1
[भीस्म] एवं सतुतः स भगवान गुह्यैस तद्यैश च नामभिः तं मुनिं थर्शयाम आस नारथं विश्वरूपधृक 2 किं चिच चन्थ्र विशुथ्धात्मा किं चिच चन्थ्राथ विशेषवान कृशानु वर्णः किं चिच च किं चिथ धिष्न्याकृतिः परभुः 3 शुकपत्रवर्णः किं चिच च किं चित सफतिक सप्रभः नीलाञ्जनचय परख्यॊ जातरूपप्रभः कव चित 4 परवालाङ्कुर वर्णश च शवेतवर्णः कव चिथ बभौ कव चित सुवर्णवर्णाभॊ वैथूर्यसथृशः कव चित 5 नीलवैथूर्य सथृश इन्थ्रनीलनिभः कव चित मयूरग्रीव वर्णाभॊ मुक्ताहार निभः कव चित 6 एतान वर्णान बहुविधान रूपे बिभ्रत सनातनः सहस्रनयनः शरीमाञ शतशीर्षः सहस्रपात 7 सहस्रॊथर बाहुश च अव्यक्त इति च कव चित ओंकारम उथ्गिरन वक्त्रात सावित्रीं च तथ अन्वयाम 8 शेषेभ्यश चैव वक्त्रेभ्यश चतुर्वेथॊथ्गतं वसु आरण्यकं जगौ थेवॊ हरिर नारायणॊ वशी 9 वेथीं कमन्थलुं थर्भान मनि रूपान अदॊपलान अजिनं थन्थ काष्ठं च जवलितं च हुताशनम धारयाम आस थेवेशॊ हस्तैर यज्ञपतिस तथा 10 तं परसन्नं परसन्नात्मा नारथॊ थविजसत्तमः वाग्यतः परयतॊ भूत्वा ववन्थे परमेश्वरम तम उवाच नतं मूर्ध्ना थेवानाम आथिर अव्ययः 11 एकतश च थवितश चैव तरितश चैव महर्षयः इमं थेशम अनुप्राप्ता मम थर्शनलालसाः 12 न च मां ते थथृशिरे न च थरक्ष्यति कश चन ऋते हय एकान्तिक शरेष्ठात तवं चैवैकान्तिकॊ मतः 13 ममैतास तनवः शरेष्ठा जाता धर्मगृहे थविज तास तवं भजस्व सततं साधयस्व यदागतम 14 वृणीष्व च वरं विप्र मत्तस तवं यम इहेच्छसि परसन्नॊ ऽहं तवाथ्येह विश्वमूर्तिर इहाव्ययः 15 [नारथ] अथ्य मे तपसॊ थेव यमस्य नियमस्य च सथ्यः फलम अवाप्तं वै थृष्टॊ यथ भगवान मया 16 वर एष ममात्यन्तं थृष्टस तवं यत सनातनः भगवान विश्वथृक सिंहः सर्वमूर्तिर महाप्रभुः 17 [भीस्म] एवं संथर्शयित्वा तु नारथं परमेष्ठिजम उवाच वचनं भूयॊ गच्छ नारथ माचिरम 18 इमे हय अनिन्थ्रियाहारा मथ्भक्ताश चन्थ्र वर्चसः एकाग्राश चिन्तयेयुर मां नैषां विघ्नॊ भवेथ इति 19 सिथ्धाश चैते महाभागाः पुरा हय एकान्तिनॊ ऽभवन तमॊ रजॊ विनिर्मुक्ता मां परवेक्ष्यन्त्य असंशयम 20 न थृश्यश चक्षुषा यॊ ऽसौ न सपृश्यः सपर्शनेन च न घरेयश चैव गन्धेन रसेन च विवर्जितः 21 सत्त्वं रजस तमश चैव न गुणास तं भजन्ति वै यश च सर्वगतः साक्षी लॊकस्यात्मेति कद्यते 22 भूतग्राम शरीरेषु नश्यत्सु न विनश्यति अजॊ नित्यः शाश्वतश च निर्गुणॊ निष्कलस तदा 23 थविर थवाथशेभ्यस तत्त्वेभ्यः खयातॊ यः पञ्चविंशकः पुरुषॊ निष्क्रियश चैव जञानथृश्यश च कद्यते 24 यं परविश्य भवन्तीह मुक्ता वै थविजसत्तम स वासुथेवॊ विज्ञेयः परमात्मा सनातनः 25 पश्य थेवस्य माहात्म्यं महिमानं च नारथ शुभाशुभैः कर्मभिर यॊ न लिप्यति कथा चन 26 सत्त्वं रजस तमश चैव गुणान एतान परचक्षते एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च 27 एतान गुणांस तु कषेत्रज्ञॊ भुङ्क्ते नैभिः स भुज्यते निर्गुणॊ गुणभुक चैव गुणस्रष्टा गुणाधिकः 28 जगत परतिष्ठा थेवर्षे पृदिव्य अप्सु परलीयते जयॊतिष्य आपः परलीयन्ते जयॊतिर वायौ परलीयते 29 खे वायुः परलयं याति मनस्य आकाशम एव च मनॊ हि परमं भूतं तथ अव्यक्ते परलीयते 30 अव्यक्तं पुरुषे बरह्मन निष्क्रिये संप्रलीयते नास्ति तस्मात परतरं पुरुषाथ वै सनातनात 31 नित्यं हि नास्ति जगति भूतं सदावरजङ्गमम ऋते तम एकं पुरुषं वासुथेवं सनातनम सर्वभूतात्मभूतॊ हि वासुथेवॊ महाबलः 32 पृदिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम ते समेता महात्मानः शरीरम इति संज्ञितम 33 तथ आविशति यॊ बरह्मन्न अथृश्यॊ लघुविक्रमः उत्पन्न एव भवति शरीरं चेष्टयन परभुः 34 न विना धातुसंघातं शरीरं भवति कव चित न च जीवं