सर्वयज्ञेषु मानवैः मां ततॊ भावयिष्यध्वम एषा वॊ भावना मम 59 इत्य अर्दं निर्मिता वेथा यज्ञाश चौषधिभिः सह एभिः सम्यक परयुक्तैर हि परीयन्ते थेवताः कषितौ 60 निर्मानम एतथ युष्माकं परवृत्ति गुणकल्पितम मया कृतं सुरश्रेष्ठा यावत कल्पक्षयाथ इति चिन्तयध्वं लॊकहितं यदाधीकारम ईश्वराः 61 मरीचिर अङ्गिराच चात्रिः पुलस्त्यः पुलहः करतुः वसिष्ठ इति सप्तैते मानसा निर्मिता हि वै 62 एते वेथविथॊ मुख्या वेथाचार्याश च कल्पिताः परवृत्ति धर्मिणश चैव पराजापत्येन कल्पिताः 63 अयं करियावतां पन्दा वयक्ती भूतः सनातनः अनिरुथ्ध इति परॊक्तॊ लॊकसर्ग करः परभुः 64 सनः सनत्सुजातश च सनकः ससनन्थनः सनत्कुमारः कपिलः सप्तमश च सनातनः 65 सप्तैते मानसाः परॊक्ता ऋषयॊ बरह्मणः सुताः सवयम आगतविज्ञाना निवृत्तं धर्मम आस्दिताः 66 एते यॊगविथॊ मुख्याः सांख्यधर्मविथस तदा आचार्या मॊक्षशास्त्रे च मॊक्षधर्मप्रवर्तकाः 67 यतॊ ऽहं परसृतः पूर्वम अव्यक्तात तरिगुणॊ महान तस्मात परतरॊ यॊ ऽसौ कषेत्रज्ञ इति कल्पितः सॊ ऽहं करियावतां पन्दाः पुनर आवृत्ति थुर्लभः 68 यॊ यदा निर्मितॊ जन्तुर यस्मिन यस्मिंश च कर्मणि परवृत्तौ वा निवृत्तौ वा तत फलं सॊ ऽशनुते ऽवशः 69 एष लॊकगुरुर बरह्मा जगथ आथि करः परभुः एष माता पिता चैव युष्माकं च पितामहः मयानुशिष्टॊ भविता सर्वभूतवरप्रथः 70 अस्य चैवानुजॊ रुथ्रॊ ललाताथ यः समुत्दितः बरह्मानुशिष्टॊ भविता सर्वत्र सवर परथः 71 गच्छध्वं सवान अधीकारांश चिन्तयध्वं यदाविधि परवर्तन्तां करियाः सर्वाः सर्वलॊकेषु माचिरम 72 परथृश्यन्तां च कर्माणि परानिनां गतयस तदा परिनिर्मित कालानि आयूंसि च सुरॊत्तमाः 73 इथं कृतयुगं नाम कालः शरेष्ठः परवर्तते अहिंस्या यज्ञपशवॊ युगे ऽसमिन नैतथ अन्यदा चतुर्पात सकलॊ धर्मॊ भविष्यत्य अत्र वै सुराः 74 ततस तरेतायुगं नाम तरयी यत्र भविष्यति परॊक्षिता यत्र पशवॊ वधं पराप्स्यन्ति वै मखे तत्र पाथचतुर्दॊ वै धर्मस्य न भविष्यति 75 ततॊ वै थवापरं नाम मिश्रः कालॊ भविष्यति थविपाथहीनॊ धर्मश च युगे तस्मिन भविष्यति 76 ततस तिष्ये ऽद संप्राप्ते युगे कलिपुरस्कृते एकपाथस्दितॊ धर्मॊ यत्र तत्र भविष्यति 77 [थेवाह] एकपाथस्दिते धर्मे यत्र कव चन गामिनि कदं कर्तव्यम अस्माभिर भवगंस तथ वथस्व नः 78 [षरीभगवान] यत्र वेथाश च यज्ञाश च तपः सत्यं थमस तदा अहिंसा धर्मसंयुक्ताः परचरेयुः सुरॊत्तमाः स वै थेशः सेवितव्यॊ मा वॊ ऽधर्मः पथा सपृशेत 79 [वयास] ते ऽनुशिष्टा भगवता थेवाः सर्षिगणास तदा नमस्कृत्वा भगवते जग्मुर थेशान यदेप्सितान 80 गतेषु तरिथिवौकः सुब्रह्मैकः पर्यवस्दितः थिथृक्षुर भगवन्तं तम अनिरुथ्ध तनौ सदितम 81 तं थेवॊ थर्शयाम आस कृत्वा हयशिरॊ महत साङ्गान आवर्तयन वेथान कमन्थलु गणित्र धृक 82 ततॊ ऽशवशिरसं