1
[य] कदं निर्वेथम आपन्नः शुकॊ वैयासकिः पुरा एतथ इच्छामि कौरव्य शरॊतुं कौतूहलं हि मे 2 [भी] पराकृतेन सुवृत्तेन चरन्तम अकुतॊभयम अध्याप्य कृत्स्नं सवाध्यायम अन्वशाथ वै पिता सुतम 3 धर्मं पुत्र निषेवस्व सुतीक्ष्णौ हि हिमातपौ कषुत्पिपासे च वायुं च जय नित्यं जितेन्थ्रियः 4 सत्यम आर्जवम अक्रॊधम अनसूयां थमं तपः अहिंसां चानृशंस्यं च विधिवत परिपालय 5 सत्ये तिष्ठ रतॊ धर्मे हित्वा सर्वम अनार्जवम थेवतातिदिशेषेण यात्रां पराणस्य संश्रय 6 फेनपात्रॊपमे थेहे जीवे शकुनिवत सदिते अनित्ये परिय संवासे कदं सवपिषि पुत्रक 7 अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु अन्तरं लिप्समानेषु बालस तवं नावबुध्यसे 8 गण्यमानेषु वर्षेषु कषीयमाणे तदायुषि जीविते शिष्यमाणे च किम उत्दाय न धावसि 9 ऐहालौकिकम ईहन्ते मांसशॊनितवर्धनम पारलौकिककार्येषु परसुप्ता भृशनास्तिकाः 10 धर्माय ये ऽभयसूयन्ति बुथ्धिमॊहान्विता नराः अपदा गच्छतां तेषाम अनुयातापि पीड्यते 11 ये तु तुष्टाः सुनियताः सत्यागम परायनाः धर्म्यं पन्दानम आरूढास तान उपास्स्व च पृच्छ च 12 उपधार्य मतं तेषां वृथ्धानां धर्मथर्शिनाम नियच्छ परया बुथ्ध्या चित्तम उत्पदगामि वै 13 अथ्य कालिकया बुथ्ध्या थूरे शव इति निर्भयाः सर्वभक्षा न पश्यन्ति कर्मभूमिं विचेतसः 14 धर्मनिःश्रेणिम आस्दाय किं चित किं चित समारुह कॊशकारवथ आत्मानं वेष्टयन नावबुध्यसे 15 नास्तिकं भिन्नमर्याथं कूलपातम इवास्दिरम वामतः कुरु विस्रब्धॊ नरं वेनुम इवॊथ्धतम 16 कामं करॊधं च मृत्युं च पञ्चेन्थ्रिय जलां नथीम नावं धृतिमयीं कृत्वा जन्म थुर्गानि संतर 17 मृत्युनाभ्याहते लॊके जरया परिपीथिते अमॊघासु पतन्तीषु धर्मयानेन संतर 18 तिष्ठन्तं च शयानं च मृत्युर अन्वेषते यथा निर्वृतिं लभसे कस्माथ अकस्मान मृत्युनाशितः 19 संचिन्वानकम एवैनं कामानाम अवितृप्तकम वृकीवॊरणम आसाथ्य मृत्युर आथाय गच्छति 20 करमशः संचितशिखॊ धर्मबुथ्धिमयॊ महान अन्धकारे परवेष्टव्ये थिपॊ यत्नेन धार्यते 21 संपतन थेहजालानि कथा चिथ इह मानुषे बराह्मण्यं लभते जन्तुस तत पुत्र परिपालय 22 बराह्मणस्य हि थेहॊ ऽयं न कामार्दाय जायते इह कलेशाय तपसे परेत्य तव अनुपमं सुखम 23 बराह्मण्यं बहुभिर अवाप्यते तपॊभिस; तल लब्ध्वा न परिपनेन हेथितव्यम सवाध्याये तपसि थमे च नित्ययुक्तः; कषेमार्दी कुशलपरः सथा यतस्व 24 अव्यक्तप्रकृतिर अयं कला शरीरः; सूक्ष्मात्मा कषणत्रुतिशॊ निमेष रॊमा ऋत्वास्यः समबलशुक्लकृष्णनेत्रॊ; मानाङ्गॊ थरवति वयॊ हयॊ नराणाम 25 तं थृष्ट्वा परसृतम अजस्रम उग्रवेगं; गच्छन्तं सततम