विना बरह्मन धातवश चेष्टयन्त्य उत 35 स जीवः परिसंख्यातः शेषः संकर्षणः परभुः तस्मात सनत्कुमारत्वं यॊ लभेत सवकर्मणा 36 यस्मिंश च सर्वभूतानि परलयं यान्ति संक्षये स मनः सर्वभूतानां परथ्युम्नः परिपद्यते 37 तस्मात परसूतॊ यः कर्ता कार्यं कारणम एव च यस्मात सर्वं परभवति जगत सदावरजङ्गमम सॊ ऽनिरुथ्धः स ईशानॊ वयक्तिः सा सर्वकर्मसु 38 यॊ वासुथेवॊ भगवान कषेत्रज्ञॊ निर्गुणात्मकः जञेयः स एव भगवाञ जीवः संकर्षणः परभुः 39 संकर्षणाच च परथ्युम्नॊ मनॊ भूतः स उच्यते परथ्युम्नाथ यॊ ऽनिरुथ्धस तु सॊ ऽहंकारॊ महेश्वरः 40 मत्तः सर्वं संभवति जगत सदावरजङ्गमम अक्षरं च कषरं चैव सच चासच चैव नारथ 41 मां परविश्य भवन्तीह मुक्ता भक्तास तु ये मम अहं हि पुरुषॊ जञेयॊ निष्क्रियः पञ्चविंशकः 42 निर्गुणॊ निष्कलश चैव निर्थ्वन्थ्वॊ निष्परिग्रहः एतत तवया न विज्ञेयं रूपवान इति थृश्यते इच्छन मुहूर्तान नश्येयम ईशॊ ऽहं जगतॊ गुरुः 43 माया हय एषा मया सृष्टा यन मां पश्यसि नारथ सर्वभूतगुणैर युक्तं नैवं तवं जञातुम अर्हसि मयैतत कदितं सम्यक तव मूर्ति चतुष्टयम 44 सिथ्धा हय एते महाभागा नरा हय एकान्तिनॊ ऽभवन तमॊ रजॊ भयां निर्मुक्ताः परवेक्ष्यन्ति च मां मुने 45 अहं कर्ता च कार्यं च कारणं चापि नारथ अहं हि जीव संज्ञॊ वै मयि जीवः समाहितः मैवं ते बुथ्धिर अत्राभूथ थृष्टॊ जीवॊ मयेति च 46 अहं सर्वत्रगॊ बरह्मन भूतग्रामान्तर आत्मकः भूतग्राम शरीरेषु नश्यत्सु न नशाम्य अहम 47 हिरण्यगर्भॊ लॊकाथिश चतुर्वक्त्रॊ निरुक्तगः बरह्मा सनातनॊ थेवॊ मम बह्व अर्दचिन्तकः 48 पश्यैकाथश मे रुथ्रान थक्षिणं पार्श्वम आस्दितान थवाथशैव तदाथित्यान वामं पार्श्वं समास्दितान 49 अग्रतश चैव मे पश्य वसून अस्तौ सुरॊत्तमान नासत्यं चैव थस्रं च भिषजौ पश्य पृष्ठतः 50 सर्वान परजापतीन पश्य पश्य सप्त ऋषीन अपि वेथान यज्ञांश च शतशः पश्यामृतम अदौषधीः 51 तपांसि नियमांश चैव यमान अपि पृदग्विधान तदास्त गुणम ऐश्वर्यम एकस्दं पश्य मूर्तिमत 52 शरियं लक्ष्मीं च कीर्तिं च पृदिवीं च ककुथ्मिनीम वेथानां मातरं पश्य मत सदां थेवीं सरस्वतीम 53 धरुवं च जयॊतिषां शरेष्ठं पश्य नारथ खेचरम अम्भॊ धरान समुथ्रांश च सरांसि सरितस तदा 54 मूर्तिमन्तः पितृगणांश चतुरः पश्य सत्तम तरींश चैवेमान गुणान पश्य मत्स्दान मूर्ति विवर्जितान 55 थेवकार्याथ अपि मुने पितृकार्यं विशिष्यते थेवानां च पितॄणां च पिता हय एकॊ ऽहम आथितः 56 अहं हयशिरॊ भूत्वा समुथ्रे पश्चिमॊत्तरे पिबामि सुहुतं हव्यं कव्यं च शरथ्धयान्वितम 57 मया सृष्टः पुरा बरह्मा मथ यज्ञम अयजत सवयम ततस तस्मै वरान परीतॊ थथाव अहम अनुत्तमान 58 मत पुत्रत्वं च कल्पाथौ लॊकाध्यक्षत्वम एव च अहंकारकृतं चैव नाम पर्याय वाचकम 59 तवया कृतां च मर्याथां नातिक्राम्यति कश चन तवं चैव वरथॊ बरह्मन वरेप्सूनां भविष्यसि 60 सुरासुरगणानां च ऋषीणां च तपॊधन पितॄणां च महाभाग सततं संशितव्रत विविधानां च भूतानां तवम उपास्यॊ भविष्यसि 61 पराथुर्भावगतश चाहं सुरकार्येषु नित्यथा अनुशास्यस तवया बरह्मण्णियॊज्यश च सुतॊ यदा 62 एतांश चान्यांश च रुचिरान बरह्मणे ऽमिततेजसे अहं थत्त्वा वरान परीतॊ निवृत्ति परमॊ ऽभवम 63 निर्वानं सर्वधर्माणां निवृत्तिः परमा समृता तस्मान निवृत्तिम आपन्नश चरेत सर्वाङ्गनिर्वृतः 64 विथ्या सहायवन्तं माम आथित्यस्दं सनातनम कपिलं पराहुर आचार्याः सांख्यनिश्चित निश्चयाः 65 हिरण्यगर्भॊ भगवान एष छन्थसि सुष्टुतः सॊ ऽहं यॊगगतिर बरह्मन यॊगशास्त्रेषु शब्थितः 66 एषॊ ऽहं वयक्तिम आगम्य तिष्ठामि थिवि शाश्वतः ततॊ युगसहस्रान्ते संहरिष्ये जगत पुनः कृत्वात्म सदानि