थृष्ट्वा तं थेवम अमितौजसम लॊककर्ता परभुर बरह्मा लॊकानां हितकाम्यया 83 मूर्ध्ना परनम्य वरथं तस्तौ पराञ्जलिर अग्रतः स परिष्वज्य थेवेन वचनं शरावितस तथा 84 लॊककार्यगतीः सर्वास तवं चिन्तय यदाविधि धाता तवं सर्वभूतानां तवं परभुर जगतॊ गुरुः तवय्य आवेशितभारॊ ऽहं धृतिं पराप्स्याम्य अदाञ्जसा 85 यथा च सुरकार्यं ते अविषह्यं भविष्यति पराथुर्भावं गमिष्यामि तथात्म जञानथेशिकः 86 एवम उक्त्वा हयशिरास तत्रैवान्तरधीयत तेनानुशिष्टॊ बरह्मापि सवं लॊकम अचिराथ गतः 87 एवम एष महाभागः पथ्मनाभः सनातनः यज्ञेष्व अग्रहरः परॊक्तॊ यज्ञधारी च नित्यथा 88 निवृत्तिं चास्दितॊ धर्मं गतिम अक्षय धर्मिणाम परवृत्ति धर्मान विथधे कृत्वा लॊकस्य चित्रताम 89 साथिः स मध्यः स चान्तः परजानां; स धाता स धेयः स कर्ता स कार्यम युगान्ते स सुप्तः सुसंक्षिप्य लॊकान; युगाथौ परबुथ्धॊ जगथ धयुत्ससर्ज 90 तस्मै नमध्वं थेवाय निर्गुणाय गुणात्मने अजाय विश्वरूपाय धाम्ने सर्वथिवौकसाम 91 महाभूताधिपतये रुथ्राणां पतये तदा आथित्यपतये चैव वसूनां पतये तदा 92 अश्विभ्यां पतये चैव मरुतां पतये तदा वेथ यज्ञाधिपतये वेथाङ्गपतये ऽपि च 93 समुथ्रवासिने नित्यं हरये मुञ्ज केशिने शान्तये सर्वभूतानां मॊक्षधर्मानुभासिने 94 तपसां तेजसां चैव पतये यशसॊ ऽपि च वाचश च पतये नित्यं सरितां पतये तदा 95 कपर्थिने वराहाय एकशृङ्गाय धीमते विवस्वते ऽशवशिरसे चतुर्मूर्ति धृते सथा 96 गुह्याय जञानथृश्याय अक्षराय कषराय च एष थेवः संचरति सर्वत्रगतिर अव्ययः 97 एवम एतत पुरा थृष्टं मया वै जञानचक्षुषा कदितं तच च वः सर्वं मया पृष्टेन तत्त्वतः 98 करियतां मथ्वचः शिष्याः सेव्यतां हरिर ईश्वरः गीयतां वेथ शब्थैश च पूज्यतां च यदाविधि 99 [वैषम्पायन] इत्य उक्तास तु वयं तेन वेथ वयासेन धीमता सर्वे शिष्याः सुतश चास्य शुकः परमधर्मवित 100 स चास्माकम उपाध्यायः सहास्माभिर विशां पते चतुर्वेथॊथ्गताभिश च ऋग्भिस तम अभितुष्टुवे 101 एतत ते सर्वम आख्यातं यन मां तवं परिपृच्छसि एवं मे ऽकदयथ राजन पुरा थवैपायनॊ गुरुः 102 यश चेथं शृणुयान नित्यं यश चेथं परिकीर्तयेत नमॊ भगवते कृत्वा समाहित मना नरः 103 भवत्य अरॊगॊ थयुतिमान बलरूपसमन्वितः आतुरॊ मुच्यते रॊगाथ बथ्धॊमुच्येत बन्धनात 104 कामकामी लभेत कामं थीर्घम आयुर अवाप्नुयात बराह्मणः सर्ववेथी सयात कषत्रियॊ विजयी भवेत वैश्यॊ विपुललाभः सयाच छूथ्रः सुखम अवाप्नुयात 105 अपुत्रॊ लभते पुत्रं कन्या चैवेप्सितं पतिम लग्न गर्भा विमुच्येत गर्भिणी जनयेत सुतम वन्ध्या परसवम आप्नॊति पुत्रपौत्र समृथ्धिमत 106 कषेमेण गच्छेथ अध्वानम इथं यः पदते पदि यॊ यं कामं कामयते स तम आप्नॊति च धरुवम 107 इथं महर्षेर वचनं विनिश्चितं; महात्मनः पुरुषवरस्य कीर्तनम समागमं चर्षिथिवौकसाम इमं; निशम्य भक्ताः सुसुखं लभन्ते |
1
[janamejaya] kathaṃ sa bhagavān devo yajñeṣv agraharaḥ prabhuḥ yajñadhārī ca satataṃ vedavedāṅgavit tathā 2 nivṛttaṃ cāsthito dharmaṃ kṣemī bhāgavata priyaḥ pravṛtti dharmān vidadhe sa eva bhagavān prabhuḥ 3 kathaṃ pravṛtti dharmeṣu bhāgārhā devatāḥ kṛtāḥ kathaṃ nivṛtti dharmāś ca kṛtā vyāvṛttabuddhayaḥ 4 etaṃ naḥ saṃśayaṃ vipra chindhi guhyaṃ sanātanam tvayā nārāyaṇa kathā śrutā vai dharmasaṃhitā 5 ime sabrahmakā lokāḥ sasurāsuramānavāḥ kriyāsv abhyudayoktāsu saktā dṛśyanti sarvaśaḥ mokṣaś coktas tvayā brahman nirvānaṃ paramaṃ sukham 6 ye ca muktā bhavantīha puṇyapāpavivarjitāḥ te sahasrārciṣaṃ devaṃ praviśantīti śuśrumaḥ 7 aho hi duranuṣṭheyo mokṣadharmaḥ sanātanaḥ yaṃ hitvā devatāḥ sarvā havyakavya bhujo 'bhavan 8 kiṃ nu brahmā ca rudraś ca śakraś ca balabhit prabhuḥ sūryas tārādhipo vāyur agnir varuṇa eva ca ākāśaṃ jagatī caiva ye ca śeṣā divaukasaḥ 9 pralayaṃ na vijānanti ātmanaḥ parinirmitam tatas tenāsthitā mārgaṃ dhruvam akṣayam avyayam 10 smṛtvā kālaparīmāṇaṃ pravṛttiṃ ye samāsthitāḥ doṣaḥ kālaparīmāṇe mahān eṣa kriyāvatām 11 etan me saṃśayaṃ vipra hṛdi śalyam ivārpitam chindhītihāsa kathanāt paraṃ kautūhalaṃ hi me 12 kathaṃ bhāgaharāḥ proktā devatāḥ kratuṣu dvija kimarthaṃ cādhvare brahmann ijyante tridivaukasaḥ 13 ye ca bhāgaṃ pragṛhṇanti yajñeṣu dvijasattama te yajanto mahāyajñaiḥ kasya bhāgaṃ dadanti vai 14 [vaiṣampāyana] aho gūḍhatamaḥ praśnas tvayā pṛṣṭo janeśvara nātapta tapasā hy eṣa nāveda viduṣā tathā nāpurāṇavidā cāpi śakyo vyāhartum añjasā 15 hanta te kathayiṣyāmi yan me pṛṣṭhaḥ purā guruḥ kṛṣṇadvaipāyano vyāso veda vyāso mahān ṛṣiḥ 16 sumantur jaiminiś caiva pailaś ca sudṛdha vrataḥ ahaṃ caturthaḥ śiṣyo vai pañcamaś ca śukaḥ smṛtaḥ 17 etān samāgatān sarvān pañca śiṣyān damānvitān śaucācāra samāyuktāñ jitakrodhāñ jitendriyān 18 vedān adhyāpayām āsa mahābhārata pañcamān merau girivare ramye siddhacāraṇasevite 19 teṣām abhyasyatāṃ vedān kadā cit saṃśayo 'bhavat eṣa vai yas tvayā pṛṣṭas tena teṣāṃ prakīrtitaḥ tataḥ śruto mayā cāpi tavākhyeyo 'dya bhārata 20 śiṣyāṇāṃ vacanaṃ śrutvā sarvājñāna tamonudaḥ parāśara sutaḥ śrīmān vyāso vākyam uvāca ha 21 mayā hi sumahat taptaṃ tapaḥ paramadāruṇam bhūtaṃ bhavyaṃ bhaviṣyac ca jānīyām iti sattamāḥ 22 tasya me taptatapaso nigṛhītendriyasya ca nārāyaṇa prasādena kṣīrodasyānukūlataḥ 23 traikālikam idaṃ jñānaṃ prādurbhūtaṃ yathepsitam tac chṛṇudhvaṃ yathā jñānaṃ vakṣye saṃśayam uttamam yathāvṛttaṃ hi kalpādau dṛṣṭhaṃ me jñānacakṣuṣā 24 paramātmeti yaṃ prāhuḥ sāṃkhyayogavido janāḥ mahāpuruṣa saṃjñāṃ sa labhate svena karmaṇā 25 tasmāt prasūtam avyaktaṃ pradhānaṃ tad vidur budhāḥ avyaktād vyaktam utpannaṃ lokasṛṣṭy artham īśvarāt 26 aniruddho hi lokeṣu mahān ātmeti kathyate yo 'sau vyaktatvam āpanno nirmame ca pitāmaham so 'haṃkāra iti proktaḥ sarvatejomayo hi saḥ 27 pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam ahaṃkāraprasūtāni mahābhūtāni bhārata 28 mahābhūtāni sṛṣṭvātha tad guṇān nirmame punaḥ bhūtebhyaś caiva niṣpannā mūrtimanto 'statāñ śṛṇu 29 marīcir aṅgirāś cātriḥ pulastyaḥ pulahaḥ kratuḥ vasiṣṭhaś ca mahātmā vai manuḥ svāyambhuvas tathā jñeyāḥ prakṛtayo 'stau tā yāsu lokāḥ pratiṣṭhitāḥ 30 vedān vedāṅgasaṃyuktān yajñān yajñāṅgasaṃyutān nirmame lokasiddhyarthaṃ brahmā lokapitāmahaḥ astābhyaḥ prakṛtibhyaś ca jātaṃ viśvam idaṃ jagat 31 rudro roṣātmako jāto daśānyān so 'sṛjat svayam ekādaśaite rudrās tu vikārāḥ puruṣāḥ smṛtāḥ 32 te rudrāḥ prakṛtiś caiva sarve caiva surarṣayaḥ utpannā lokasiddhyarthaṃ brahmāṇaṃ samupasthitāḥ 33 vayaṃ hi sṛṣṭā bhagavaṃs tvayā vai prabhaviṣṇunā yena yasminn adhīkāre vartitavyaṃ pitāmaha 34 yo 'sau tvayā vinirdiṣṭo adhikāro 'rthacintakaḥ paripālyaḥ kathaṃ tena so 'dhikāro 'dhikāriṇā 35 pradiśasva balaṃ tasya yo 'dhikārārtha cintakaḥ evam ukto mahādevo devāṃs tān idam abravīt 36 sādhv ahaṃ jñāpito devā yuṣmābhir bhadram astu vaḥ mamāpy eṣā samutpannā cintā yā bhavatāṃ matā 37 lokatantrasya kṛtsnasya kathaṃ kāryaḥ parigrahaḥ kathaṃ balakṣayo na syād yuṣmākaṃ hy ātmanaś ca me 38 itaḥ sarve 'pi gacchāmaḥ śaraṇaṃ lokasākṣiṇam mahāpuruṣam avyaktaṃ sa no vakṣyati yad dhitam 39 tatas te brahmaṇā sārdham ṛṣayo vibudhās tathā kṣīrodasyottaraṃ kūlaṃ jagmur lokahitārthinaḥ 40 te tapaḥ samupātiṣṭhan brahmoktaṃ veda kalpitam sa mahāniyamo nāma tapaścaryā sudāruṇā 41 ūrdhvaṃ dṛṣṭir bāhavaś ca ekāgraṃ ca mano 'bhavat ekapādasthitāḥ samyak kāṣṭha bhūtāḥ samāhitāḥ 42 divyaṃ varṣasahasraṃ te tapas taptvā tad uttamam śuśruvur madhurāṃ vānīṃ vedavedāṅgabhūṣitām 43 bho bhoḥ sabrahmakā devā ṛṣayaś ca tapodhanāḥ svāgatenārcya vaḥ sarvāñ śrāvaye vākyam uttamam 44 vijñātaṃ vo mayā kāryaṃ tac ca lokahitaṃ mahat pravṛtti yuktaṃ kartavyaṃ yuṣmat prāṇopabṛṃhaṇam 45 sutaptaṃ vas tapo devā mamārādhana kāmyayā bhokṣyathāsya mahāsattvās tapasaḥ phalam uttamam 46 eṣa brahmā lokaguruḥ sarvalokapitāmahaḥ yūyaṃ ca vibudhaśreṣṭhā māṃ yajadhvaṃ samāhitaḥ 47 sarve bhāgān kalpayadhvaṃ yajñeṣu mama nityaśaḥ tathā śreyo vidhāsyāmi yathādhīkāram īśvarāḥ 48 śrutvaitad devadevasya vākyaṃ hṛṣṭatanū ruhāḥ tatas te vibudhāḥ sarve brahmā te ca maharṣayaḥ 49 veda dṛṣṭena vidhinā vaiṣnavaṃ kratum āharan tasmin sattre tadā brahmā svayaṃ bhāgam akalpayat devā devarṣayaś caiva sarve bhāgān akalpayan 50 te kāryayugadharmāṇo bhāgāḥ paramasatkṛtāḥ prāpur ādityavarṇaṃ taṃ puruṣaṃ tamasaḥ param bṛhantaṃ sarvagaṃ devam īśānaṃ varadaṃ prabhum 51 tato 'tha varado devas tān sarvān amarān sthitān aśarīro babhāsedaṃ vākyaṃ khastho maheśvaraḥ 52 yena yaḥ kalpito bhāgaḥ sa tathā samupāgataḥ prīto 'haṃ pradiśāmy adya phalam āvṛtti lakṣaṇam 53 etad vo lakṣaṇaṃ devā matprasāda samudbhavam yūyaṃ yajñair ijyamānāḥ samāptavaradakṣiṇaiḥ yuge yuge bhaviṣyadhvaṃ pravṛtti phalabhoginaḥ 54 yajñair ye cāpi yakṣyanti sarvalokeṣu vai surāḥ kalpayiṣyanti vo bhāgāṃs te narā veda kalpitān 55 yo me yathākalpitavān bhāgam asmin mahākratau sa tathā yajñabhāgārho veda sūtre mayā kṛtaḥ 56 yūyaṃ lokān dhārayadhvaṃ yajñabhāgaphaloditāḥ sarvārthacintakā loke yathādhīkāra nirmitāḥ 57 yāḥ kriyāḥ pracariṣyanti pravṛtti phalasatkṛtāḥ tābhir āpyāyita balā lokān vai dhārayiṣyatha 58 yūyaṃ hi bhāvitā loke sarvayajñeṣu mānavaiḥ māṃ tato bhāvayiṣyadhvam eṣā vo bhāvanā mama 59 ity arthaṃ nirmitā vedā yajñāś cauṣadhibhiḥ saha ebhiḥ samyak prayuktair hi prīyante devatāḥ kṣitau 60 nirmānam etad yuṣmākaṃ pravṛtti guṇakalpitam mayā kṛtaṃ suraśreṣṭhā yāvat kalpakṣayād iti cintayadhvaṃ lokahitaṃ yathādhīkāram īśvarāḥ 61 marīcir aṅgirāc cātriḥ pulastyaḥ pulahaḥ kratuḥ vasiṣṭha iti saptaite mānasā nirmitā hi vai 62 ete vedavido mukhyā vedācāryāś ca kalpitāḥ pravṛtti dharmiṇaś caiva prājāpatyena kalpitāḥ 63 ayaṃ kriyāvatāṃ panthā vyaktī bhūtaḥ sanātanaḥ aniruddha iti prokto lokasarga karaḥ prabhuḥ 64 sanaḥ sanatsujātaś ca sanakaḥ sasanandanaḥ sanatkumāraḥ kapilaḥ saptamaś ca sanātanaḥ 65 saptaite mānasāḥ proktā ṛṣayo brahmaṇaḥ sutāḥ svayam āgatavijñānā