इहाव्यपेक्षमाणम चक्षुस ते यथिन परप्रणेतृनेयं; धर्मे ते भवतु मनः परं निशम्य 26 ये ऽमी तु परचलित धर्मकामवृत्ताः; करॊशन्तः सततम अनिष्ट संप्रयॊगाः कलिश्यन्ते परिगत वेथनाशरीरा; बह्वीभिः सुभृशम अधर्मवासनाभिः 27 राजा धर्मपरः सथा शुभगॊप्ता; समीक्ष्य सुकृतिनां थधाति लॊकान बहुविधम अपि चरतः परथिशति; सुखम अनुपगतं निरवथ्यम 28 शवानॊ भीसनायॊ मुखानि वयांसि; वथ गृध्रकुलपक्षिणां च संघाः नरां कथने रुधिरपा गुरुवचन;नुथम उपरतं विशसन्ति 29 मर्याथा नियताः सवयम्भुवा य इहेमाः; परभिनत्ति थशगुणा मनॊऽनुगत्वात निवसति भृशम असुखं पितृविषय;विपिनम अवगाह्य स पापः 30 यॊ लुब्धः सुभृशं परियानृतश च मनुष्यः; सततनिकृतिवञ्चनारतिः सयात उपनिधिभिर असुखकृत स परमनिरयगॊ; भृशम असुखम अनुभवति थुष्कृत कर्मा 31 उष्मां वैतरणीं महानथीम; अवगाधॊ ऽसि पत्रवनभिन्न गात्रः परशु वनशयॊ निपतितॊ; वसति च महानिरये भृशार्तः 32 महापथानि कत्दसे न चाप्य अवेक्षसे परम चिरस्य मृत्युकारिकाम अनागतां न बुध्यसे 33 परयास्यतां किम आस्यते समुत्दितं महथ भयम अतिप्रमादि थारुणं सुखस्य संविधीयताम 34 पुरा मृतः परनीयसे यमस्य मृत्युशासनात तथ अन्तिकाय थारुणैः परयत्नम आर्जवे कुरु 35 पुरा समूल बान्धवं परभुर हरत्य अथुःखवित तवेह जीवितं यमॊ न चास्ति तस्य वारकः 36 पुरा विवाति मारुतॊ यमस्य यः पुरःसरः पुरैक एव नीयसे कुरुष्व साम्परायिकम 37 पुरा सहिक्क एव ते परवाति मारुतॊ ऽनतकः पुरा च विभ्रमन्ति ते थिशॊ महाभयागमे 38 समृतिश च संनिरुध्यते पुरा तवेह पुत्रक समाकुलस्य गच्छतः समाधिम उत्तमं कुरु 39 कृताकृते शुभाशुभे परमाथकर्म विप्लुते समरन पुरा न तप्यसे निधत्स्व केवलं निधिम 40 पुरा जरा कलेवरं विजर्जरी करॊति ते बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम 41 पुरा शरीरम अन्तकॊ भिनत्ति रॊगसायकैः परसह्य जीवितक्षये तपॊ महत समाचर 42 पुरा वृका भयंकरा मनुष्यथेहगॊचराः अभिथ्रवन्ति सर्वतॊ यतस्व पुण्यशीलने 43 पुरान्धकारम एककॊ ऽनुपश्यसि तवरस्व वै पुरा हिरन मयान नगान निरीक्षसे ऽथरिमूर्धनि 44 पुरा कुसंगतानि ते सुहृन मुखाश च शत्रवः विचालयन्ति थर्शनाथ घतस्व पुत्र यत परम 45 धनस्य यस्य राजतॊ भयं न चास्ति चौरतः मृतं च यन न मुञ्चति समर्जयस्व तथ धनम 46 न तत्र संविभज्यते सवकर्मभिः परस्परम यथ एव यस्य यौतकं तथ एव तत्र सॊ ऽशनुते 47 परत्र येन जीव्यते तथ एव पुत्र थीयताम धनं यथ अक्षयं धरुवं समर्जयस्व तत सवयम 48 न यावथ एव पच्यते महाजनस्य यावकम अपक्व एव यावके पुरा परनीयसे तवर 49 न मातृपितृबान्धवा न संस्तुतः परियॊ जनः अनुव्रजन्ति संकते