भूतानि सदावराणि चराणि च 67 एकाकी विथ्यया सार्धं विहरिष्ये थविजॊत्तम ततॊ भूयॊ जगत सर्वं करिष्यामीह विथ्यया 68 अस्मन मूर्तिश चतुर्दी या सासृजच छेषम अव्ययम स हि संकर्षणः परॊक्तः परथ्युम्नं सॊ ऽपय अजीजनत 69 परथ्युम्नाथ अनिरुथ्धॊ ऽहं सर्गॊ मम पुनः पुनः अनिरुथ्धात तदा बरह्मा तत्राथि कमलॊथ्भवः 70 बरह्मणः सर्वभूतानि चराणि सदावराणि च एतां सृष्टिं विजानीहि कल्पाथिषु पुनः पुनः 71 यदा सूर्यस्य गगनाथ उथयास्त मयाव इह नस्तौ पुनर बलात काल आनयत्य अमितथ्युतिः तदा बलाथ अहं पृद्वीं सर्वभूतहिताय वै 72 सत्त्वैर आक्रान्त सर्वाङ्गां नस्तां सागरमेखलाम आनयिष्यामि सवं सदानं वाराहं रूपम आस्दितः 73 हिरण्याक्षं हनिष्यामि थैतेयं बलगर्वितम नारसिंहं वपुः कृत्वा हिरण्यकशिपुं पुनः सुरकार्ये हनिष्यामि यज्ञघ्नं थितिनन्थनम 74 विरॊचनस्य बलवान बलिः पुत्रॊ महासुरः भविष्यति स शक्रं च सवराज्याच चयावयिष्यति 75 तरैलॊक्ये ऽपहृते तेन विमुखे च शचीपतौ अथित्यां थवाथशः पुत्रः संभविष्यामि कश्यपात 76 ततॊ राज्यं परथास्यामि शक्रायामित तेजसे थेवताः सदापयिष्यामि सवेषु सदानेषु नारथ बलिं चैव करिष्यामि पातालतलवासिनम 77 तरेतायुगे भविष्यामि रामॊ भृगुकुलॊथ्वहः कषत्रं चॊत्साथयिष्यामि समृथ्धबलवाहनम 78 संधौ तु समनुप्राप्ते तरेतायां थवापरस्य च रामॊ थाशरदिर भूत्वा भविष्यामि जगत्पतिः 79 तरितॊपघाताथ वैरूप्यम एकतॊ ऽद थवितस तदा पराप्स्यतॊ वारणत्वं हि परजापतिसुताव ऋषी 80 तयॊर ये तव अन्वये जाता भविष्यन्ति वनौकसः ते सहाया भविष्यन्ति सुरकार्ये मम थविज 81 ततॊ रक्षःपतिं घॊरं पुलस्त्य कुलपांसनम हनिष्ये रावणं संख्ये सगणं लॊककन्तकम 82 थवापरस्य कलेश चैव संधौ पर्यवसानिके पराथुर्भावः कंस हेतॊर मदुरायां भविष्यति 83 तत्राहं थानवान हत्वा सुबहून थेवकन्तकान कुशस्दलीं करिष्यामि निवासं थवारकां पुरीम 84 वसानस तत्र वै पुर्याम अथितेर विप्रियं करम हनिष्ये नरकं भौमं मुरं पीदं च थानवम 85 पराग्ज्यॊतिष पुरं रम्यं नाना धनसमन्वितम कुशस्दलीं नयिष्यामि हत्वा वै थानवॊत्तमान 86 शंकरं च महासेनं बान परियहितैषिणम पराजेष्याम्य अदॊथ्युक्तौ थेवलॊकनमस्कृतौ 87 ततः सुतं बलेर जित्वा बानं बाहुसहस्रिणम विनाशयिष्यामि ततः सर्वान सौभनिवासिनः 88 यः कालयवनः खयातॊ गर्ग तेजॊ ऽभिसंवृतः भविष्यति वधस तस्य मत्त एव थविजॊत्तम 89 जरासंधश च बलवान सर्वराजविरॊधकः भविष्यत्य असुरः सफीतॊ भूमिपालॊ गिरिव्रजे मम बुथ्धिपरिस्पन्थाथ वधस तस्य भविष्यति 90 समागतेषु बलिषु पृदिव्यां सर्वराजसु वासविः सुसहायॊ वै मम हय एकॊ भविष्यति 91 एवं लॊका वथिष्यन्ति नरनारायणाव ऋषी उथ्युक्तौ थहतः कषत्रं लॊककार्यार्दम ईश्वरौ 92 कृत्वा भावावतरणं वसुधाया यदेप्सितम सर्वसात्वत मुख्यानां थवारकायाश च सत्तम करिष्ये परलयं घॊरम आत्मज्ञाति विनाशनम 93 कर्माण्य अपरिमेयानि चतुर्मूर्ति धरॊ हय अहम कृत्वा लॊकान गमिष्यामि सवान अहं बरह्म सत्कृतान 94 हंसॊ हयशिराश चैव पराथुर्भावा थविजॊत्तम यथा वेथश्रुतिर नस्ता मया परत्याहृता तथा सवेथाः सश्रुतीकाश च कृताः पूर्वं कृते युगे 95 अतिक्रान्ताः पुराणेषु शरुतास ते यथि वा कव चित अतिक्रान्ताश च बहवः पराथुर्भावा ममॊत्तमाः लॊककार्याणि कृत्वा च पुनः सवां परकृतिं गताः 96 न हय एतथ बरह्मणा पराप्तम ईथृशं मम थर्शनम यत तवया पराप्तम अथ्येह एकान्तगतबुथ्धिना 97 एतत ते सर्वम आख्यातं बरह्मन भक्तिमतॊ मया पुराणं च भविष्यं च सरहस्यं च सत्तम 98 एवं स भगवान थेवॊ विश्वमूर्ति धरॊ ऽवययः एतावथ उक्त्वा वचनं तत्रैवान्तरधीयत 99 नारथॊ ऽपि महातेजाः पराप्यानुग्रहम ईप्सितम नरनारायणौ थरष्टुं पराथ्रवथ बथराश्रमम 100 इथं महॊपनिषथं चतुर्वेथ समन्वितम सांख्ययॊगकृतं तेन पञ्चरात्रानुशब्थितम 101 नारायण मुखॊथ्गीतं नारथॊ ऽशरावयत पुनः बरह्मणः सथने तात यदाथृष्टं यदा शरुतम 102 [युधिस्दिर] एतथ आश्चर्यभूतं हि माहात्म्यं तस्य धीमतः किं बरह्मा न विजानीते यतः शुश्राव नारथात 103 पितामहॊ हि भगवांस तस्माथ थेवाथ अनन्तरः कदं स न विजानीयात परभावम अमितौजसः 104 [भीस्म] महाकल्पसहस्राणि महाकल्पशतानि च समतीतानि राजेन्थ्र सर्गाश च परलयाश च ह 105 सर्गस्याथौ समृतॊ बरह्मा परजा सर्ग करः परभुः जानाति थेवप्रवरं भूयश चातॊ ऽधिकं नृप परमात्मानम ईशानम आत्मनः परभवं तदा 106 ये तव अन्ये बरह्म सथने सिथ्धसंघाः समागताः तेभ्यस तच छरावयाम आस पुराणं वेथ संमितम 107 तेषां सकाशात सूर्यश च शरुत्वा वै भावितात्मनाम आत्मानुगामिनां बरह्म शरावयाम आस भारत 108 षट षष्टिर हि सहस्राणि ऋषीणां भावितात्मनाम सूर्यस्य तपतॊ लॊकान निर्मिता ये पुरःसराः तेषाम अकदयत सूर्यः सर्वेषां भावितात्मनाम 109 सूर्यानुगामिभिस तात ऋषिभिस तैर महात्मभिः मेरौ समागता थेवाः शराविताश चेथम उत्तमम 110 थेवानां तु सकाशाथ वै ततः शरुत्वासितॊ थविजः शरावयाम आस राजेन्थ्र पितॄणां मुनिसत्तमः 111 मम चापि पिता तात कदयाम आस शंतनुः ततॊ मयैतच छरुत्वा च कीर्तितं तव भारत 112 सुरैर वा मुनिभिर वापि पुराणं यैर इथं शरुतम सर्वे ते परमात्मानं पूजयन्ति पुनः पुनः 113 इथम आख्यानम आर्षेयं पारम्पर्यागतं नृप नावासुथेव भक्ताय तवया थेयं कदं चन 114 मत्तॊ ऽनयानि च ते राजन्न उपाख्यान शतानि वै यानि शरुतानि धर्म्याणि तेषां सारॊ ऽयम उथ्धृतः 115 सुरासुरैर यदा राजन निर्मद्यामृतम उथ्धृतम एवम एतत पुरा विप्रैः कदामृतम इहॊथ्धृतम 116 यश चेथं पदते नित्यं यश चेथं शृणुयान नरः एकान्तभावॊपगत एकान्ते सुसमाहितः 117 पराप्य शवेतं महाथ्वीपं भूत्वा चन्थ्रप्रभॊ नरः स सहस्रार्चिषं थेवं परविशेन नात्र संशयः 118 मुच्येतार्तस तदा रॊगाच छरुत्वेमाम आथितः कदाम जिज्ञासुर लभते कामान भक्तॊ भक्त गतिं वरजेत 119 तवयापि सततं राजन्न अभ्यर्च्यः पुरुषॊत्तमः स हि माता पिता चैव कृत्स्नस्य जगतॊ गुरुः 120 बरह्मण्य थेवॊ भगवान परीयतां ते सनातनः युधिष्ठिर महाबाहॊ महाबाहुर जनार्थनः 121 [वैषम्पायन] शरुत्वैतथ आख्यान वरं धर्मराज जनमेजय भरातरश चास्य ते सर्वे नारायण पराभवन 122 जितं भगवता तेन पुरुषेणेति भारत नित्यं जप्यपरा भूत्वा सरस्वतीम उथीरयन 123 यॊ हय अस्माकं गुरुः शरेष्ठः कृष्ण थवैपयनॊ मुनिः स जगौ परमं जप्यं नारायणम उथीरयन 124 गत्वान्तरिक्षात सततं कषीरॊथम अमृताशयम पूजयित्वा च थेवेशं पुनर आयात सवम आश्रमम |
1
[bhīsma] evaṃ stutaḥ sa bhagavān guhyais tathyaiś ca nāmabhiḥ taṃ muniṃ darśayām āsa nāradaṃ viśvarūpadhṛk 2 kiṃ cic candra viśuddhātmā kiṃ cic candrād viśeṣavān kṛśānu varṇaḥ kiṃ cic ca kiṃ cid dhiṣnyākṛtiḥ prabhuḥ 3 śukapatravarṇaḥ kiṃ cic ca kiṃ cit sphatika saprabhaḥ nīlāñjanacaya prakhyo jātarūpaprabhaḥ kva cit 4 pravālāṅkura varṇaś ca śvetavarṇaḥ kva cid babhau kva cit suvarṇavarṇābho vaidūryasadṛśaḥ kva cit 5 nīlavaidūrya sadṛśa indranīlanibhaḥ kva cit mayūragrīva varṇābho muktāhāra nibhaḥ kva cit 6 etān varṇān bahuvidhān rūpe bibhrat sanātanaḥ sahasranayanaḥ śrīmāñ śataśīrṣaḥ sahasrapāt 7 sahasrodara bāhuś ca avyakta iti ca kva cit oṃkāram udgiran vaktrāt sāvitrīṃ ca tad anvayām 8 śeṣebhyaś caiva vaktrebhyaś caturvedodgataṃ vasu āraṇyakaṃ jagau devo harir nārāyaṇo vaśī 9 vedīṃ kamandaluṃ darbhān mani rūpān athopalān ajinaṃ danda kāṣṭhaṃ ca jvalitaṃ ca hutāśanam dhārayām āsa deveśo hastair yajñapatis tadā 10 taṃ prasannaṃ prasannātmā nārado dvijasattamaḥ vāgyataḥ prayato bhūtvā vavande parameśvaram tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ 11 ekataś ca dvitaś caiva tritaś caiva maharṣayaḥ imaṃ deśam anuprāptā mama darśanalālasāḥ 12 na ca māṃ te dadṛśire na ca drakṣyati kaś cana ṛte hy ekāntika śreṣṭhāt tvaṃ caivaikāntiko mataḥ 13 mamaitās tanavaḥ śreṣṭhā jātā dharmagṛhe dvija tās tvaṃ bhajasva satataṃ sādhayasva yathāgatam 14 vṛṇīṣva ca varaṃ vipra mattas tvaṃ yam ihecchasi prasanno 'haṃ tavādyeha viśvamūrtir ihāvyayaḥ 15 [nārada] adya me tapaso deva yamasya niyamasya ca sadyaḥ phalam avāptaṃ vai dṛṣṭo yad bhagavān mayā 16 vara eṣa mamātyantaṃ dṛṣṭas tvaṃ yat sanātanaḥ bhagavān viśvadṛk siṃhaḥ sarvamūrtir mahāprabhuḥ 17 [bhīsma] evaṃ saṃdarśayitvā tu nāradaṃ parameṣṭhijam uvāca vacanaṃ bhūyo gaccha nārada māciram 18 ime hy anindriyāhārā madbhaktāś candra varcasaḥ ekāgrāś cintayeyur māṃ naiṣāṃ vighno bhaved iti 19 siddhāś caite mahābhāgāḥ purā hy ekāntino 'bhavan tamo rajo vinirmuktā māṃ pravekṣyanty asaṃśayam 20 na dṛśyaś cakṣuṣā yo 'sau na spṛśyaḥ sparśanena ca na ghreyaś caiva gandhena rasena ca vivarjitaḥ 21 sattvaṃ rajas tamaś caiva na guṇās taṃ bhajanti vai yaś ca sarvagataḥ sākṣī lokasyātmeti kathyate 22 bhūtagrāma śarīreṣu naśyatsu na vinaśyati ajo nityaḥ śāśvataś ca nirguṇo niṣkalas tathā 23 dvir dvādaśebhyas tattvebhyaḥ khyāto yaḥ pañcaviṃśakaḥ puruṣo niṣkriyaś caiva jñānadṛśyaś ca kathyate 24 yaṃ praviśya bhavantīha muktā vai dvijasattama sa vāsudevo vijñeyaḥ paramātmā sanātanaḥ 25 paśya devasya māhātmyaṃ mahimānaṃ ca nārada śubhāśubhaiḥ karmabhir yo na lipyati kadā cana 26 sattvaṃ rajas tamaś caiva guṇān etān pracakṣate ete sarvaśarīreṣu tiṣṭhanti vicaranti ca 27 etān guṇāṃs tu kṣetrajño bhuṅkte naibhiḥ sa bhujyate nirguṇo guṇabhuk caiva guṇasraṣṭā guṇādhikaḥ 28 jagat pratiṣṭhā devarṣe pṛthivy apsu pralīyate jyotiṣy āpaḥ pralīyante jyotir vāyau pralīyate 29 khe vāyuḥ pralayaṃ yāti manasy ākāśam eva ca mano hi paramaṃ bhūtaṃ tad avyakte pralīyate 30 avyaktaṃ puruṣe brahman niṣkriye saṃpralīyate nāsti tasmāt parataraṃ puruṣād vai sanātanāt 31 nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam ṛte tam ekaṃ puruṣaṃ vāsudevaṃ sanātanam sarvabhūtātmabhūto hi vāsudevo mahābalaḥ 32 pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam te sametā mahātmānaḥ śarīram iti saṃjñitam 33 tad āviśati yo brahmann adṛśyo laghuvikramaḥ utpanna eva bhavati śarīraṃ ceṣṭayan prabhuḥ 34 na vinā dhātusaṃghātaṃ śarīraṃ bhavati kva cit na ca jīvaṃ vinā brahman dhātavaś ceṣṭayanty uta 35 sa jīvaḥ parisaṃkhyātaḥ śeṣaḥ saṃkarṣaṇaḥ prabhuḥ tasmāt sanatkumāratvaṃ yo labheta svakarmaṇā 36 yasmiṃś ca sarvabhūtāni pralayaṃ yānti saṃkṣaye sa manaḥ sarvabhūtānāṃ pradyumnaḥ paripathyate 37 tasmāt prasūto yaḥ kartā kāryaṃ kāraṇam eva ca yasmāt sarvaṃ prabhavati jagat sthāvarajaṅgamam so 'niruddhaḥ sa īśāno