nivṛttaṃ dharmam āsthitāḥ 66 ete yogavido mukhyāḥ sāṃkhyadharmavidas tathā ācāryā mokṣaśāstre ca mokṣadharmapravartakāḥ 67 yato 'haṃ prasṛtaḥ pūrvam avyaktāt triguṇo mahān tasmāt parataro yo 'sau kṣetrajña iti kalpitaḥ so 'haṃ kriyāvatāṃ panthāḥ punar āvṛtti durlabhaḥ 68 yo yathā nirmito jantur yasmin yasmiṃś ca karmaṇi pravṛttau vā nivṛttau vā tat phalaṃ so 'śnute 'vaśaḥ 69 eṣa lokagurur brahmā jagad ādi karaḥ prabhuḥ eṣa mātā pitā caiva yuṣmākaṃ ca pitāmahaḥ mayānuśiṣṭo bhavitā sarvabhūtavarapradaḥ 70 asya caivānujo rudro lalātād yaḥ samutthitaḥ brahmānuśiṣṭo bhavitā sarvatra savara pradaḥ 71 gacchadhvaṃ svān adhīkārāṃś cintayadhvaṃ yathāvidhi pravartantāṃ kriyāḥ sarvāḥ sarvalokeṣu māciram 72 pradṛśyantāṃ ca karmāṇi prānināṃ gatayas tathā parinirmita kālāni āyūṃsi ca surottamāḥ 73 idaṃ kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate ahiṃsyā yajñapaśavo yuge 'smin naitad anyathā caturpāt sakalo dharmo bhaviṣyaty atra vai surāḥ 74 tatas tretāyugaṃ nāma trayī yatra bhaviṣyati prokṣitā yatra paśavo vadhaṃ prāpsyanti vai makhe tatra pādacaturtho vai dharmasya na bhaviṣyati 75 tato vai dvāparaṃ nāma miśraḥ kālo bhaviṣyati dvipādahīno dharmaś ca yuge tasmin bhaviṣyati 76 tatas tiṣye 'tha saṃprāpte yuge kalipuraskṛte ekapādasthito dharmo yatra tatra bhaviṣyati 77 [devāh] ekapādasthite dharme yatra kva cana gāmini kathaṃ kartavyam asmābhir bhavagaṃs tad vadasva naḥ 78 [ṣrībhagavān] yatra vedāś ca yajñāś ca tapaḥ satyaṃ damas tathā ahiṃsā dharmasaṃyuktāḥ pracareyuḥ surottamāḥ sa vai deśaḥ sevitavyo mā vo 'dharmaḥ padā spṛśet 79 [vyāsa] te 'nuśiṣṭā bhagavatā devāḥ sarṣigaṇās tathā namaskṛtvā bhagavate jagmur deśān yathepsitān 80 gateṣu tridivaukaḥ subrahmaikaḥ paryavasthitaḥ didṛkṣur bhagavantaṃ tam aniruddha tanau sthitam 81 taṃ devo darśayām āsa kṛtvā hayaśiro mahat sāṅgān āvartayan vedān kamandalu gaṇitra dhṛk 82 tato 'śvaśirasaṃ dṛṣṭvā taṃ devam amitaujasam lokakartā prabhur brahmā lokānāṃ hitakāmyayā 83 mūrdhnā pranamya varadaṃ tastau prāñjalir agrataḥ sa pariṣvajya devena vacanaṃ śrāvitas tadā 84 lokakāryagatīḥ sarvās tvaṃ cintaya yathāvidhi dhātā tvaṃ sarvabhūtānāṃ tvaṃ prabhur jagato guruḥ tvayy āveśitabhāro 'haṃ dhṛtiṃ prāpsyāmy athāñjasā 85 yadā ca surakāryaṃ te aviṣahyaṃ bhaviṣyati prādurbhāvaṃ gamiṣyāmi tadātma