वरजन्तम एकपातिनाम 50 यथ एव कर्म केवलं सवयं कृतं शुभाशुभम तथ एव तस्य यौतकं भवत्य अमुत्र गच्छतः 51 हिरण्यरत्नसंचयाः शुभाशुभेन संचिताः न तस्य थेहसंक्षये भवन्ति कार्यसाधकाः 52 परत्र गामिकस्य ते कृताकृतस्य कर्मणः न साक्षिर आत्मना समॊ नृणाम इहास्ति कश चन 53 मनुष्यथेहशून्यकं भवत्य अमुत्र गच्छतः परपश्य बुथ्धिचक्षुषा परथृश्यते हि सर्वतः 54 इहाग्निसूर्यवायवः शरीरम आश्रितास तरयः त एव तस्य साक्षिणॊ भवन्ति धर्मथर्शिनः 55 यदानिशेषु सर्वतः सपृशत्सु सर्वथारिषु परकाशगूढ वृत्तिषु सवधर्मम एव पालय 56 अनेकपारिपन्दिके विरूपरौथ्ररक्षिते सवम एव कर्म रक्ष्यतां सवकर्म तत्र गच्छति 57 न तत्र संविभज्यते सवकर्मणा परस्परम यदा कृतं सवकर्मजं तथ एव भुज्यते फलम 58 यदाप्सरॊ गणाः फलं सुखं महर्षिभिः सह तदाप्नुवन्ति कर्मतॊ विमानकामगानिमः 59 यदेह यत्कृतं शुभं विपाप्मभिः कृतात्मभिः तथ आप्नुवन्ति मानवास तदा विशुथ्धयॊनयः 60 परजापतेः सलॊकतां बृहस्पतेः शतक्रतॊः वरजन्ति ते परां गतिं गृहस्द धर्मसेतुभिः 61 सहस्रशॊ ऽपय अनेकशः परवक्तुम उत्सहामहे अबुथ्धि मॊहनं पुनः परभुर विना न यावकम 62 गता थविर अस्तवर्षता धरुवॊ ऽसि पञ्चविंशकः कुरुष्व धर्मसंचयं वयॊ हि ते ऽतिवर्तते 63 पुरा करॊति सॊ ऽनतकः परमाथगॊमुखं थमम यदागृहीतम उत्दितं तवरस्व धर्मपालने 64 यथा तवम एव पृष्ठतस तवम अग्रतॊ गमिष्यसि तदागतिं गमिष्यतः किम आत्मना परेण वा 65 यथ एकपातिनां सतां भवत्य अमुत्र गच्छताम भयेषु साम्परायिकं निधत्स्व तं महानिधिम 66 सकूल मूलबान्धवं परभुर हरत्य असङ्गवान न सन्ति यस्य वारकाः कुरुष्व धर्मसंनिधिम 67 इथं निथर्शनं मया तवेह पुत्र संमतम सवधर्शनानुमानतः परवर्नितं कुरुष्व तत 68 थधाति यः सवकर्मणा धनानि यस्य कस्य चित अबुथ्धि मॊहजैर गुणैः शतैक एव युज्यते 69 शरुतं समर्दम अस्तु ते परकुर्वतः शुभाः करियाः तथ एव तत्र थर्शनं कृतज्ञम अर्दसंहितम 70 निबन्धनी रज्जुर एषा या गरामे वसतॊ रतिः छित्त्वैनां सुकृतॊ यान्ति नैनां छिन्थन्ति थुष्कृतः 71 किं ते धनेन किं बन्धुभिस ते; किं ते पुत्रैः पुत्रक यॊ मरिष्यसि आत्मानम अन्विच्छ गुहां परविष्टं; पितामहास ते कव गताश च सर्वे 72 शवः कार्यम अथ्य कुर्वीत पूर्वाह्ने चापराह्निकम कॊ हि तथ वेथ कस्याथ्य मृत्युसेना निवेक्ष्यते 73 अनुगम्य शमशानान्तं निवर्तन्तीह बान्धवाः अग्नौ परक्षिप्य पुरुषं जञातयः सुहृथस तदा 74 नास्तिकान निरनुक्रॊशान नरान पापमतौ सदितान वामतः कुरु विश्रब्धं परं परेप्सुर अतन्थ्रितः 75 एवम अभ्याहते लॊके कालेनॊपनिपीथिते सुमहथ धैर्यम आलम्ब्य धर्मं