vyaktiḥ sā sarvakarmasu 38 yo vāsudevo bhagavān kṣetrajño nirguṇātmakaḥ jñeyaḥ sa eva bhagavāñ jīvaḥ saṃkarṣaṇaḥ prabhuḥ 39 saṃkarṣaṇāc ca pradyumno mano bhūtaḥ sa ucyate pradyumnād yo 'niruddhas tu so 'haṃkāro maheśvaraḥ 40 mattaḥ sarvaṃ saṃbhavati jagat sthāvarajaṅgamam akṣaraṃ ca kṣaraṃ caiva sac cāsac caiva nārada 41 māṃ praviśya bhavantīha muktā bhaktās tu ye mama ahaṃ hi puruṣo jñeyo niṣkriyaḥ pañcaviṃśakaḥ 42 nirguṇo niṣkalaś caiva nirdvandvo niṣparigrahaḥ etat tvayā na vijñeyaṃ rūpavān iti dṛśyate icchan muhūrtān naśyeyam īśo 'haṃ jagato guruḥ 43 māyā hy eṣā mayā sṛṣṭā yan māṃ paśyasi nārada sarvabhūtaguṇair yuktaṃ naivaṃ tvaṃ jñātum arhasi mayaitat kathitaṃ samyak tava mūrti catuṣṭayam 44 siddhā hy ete mahābhāgā narā hy ekāntino 'bhavan tamo rajo bhyāṃ nirmuktāḥ pravekṣyanti ca māṃ mune 45 ahaṃ kartā ca kāryaṃ ca kāraṇaṃ cāpi nārada ahaṃ hi jīva saṃjño vai mayi jīvaḥ samāhitaḥ maivaṃ te buddhir atrābhūd dṛṣṭo jīvo mayeti ca 46 ahaṃ sarvatrago brahman bhūtagrāmāntar ātmakaḥ bhūtagrāma śarīreṣu naśyatsu na naśāmy aham 47 hiraṇyagarbho lokādiś caturvaktro niruktagaḥ brahmā sanātano devo mama bahv arthacintakaḥ 48 paśyaikādaśa me rudrān dakṣiṇaṃ pārśvam āsthitān dvādaśaiva tathādityān vāmaṃ pārśvaṃ samāsthitān 49 agrataś caiva me paśya vasūn astau surottamān nāsatyaṃ caiva dasraṃ ca bhiṣajau paśya pṛṣṭhataḥ 50 sarvān prajāpatīn paśya paśya sapta ṛṣīn api vedān yajñāṃś ca śataśaḥ paśyāmṛtam athauṣadhīḥ 51 tapāṃsi niyamāṃś caiva yamān api pṛthagvidhān tathāsta guṇam aiśvaryam ekasthaṃ paśya mūrtimat 52 śriyaṃ lakṣmīṃ ca kīrtiṃ ca pṛthivīṃ ca kakudminīm vedānāṃ mātaraṃ paśya mat sthāṃ devīṃ sarasvatīm 53 dhruvaṃ ca jyotiṣāṃ śreṣṭhaṃ paśya nārada khecaram ambho dharān samudrāṃś ca sarāṃsi saritas tathā 54 mūrtimantaḥ pitṛgaṇāṃś caturaḥ paśya sattama trīṃś caivemān guṇān paśya matsthān mūrti vivarjitān 55 devakāryād api mune pitṛkāryaṃ viśiṣyate devānāṃ ca pitṝṇāṃ ca pitā hy eko 'ham āditaḥ 56 ahaṃ hayaśiro bhūtvā samudre paścimottare pibāmi suhutaṃ havyaṃ kavyaṃ ca śraddhayānvitam 57 mayā sṛṣṭaḥ purā brahmā mad yajñam ayajat svayam tatas tasmai varān prīto dadāv aham anuttamān 58 mat putratvaṃ ca kalpādau lokādhyakṣatvam eva ca ahaṃkārakṛtaṃ caiva nāma paryāya vācakam 59 tvayā kṛtāṃ ca maryādāṃ nātikrāmyati kaś cana tvaṃ caiva varado brahman varepsūnāṃ bhaviṣyasi 60 surāsuragaṇānāṃ ca ṛṣīṇāṃ ca tapodhana pitṝṇāṃ ca mahābhāga satataṃ saṃśitavrata vividhānāṃ ca bhūtānāṃ tvam upāsyo bhaviṣyasi 61 prādurbhāvagataś cāhaṃ surakāryeṣu nityadā anuśāsyas tvayā brahmaṇṇiyojyaś ca suto yathā 62 etāṃś cānyāṃś ca rucirān brahmaṇe 'mitatejase ahaṃ dattvā varān prīto nivṛtti paramo 'bhavam 63 nirvānaṃ sarvadharmāṇāṃ nivṛttiḥ paramā smṛtā tasmān nivṛttim āpannaś caret sarvāṅganirvṛtaḥ 64 vidyā sahāyavantaṃ mām ādityasthaṃ sanātanam kapilaṃ prāhur ācāryāḥ sāṃkhyaniścita niścayāḥ 65 hiraṇyagarbho bhagavān eṣa chandasi suṣṭutaḥ so 'haṃ yogagatir brahman yogaśāstreṣu śabditaḥ 66 eṣo 'haṃ vyaktim āgamya tiṣṭhāmi divi śāśvataḥ tato yugasahasrānte