jñānadeśikaḥ 86 evam uktvā hayaśirās tatraivāntaradhīyata tenānuśiṣṭo brahmāpi svaṃ lokam acirād gataḥ 87 evam eṣa mahābhāgaḥ padmanābhaḥ sanātanaḥ yajñeṣv agraharaḥ prokto yajñadhārī ca nityadā 88 nivṛttiṃ cāsthito dharmaṃ gatim akṣaya dharmiṇām pravṛtti dharmān vidadhe kṛtvā lokasya citratām 89 sādiḥ sa madhyaḥ sa cāntaḥ prajānāṃ; sa dhātā sa dheyaḥ sa kartā sa kāryam yugānte sa suptaḥ susaṃkṣipya lokān; yugādau prabuddho jagad dhyutsasarja 90 tasmai namadhvaṃ devāya nirguṇāya guṇātmane ajāya viśvarūpāya dhāmne sarvadivaukasām 91 mahābhūtādhipataye rudrāṇāṃ pataye tathā ādityapataye caiva vasūnāṃ pataye tathā 92 aśvibhyāṃ pataye caiva marutāṃ pataye tathā veda yajñādhipataye vedāṅgapataye 'pi ca 93 samudravāsine nityaṃ haraye muñja keśine śāntaye sarvabhūtānāṃ mokṣadharmānubhāsine 94 tapasāṃ tejasāṃ caiva pataye yaśaso 'pi ca vācaś ca pataye nityaṃ saritāṃ pataye tathā 95 kapardine varāhāya ekaśṛṅgāya dhīmate vivasvate 'śvaśirase caturmūrti dhṛte sadā 96 guhyāya jñānadṛśyāya akṣarāya kṣarāya ca eṣa devaḥ saṃcarati sarvatragatir avyayaḥ 97 evam etat purā dṛṣṭaṃ mayā vai jñānacakṣuṣā kathitaṃ tac ca vaḥ sarvaṃ mayā pṛṣṭena tattvataḥ 98 kriyatāṃ madvacaḥ śiṣyāḥ sevyatāṃ harir īśvaraḥ gīyatāṃ veda śabdaiś ca pūjyatāṃ ca yathāvidhi 99 [vaiṣampāyana] ity uktās tu vayaṃ tena veda vyāsena dhīmatā sarve śiṣyāḥ sutaś cāsya śukaḥ paramadharmavit 100 sa cāsmākam upādhyāyaḥ sahāsmābhir viśāṃ pate caturvedodgatābhiś ca ṛgbhis tam abhituṣṭuve 101 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi evaṃ me 'kathayad rājan purā dvaipāyano guruḥ 102 yaś cedaṃ śṛṇuyān nityaṃ yaś cedaṃ parikīrtayet namo bhagavate kṛtvā samāhita manā naraḥ 103 bhavaty arogo dyutimān balarūpasamanvitaḥ āturo mucyate rogād baddhomucyeta bandhanāt 104 kāmakāmī labhet kāmaṃ dīrgham āyur avāpnuyāt brāhmaṇaḥ sarvavedī syāt kṣatriyo vijayī bhavet vaiśyo vipulalābhaḥ syāc chūdraḥ sukham avāpnuyāt 105 aputro labhate putraṃ kanyā caivepsitaṃ patim lagna garbhā vimucyeta garbhiṇī janayet sutam vandhyā prasavam āpnoti putrapautra samṛddhimat 106 kṣemeṇa gacched adhvānam idaṃ yaḥ pathate pathi yo yaṃ kāmaṃ kāmayate sa tam āpnoti ca dhruvam 107 idaṃ maharṣer vacanaṃ viniścitaṃ; mahātmanaḥ puruṣavarasya kīrtanam samāgamaṃ carṣidivaukasām imaṃ; niśamya bhaktāḥ susukhaṃ labhante |