सर्वात्मना कुरु 76 अदेमं थर्शनॊपायं सम्यग यॊ वेत्ति मानवः सम्यक स धर्मं कृत्वेह परत्र सुखम एधते 77 न थेहभेथे मरणं विजानतां; न च परनाशः सवनुपालिते पदि धर्मं हि यॊ वर्धयते स पण्डितॊ; य एव धर्माच चयवते स मुह्यति 78 परयुक्तयॊः कर्म पदि सवकर्मणॊः; फलं परयॊक्ता लभते यदाविधि निहीन कर्मा निरयं परपथ्यते; तरिविष्टपं गच्छति धर्मपारगः 79 सॊपानभूतं सवर्गस्य मानुष्यं पराप्य थुर्लभम तदात्मानं समाथध्याथ भरश्येत न पुनर यदा 80 यस्य नॊत्क्रामति मतिः सवर्गमार्गानुसारिणी तम आहुः पुण्यकर्माणम अशॊच्यं मित्र बान्धवैः 81 यस्य नॊपहता बुथ्धिर निश्चयेष्व अवलम्बते सवर्गे कृतावकाशस्य तस्य नास्ति महथ भयम 82 तपॊवनेषु ये जातास तत्रैव निधनं गताः तेषाम अल्पतरॊ धर्मः कामभॊगम अजानताम 83 यस तु भॊगान परित्यज्य शरीरेण तपश चरेत न तेन किं चिन न पराप्तं तन मे बहुमतं फलम 84 माता पितृसहस्राणि पुत्रथारशतानि च अनागतान्य अतीतानि कस्य ते कस्य वा वयम 85 न तेषां भवता कार्यं न कार्यं तव तैर अपि सवकृतैस तानि यातानि भवांश चैव गमिष्यति 86 इह लॊके हि धनिनः परॊ ऽपि सवजनायते सवजनस तु थरिथ्राणां जीवताम एव नश्यति 87 संचिनॊत्य अशुभं कर्म कलत्रापेक्षया नरः ततः कलेशम अवाप्नॊति परत्रेह तदैव च 88 पश्य तवं छिथ्रभूतं हि जीवलॊकं सवकर्मणा तत कुरुष्व तदा पुत्रकृत्स्नं यत समुथाहृतम 89 तथ एतत संप्रथृश्यैव कर्मभूमिं परविश्य ताम शुभान्य आचरितव्यानि परलॊकम अभीप्सता 90 मासर्तु संज्ञा परिवर्तकेन; सूर्याङ्गिना रात्रिथिवेन्धनेन सवकर्म निष्ठा फलसाक्षिकेण; भूतानि कालः पचति परसह्य 91 धनेन किं यन न थथाति नाश्नुते; बलेन किं येन रिपून न बाधते शरुतेन किं येन न धर्मम आचरेत; किम आत्मना यॊ न जितेन्थ्रियॊ वशी 92 इथं थवैपायन वचॊ हितम उक्तं निशम्य तु शुकॊ गतः परित्यज्य पितरं मॊक्षथेशिकम |
1
[y] kathaṃ nirvedam āpannaḥ śuko vaiyāsakiḥ purā etad icchāmi kauravya śrotuṃ kautūhalaṃ hi me 2 [bhī] prākṛtena suvṛttena carantam akutobhayam adhyāpya kṛtsnaṃ svādhyāyam anvaśād vai pitā sutam 3 dharmaṃ putra niṣevasva sutīkṣṇau hi himātapau kṣutpipāse ca vāyuṃ ca jaya nityaṃ jitendriyaḥ 4 satyam ārjavam akrodham anasūyāṃ damaṃ tapaḥ ahiṃsāṃ cānṛśaṃsyaṃ ca vidhivat paripālaya 5 satye tiṣṭha rato dharme hitvā sarvam anārjavam devatātithiśeṣeṇa yātrāṃ prāṇasya saṃśraya 6 phenapātropame dehe jīve śakunivat sthite anitye priya saṃvāse kathaṃ svapiṣi putraka 7 apramatteṣu jāgratsu nityayukteṣu śatruṣu antaraṃ lipsamāneṣu bālas tvaṃ nāvabudhyase 8 gaṇyamāneṣu varṣeṣu kṣīyamāṇe tathāyuṣi jīvite śiṣyamāṇe ca kim utthāya na dhāvasi 9 aihālaukikam īhante māṃsaśonitavardhanam pāralaukikakāryeṣu prasuptā bhṛśanāstikāḥ 10 dharmāya ye 'bhyasūyanti buddhimohānvitā narāḥ apathā gacchatāṃ teṣām anuyātāpi pīḍyate 11 ye tu tuṣṭāḥ suniyatāḥ satyāgama parāyanāḥ dharmyaṃ panthānam ārūḍhās tān upāssva ca pṛccha ca 12 upadhārya mataṃ teṣāṃ vṛddhānāṃ dharmadarśinām niyaccha parayā buddhyā cittam utpathagāmi vai 13 adya kālikayā buddhyā dūre śva iti nirbhayāḥ sarvabhakṣā na paśyanti karmabhūmiṃ vicetasaḥ 14 dharmaniḥśreṇim āsthāya kiṃ cit kiṃ cit samāruha kośakāravad ātmānaṃ veṣṭayan nāvabudhyase 15 nāstikaṃ bhinnamaryādaṃ kūlapātam ivāsthiram vāmataḥ kuru visrabdho naraṃ venum ivoddhatam 16 kāmaṃ krodhaṃ ca mṛtyuṃ ca pañcendriya jalāṃ nadīm nāvaṃ dhṛtimayīṃ kṛtvā janma durgāni saṃtara 17 mṛtyunābhyāhate loke jarayā paripīdite amoghāsu patantīṣu dharmayānena saṃtara 18 tiṣṭhantaṃ ca śayānaṃ ca mṛtyur anveṣate yadā nirvṛtiṃ labhase kasmād akasmān mṛtyunāśitaḥ 19 saṃcinvānakam evainaṃ kāmānām avitṛptakam vṛkīvoraṇam āsādya mṛtyur ādāya gacchati 20 kramaśaḥ saṃcitaśikho dharmabuddhimayo mahān andhakāre praveṣṭavye dipo yatnena dhāryate 21 saṃpatan dehajālāni kadā cid iha mānuṣe brāhmaṇyaṃ labhate jantus tat putra paripālaya 22 brāhmaṇasya hi deho 'yaṃ na kāmārthāya jāyate iha kleśāya tapase pretya tv anupamaṃ sukham 23 brāhmaṇyaṃ bahubhir avāpyate tapobhis; tal labdhvā na paripanena heditavyam svādhyāye tapasi dame ca nityayuktaḥ; kṣemārthī kuśalaparaḥ sadā yatasva 24 avyaktaprakṛtir ayaṃ kalā śarīraḥ; sūkṣmātmā kṣaṇatrutiśo nimeṣa romā ṛtvāsyaḥ samabalaśuklakṛṣṇanetro; mānāṅgo dravati vayo hayo narāṇām 25 taṃ dṛṣṭvā prasṛtam ajasram ugravegaṃ; gacchantaṃ satatam ihāvyapekṣamāṇam cakṣus te yadina parapraṇetṛneyaṃ; dharme te bhavatu manaḥ paraṃ niśamya 26 ye 'mī tu pracalita dharmakāmavṛttāḥ; krośantaḥ satatam aniṣṭa saṃprayogāḥ kliśyante parigata vedanāśarīrā; bahvībhiḥ subhṛśam adharmavāsanābhiḥ 27 rājā dharmaparaḥ sadā śubhagoptā; samīkṣya sukṛtināṃ dadhāti lokān bahuvidham api carataḥ pradiśati; sukham anupagataṃ niravadyam 28 