saṃhariṣye jagat punaḥ kṛtvātma sthāni bhūtāni sthāvarāṇi carāṇi ca 67 ekākī vidyayā sārdhaṃ vihariṣye dvijottama tato bhūyo jagat sarvaṃ kariṣyāmīha vidyayā 68 asman mūrtiś caturthī yā sāsṛjac cheṣam avyayam sa hi saṃkarṣaṇaḥ proktaḥ pradyumnaṃ so 'py ajījanat 69 pradyumnād aniruddho 'haṃ sargo mama punaḥ punaḥ aniruddhāt tathā brahmā tatrādi kamalodbhavaḥ 70 brahmaṇaḥ sarvabhūtāni carāṇi sthāvarāṇi ca etāṃ sṛṣṭiṃ vijānīhi kalpādiṣu punaḥ punaḥ 71 yathā sūryasya gaganād udayāsta mayāv iha nastau punar balāt kāla ānayaty amitadyutiḥ tathā balād ahaṃ pṛthvīṃ sarvabhūtahitāya vai 72 sattvair ākrānta sarvāṅgāṃ nastāṃ sāgaramekhalām ānayiṣyāmi svaṃ sthānaṃ vārāhaṃ rūpam āsthitaḥ 73 hiraṇyākṣaṃ haniṣyāmi daiteyaṃ balagarvitam nārasiṃhaṃ vapuḥ kṛtvā hiraṇyakaśipuṃ punaḥ surakārye haniṣyāmi yajñaghnaṃ ditinandanam 74 virocanasya balavān baliḥ putro mahāsuraḥ bhaviṣyati sa śakraṃ ca svarājyāc cyāvayiṣyati 75 trailokye 'pahṛte tena vimukhe ca śacīpatau adityāṃ dvādaśaḥ putraḥ saṃbhaviṣyāmi kaśyapāt 76 tato rājyaṃ pradāsyāmi śakrāyāmita tejase devatāḥ sthāpayiṣyāmi sveṣu sthāneṣu nārada baliṃ caiva kariṣyāmi pātālatalavāsinam 77 tretāyuge bhaviṣyāmi rāmo bhṛgukulodvahaḥ kṣatraṃ cotsādayiṣyāmi samṛddhabalavāhanam 78 saṃdhau tu samanuprāpte tretāyāṃ dvāparasya ca rāmo dāśarathir bhūtvā bhaviṣyāmi jagatpatiḥ 79 tritopaghātād vairūpyam ekato 'tha dvitas tathā prāpsyato vāraṇatvaṃ hi prajāpatisutāv ṛṣī 80 tayor ye tv anvaye jātā bhaviṣyanti vanaukasaḥ te sahāyā bhaviṣyanti surakārye mama dvija 81 tato rakṣaḥpatiṃ ghoraṃ pulastya kulapāṃsanam haniṣye rāvaṇaṃ saṃkhye sagaṇaṃ lokakantakam 82 dvāparasya kaleś caiva saṃdhau paryavasānike prādurbhāvaḥ kaṃsa hetor mathurāyāṃ bhaviṣyati 83 tatrāhaṃ dānavān hatvā subahūn devakantakān kuśasthalīṃ kariṣyāmi nivāsaṃ dvārakāṃ purīm 84 vasānas tatra vai puryām aditer vipriyaṃ karam haniṣye narakaṃ bhaumaṃ muraṃ pīthaṃ ca dānavam 85 prāgjyotiṣa puraṃ ramyaṃ nānā dhanasamanvitam kuśasthalīṃ nayiṣyāmi hatvā vai dānavottamān 86 śaṃkaraṃ ca mahāsenaṃ bāna priyahitaiṣiṇam parājeṣyāmy athodyuktau devalokanamaskṛtau 87 tataḥ sutaṃ baler jitvā bānaṃ bāhusahasriṇam vināśayiṣyāmi tataḥ sarvān saubhanivāsinaḥ 88 yaḥ kālayavanaḥ khyāto garga tejo 'bhisaṃvṛtaḥ bhaviṣyati vadhas tasya matta eva dvijottama 89 jarāsaṃdhaś ca balavān sarvarājavirodhakaḥ bhaviṣyaty asuraḥ sphīto bhūmipālo girivraje mama buddhiparispandād vadhas tasya bhaviṣyati 90 samāgateṣu baliṣu pṛthivyāṃ sarvarājasu vāsaviḥ susahāyo vai mama hy eko bhaviṣyati 91 evaṃ lokā vadiṣyanti naranārāyaṇāv ṛṣī udyuktau dahataḥ kṣatraṃ lokakāryārtham īśvarau 92 kṛtvā bhāvāvataraṇaṃ vasudhāyā yathepsitam sarvasātvata mukhyānāṃ dvārakāyāś ca sattama kariṣye pralayaṃ ghoram ātmajñāti vināśanam 93 karmāṇy aparimeyāni caturmūrti dharo hy aham kṛtvā lokān gamiṣyāmi svān ahaṃ brahma satkṛtān 94 haṃso hayaśirāś caiva prādurbhāvā dvijottama yadā vedaśrutir nastā mayā pratyāhṛtā tadā savedāḥ saśrutīkāś ca kṛtāḥ pūrvaṃ kṛte yuge 95 atikrāntāḥ purāṇeṣu śrutās te yadi