śvāno bhīsanāyo mukhāni vayāṃsi; vada gṛdhrakulapakṣiṇāṃ ca saṃghāḥ narāṃ kadane rudhirapā guruvacana;nudam uparataṃ viśasanti 29 maryādā niyatāḥ svayambhuvā ya ihemāḥ; prabhinatti daśaguṇā mano'nugatvāt nivasati bhṛśam asukhaṃ pitṛviṣaya;vipinam avagāhya sa pāpaḥ 30 yo lubdhaḥ subhṛśaṃ priyānṛtaś ca manuṣyaḥ; satatanikṛtivañcanāratiḥ syāt upanidhibhir asukhakṛt sa paramanirayago; bhṛśam asukham anubhavati duṣkṛta karmā 31 uṣmāṃ vaitaraṇīṃ mahānadīm; avagādho 'si patravanabhinna gātraḥ paraśu vanaśayo nipatito; vasati ca mahāniraye bhṛśārtaḥ 32 mahāpadāni katthase na cāpy avekṣase param cirasya mṛtyukārikām anāgatāṃ na budhyase 33 prayāsyatāṃ kim āsyate samutthitaṃ mahad bhayam atipramāthi dāruṇaṃ sukhasya saṃvidhīyatām 34 purā mṛtaḥ pranīyase yamasya mṛtyuśāsanāt tad antikāya dāruṇaiḥ prayatnam ārjave kuru 35 purā samūla bāndhavaṃ prabhur haraty aduḥkhavit taveha jīvitaṃ yamo na cāsti tasya vārakaḥ 36 purā vivāti māruto yamasya yaḥ puraḥsaraḥ puraika eva nīyase kuruṣva sāmparāyikam 37 purā sahikka eva te pravāti māruto 'ntakaḥ purā ca vibhramanti te diśo mahābhayāgame 38 smṛtiś ca saṃnirudhyate purā taveha putraka samākulasya gacchataḥ samādhim uttamaṃ kuru 39 kṛtākṛte śubhāśubhe pramādakarma viplute smaran purā na tapyase nidhatsva kevalaṃ nidhim 40 purā jarā kalevaraṃ vijarjarī karoti te balāṅgarūpahāriṇī nidhatsva kevalaṃ nidhim 41 purā śarīram antako bhinatti rogasāyakaiḥ prasahya jīvitakṣaye tapo mahat samācara 42 purā vṛkā bhayaṃkarā manuṣyadehagocarāḥ abhidravanti sarvato yatasva puṇyaśīlane 43 purāndhakāram ekako 'nupaśyasi tvarasva vai purā hiran mayān nagān nirīkṣase 'drimūrdhani 44 purā kusaṃgatāni te suhṛn mukhāś ca śatravaḥ vicālayanti darśanād ghatasva putra yat param 45 dhanasya yasya rājato bhayaṃ na cāsti caurataḥ mṛtaṃ ca yan na muñcati samarjayasva tad dhanam 46 na tatra saṃvibhajyate svakarmabhiḥ parasparam yad eva yasya yautakaṃ tad eva tatra so 'śnute 47 paratra yena jīvyate tad eva putra dīyatām dhanaṃ yad akṣayaṃ dhruvaṃ samarjayasva tat svayam 48 na yāvad eva pacyate mahājanasya yāvakam apakva eva yāvake purā pranīyase tvara 49 na mātṛpitṛbāndhavā na saṃstutaḥ priyo janaḥ anuvrajanti saṃkate vrajantam ekapātinām 50 yad eva karma kevalaṃ svayaṃ kṛtaṃ śubhāśubham tad eva tasya yautakaṃ bhavaty amutra gacchataḥ 51 hiraṇyaratnasaṃcayāḥ śubhāśubhena saṃcitāḥ na tasya dehasaṃkṣaye bhavanti kāryasādhakāḥ 52 paratra gāmikasya te kṛtākṛtasya karmaṇaḥ na sākṣir ātmanā samo nṛṇām ihāsti kaś cana 53 manuṣyadehaśūnyakaṃ bhavaty amutra gacchataḥ prapaśya buddhicakṣuṣā pradṛśyate hi sarvataḥ 54 ihāgnisūryavāyavaḥ śarīram āśritās trayaḥ ta eva tasya sākṣiṇo bhavanti dharmadarśinaḥ 55 yathāniśeṣu sarvataḥ spṛśatsu sarvadāriṣu prakāśagūḍha vṛttiṣu svadharmam eva pālaya 56 anekapāripanthike virūparaudrarakṣite svam eva karma rakṣyatāṃ svakarma tatra gacchati 57 na tatra saṃvibhajyate svakarmaṇā parasparam yathā kṛtaṃ svakarmajaṃ tad eva bhujyate phalam 58 yathāpsaro gaṇāḥ phalaṃ sukhaṃ maharṣibhiḥ saha tathāpnuvanti karmato vimānakāmagānimaḥ 59 yatheha yatkṛtaṃ śubhaṃ vipāpmabhiḥ kṛtātmabhiḥ tad āpnuvanti mānavās tathā viśuddhayonayaḥ 60 prajāpateḥ salokatāṃ bṛhaspateḥ śatakratoḥ vrajanti te parāṃ gatiṃ gṛhastha dharmasetubhiḥ 61 sahasraśo 'py anekaśaḥ pravaktum utsahāmahe abuddhi mohanaṃ punaḥ prabhur vinā na yāvakam 62 gatā dvir astavarṣatā dhruvo 'si pañcaviṃśakaḥ kuruṣva dharmasaṃcayaṃ vayo hi te 'tivartate 63 purā karoti so 'ntakaḥ pramādagomukhaṃ damam yathāgṛhītam utthitaṃ tvarasva dharmapālane 64 yadā tvam eva pṛṣṭhatas tvam agrato gamiṣyasi tathāgatiṃ gamiṣyataḥ kim ātmanā pareṇa vā 65 yad ekapātināṃ satāṃ bhavaty amutra gacchatām bhayeṣu sāmparāyikaṃ nidhatsva taṃ mahānidhim 66 sakūla mūlabāndhavaṃ prabhur haraty asaṅgavān na santi yasya vārakāḥ kuruṣva dharmasaṃnidhim 67 idaṃ nidarśanaṃ mayā taveha putra saṃmatam svadharśanānumānataḥ pravarnitaṃ kuruṣva tat 68 dadhāti yaḥ svakarmaṇā dhanāni yasya kasya cit abuddhi mohajair guṇaiḥ śataika eva yujyate 69 śrutaṃ samartham astu te prakurvataḥ śubhāḥ kriyāḥ tad eva tatra darśanaṃ kṛtajñam arthasaṃhitam 70 nibandhanī rajjur eṣā yā grāme vasato ratiḥ chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ 71 kiṃ te dhanena kiṃ bandhubhis te; kiṃ te putraiḥ putraka yo mariṣyasi ātmānam anviccha guhāṃ praviṣṭaṃ; pitāmahās te kva gatāś ca sarve 