vā kva cit atikrāntāś ca bahavaḥ prādurbhāvā mamottamāḥ lokakāryāṇi kṛtvā ca punaḥ svāṃ prakṛtiṃ gatāḥ 96 na hy etad brahmaṇā prāptam īdṛśaṃ mama darśanam yat tvayā prāptam adyeha ekāntagatabuddhinā 97 etat te sarvam ākhyātaṃ brahman bhaktimato mayā purāṇaṃ ca bhaviṣyaṃ ca sarahasyaṃ ca sattama 98 evaṃ sa bhagavān devo viśvamūrti dharo 'vyayaḥ etāvad uktvā vacanaṃ tatraivāntaradhīyata 99 nārado 'pi mahātejāḥ prāpyānugraham īpsitam naranārāyaṇau draṣṭuṃ prādravad badarāśramam 100 idaṃ mahopaniṣadaṃ caturveda samanvitam sāṃkhyayogakṛtaṃ tena pañcarātrānuśabditam 101 nārāyaṇa mukhodgītaṃ nārado 'śrāvayat punaḥ brahmaṇaḥ sadane tāta yathādṛṣṭaṃ yathā śrutam 102 [yudhisthira] etad āścaryabhūtaṃ hi māhātmyaṃ tasya dhīmataḥ kiṃ brahmā na vijānīte yataḥ śuśrāva nāradāt 103 pitāmaho hi bhagavāṃs tasmād devād anantaraḥ kathaṃ sa na vijānīyāt prabhāvam amitaujasaḥ 104 [bhīsma] mahākalpasahasrāṇi mahākalpaśatāni ca samatītāni rājendra sargāś ca pralayāś ca ha 105 sargasyādau smṛto brahmā prajā sarga karaḥ prabhuḥ jānāti devapravaraṃ bhūyaś cāto 'dhikaṃ nṛpa paramātmānam īśānam ātmanaḥ prabhavaṃ tathā 106 ye tv anye brahma sadane siddhasaṃghāḥ samāgatāḥ tebhyas tac chrāvayām āsa purāṇaṃ veda saṃmitam 107 teṣāṃ sakāśāt sūryaś ca śrutvā vai bhāvitātmanām ātmānugāmināṃ brahma śrāvayām āsa bhārata 108 ṣaṭ ṣaṣṭir hi sahasrāṇi ṛṣīṇāṃ bhāvitātmanām sūryasya tapato lokān nirmitā ye puraḥsarāḥ teṣām akathayat sūryaḥ sarveṣāṃ bhāvitātmanām 109 sūryānugāmibhis tāta ṛṣibhis tair mahātmabhiḥ merau samāgatā devāḥ śrāvitāś cedam uttamam 110 devānāṃ tu sakāśād vai tataḥ śrutvāsito dvijaḥ śrāvayām āsa rājendra pitṝṇāṃ munisattamaḥ 111 mama cāpi pitā tāta kathayām āsa śaṃtanuḥ tato mayaitac chrutvā ca kīrtitaṃ tava bhārata 112 surair vā munibhir vāpi purāṇaṃ yair idaṃ śrutam sarve te paramātmānaṃ pūjayanti punaḥ punaḥ 113 idam ākhyānam ārṣeyaṃ pāramparyāgataṃ nṛpa nāvāsudeva bhaktāya tvayā deyaṃ kathaṃ cana 114 matto 'nyāni ca te rājann upākhyāna śatāni vai yāni śrutāni dharmyāṇi teṣāṃ sāro 'yam uddhṛtaḥ 115 surāsurair yathā rājan nirmathyāmṛtam uddhṛtam evam etat purā vipraiḥ kathāmṛtam ihoddhṛtam 116 yaś cedaṃ pathate nityaṃ yaś cedaṃ śṛṇuyān naraḥ ekāntabhāvopagata ekānte susamāhitaḥ 117 prāpya śvetaṃ mahādvīpaṃ bhūtvā candraprabho naraḥ sa sahasrārciṣaṃ devaṃ praviśen nātra saṃśayaḥ 118 mucyetārtas tathā rogāc chrutvemām āditaḥ kathām jijñāsur labhate kāmān bhakto bhakta gatiṃ vrajet 119 tvayāpi satataṃ rājann abhyarcyaḥ puruṣottamaḥ sa hi mātā pitā caiva kṛtsnasya jagato guruḥ 120 brahmaṇya devo bhagavān prīyatāṃ te sanātanaḥ yudhiṣṭhira mahābāho mahābāhur janārdanaḥ 121 [vaiṣampāyana] śrutvaitad ākhyāna varaṃ dharmarāj janamejaya bhrātaraś cāsya te sarve nārāyaṇa parābhavan 122 jitaṃ bhagavatā tena puruṣeṇeti bhārata nityaṃ japyaparā bhūtvā sarasvatīm udīrayan 123 yo hy asmākaṃ guruḥ śreṣṭhaḥ kṛṣṇa dvaipayano muniḥ sa jagau paramaṃ japyaṃ nārāyaṇam udīrayan 124 gatvāntarikṣāt satataṃ kṣīrodam amṛtāśayam pūjayitvā ca deveśaṃ punar āyāt svam āśramam |