72 śvaḥ kāryam adya kurvīta pūrvāhne cāparāhnikam ko hi tad veda kasyādya mṛtyusenā nivekṣyate 73 anugamya śmaśānāntaṃ nivartantīha bāndhavāḥ agnau prakṣipya puruṣaṃ jñātayaḥ suhṛdas tathā 74 nāstikān niranukrośān narān pāpamatau sthitān vāmataḥ kuru viśrabdhaṃ paraṃ prepsur atandritaḥ 75 evam abhyāhate loke kālenopanipīdite sumahad dhairyam ālambya dharmaṃ sarvātmanā kuru 76 athemaṃ darśanopāyaṃ samyag yo vetti mānavaḥ samyak sa dharmaṃ kṛtveha paratra sukham edhate 77 na dehabhede maraṇaṃ vijānatāṃ; na ca pranāśaḥ svanupālite pathi dharmaṃ hi yo vardhayate sa paṇḍito; ya eva dharmāc cyavate sa muhyati 78 prayuktayoḥ karma pathi svakarmaṇoḥ; phalaṃ prayoktā labhate yathāvidhi nihīna karmā nirayaṃ prapadyate; triviṣṭapaṃ gacchati dharmapāragaḥ 79 sopānabhūtaṃ svargasya mānuṣyaṃ prāpya durlabham tathātmānaṃ samādadhyād bhraśyeta na punar yathā 80 yasya notkrāmati matiḥ svargamārgānusāriṇī tam āhuḥ puṇyakarmāṇam aśocyaṃ mitra bāndhavaiḥ 81 yasya nopahatā buddhir niścayeṣv avalambate svarge kṛtāvakāśasya tasya nāsti mahad bhayam 82 tapovaneṣu ye jātās tatraiva nidhanaṃ gatāḥ teṣām alpataro dharmaḥ kāmabhogam ajānatām 83 yas tu bhogān parityajya śarīreṇa tapaś caret na tena kiṃ cin na prāptaṃ tan me bahumataṃ phalam 84 mātā pitṛsahasrāṇi putradāraśatāni ca anāgatāny atītāni kasya te kasya vā vayam 85 na teṣāṃ bhavatā kāryaṃ na kāryaṃ tava tair api svakṛtais tāni yātāni bhavāṃś caiva gamiṣyati 86 iha loke hi dhaninaḥ paro 'pi svajanāyate svajanas tu daridrāṇāṃ jīvatām eva naśyati 87 saṃcinoty aśubhaṃ karma kalatrāpekṣayā naraḥ tataḥ kleśam avāpnoti paratreha tathaiva ca 88 paśya tvaṃ chidrabhūtaṃ hi jīvalokaṃ svakarmaṇā tat kuruṣva tathā putrakṛtsnaṃ yat samudāhṛtam 89 tad etat saṃpradṛśyaiva karmabhūmiṃ praviśya tām śubhāny ācaritavyāni paralokam abhīpsatā 90 māsartu saṃjñā parivartakena; sūryāṅginā rātridivendhanena svakarma niṣṭhā phalasākṣikeṇa; bhūtāni kālaḥ pacati prasahya 91 dhanena kiṃ yan na dadāti nāśnute; balena kiṃ yena ripūn na bādhate śrutena kiṃ yena na dharmam ācaret; kim ātmanā yo na jitendriyo vaśī 92 idaṃ dvaipāyana vaco hitam uktaṃ niśamya tu śuko gataḥ parityajya pitaraṃ mokṣadeśikam |