1
[य] हीने परमके धर्मे सर्वलॊकातिलङ्घिनि अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते 2 मर्याथासु परभिन्नासु कषुभिते धर्मनिश्चये राजभिः पीडिते लॊके चॊरैर वापि विशां पते 3 सर्वाश्रमेषु मूढेषु कर्मसूपहतेषु च कामान मॊहाच च लॊभाच च भयं पश्यत्सु भारत 4 अविश्वस्तेषु सर्वेषु नित्यभीतेषु पार्दिव निकृत्या हन्यमानेषु वञ्चयत्सु परस्परम 5 संप्रथीप्तेषु थेशेषु बराह्मण्ये चाभिपीडिते अवर्षति च पर्जन्ये मिदॊ भेथे समुत्दिते 6 सर्वस्मिन थस्यु साथ्भूते पृदिव्याम उपजीवने केन सविथ बराह्मणॊ जीवेज जघन्ये काल आगते 7 अतित्यक्षुः पुत्रपौत्रान अनुक्रॊशान नराधिप कदम आपत्सु वर्तेत तन मे बरूहि पितामह 8 कदं च राजा वर्तेत लॊके कलुषतां गते कदम अर्दाच च धर्माच च न हीयेत परंतप 9 [भ] राजमूला महाराज यॊगक्षेम सुवृष्टयः परजासु वयाधयश चैव मरणं च भयानि च 10 कृतं तरेता थवापरश च कलिश च भरतर्षभ राजमूलानि सर्वाणि मम नास्त्य अत्र संशयः 11 तस्मिंस तव अभ्यागते काले परजानां थॊषकारके विज्ञानबलम आस्दाय जीवितव्यं तथा भवेत 12 अत्राप्य उथाहरन्तीमम इतिहासं पुरातनम विश्वामित्रस्य संवाथं चण्डालस्य च पक्कणे 13 तरेता थवापरयॊः संधौ पुरा थैवविधिक्रमात अनावृष्टिर अभूथ घॊरा राजन थवाथश वार्षिकी 14 परजानाम अभिवृथ्धानां युगान्ते पर्युपस्दिते तरेता निर्मॊक्ष समये थवापरप्रतिपाथने 15 न ववर्ष सहस्राक्षः परतिलॊमॊ ऽभवथ गुरुः जगाम थक्षिणं मार्गं सॊमॊ वयावृत्तलक्षणः 16 नावश्यायॊ ऽपि रात्र्यन्ते कुत एवाभ्र राजयः नथ्यः संक्षिप्ततॊयौघाः कव चिथ अन्तर्गताभवन 17 सरांसि सरितश चैव कूपाः परस्रवणानि च हतत्विट्कान्य अलक्ष्यन्त निसर्गाथ थैवकारितात 18 उपशुष्क जलस्दाया विनिवृत्तसभा परपा निवृत्तयज्ञस्वाध्याया निर्वषट्कारमङ्गला 19 उत्सन्नकृषि गॊरक्ष्या निवृत्तविपणापणा निवृत्तपूगसमया संप्रनष्ट महॊत्सवा 20 अस्दि कङ्काल संकीर्णा हाहाभूतजनाकुला शून्यभूयिष्ठ नगरा थग्धग्राम निवेशना 21 कव चिच चॊरैः कव चिच छस्त्रैः कव चिथ राजभिर आतुरैः परस्परभयाच चैव शून्यभूयिष्ठ निर्जना 22 गतथैवतसंकल्पा वृथ्धबाल विनाकृता गॊजावि महिषैर हीना परस्परहरा हरा 23 हतविप्रा हता रक्षा परनष्टौषधि संचया शयाव भूतनरप्राया बभूव वसुधा तथा 24 तस्मिन परतिभये काले कषीणे धर्मे युधिष्ठिर बभ्रमुः कषुधिता मर्त्याः खाथन्तः सम परस्परम 25 ऋषयॊ नियमांस तयक्त्वा परित्यक्ताग्निथैवताः आश्रमान संपरित्यज्य पर्यधावन्न इतस ततः 26 विश्वामित्रॊ ऽद भगवान महर्षिर अनिकेतनः कषुधा परिगतॊ धीमान समन्तात पर्यधावत 27 स कथा चित परिपतञ शवपचानां निवेशनम हिंस्राणां पराणिहन्तॄणाम आससाथ वने कव चित 28 विभिन्नकलशाकीर्णं शवचर्माच्छाथनायुतम वराहखरभग्नास्दि कपालघट संकुलम 29 मृतचेल परिस्तीर्णं निर्माल्य कृतभूषणम सर्पनिर्मॊक मालाभिः कृतचिह्नकुटी मठम 30 उलूक पक्षध्वजिभिर थेवतायतनैर वृतम लॊहघण्टा परिष्कारं शवयूदपरिवारितम 31 तत परविश्य कषुधाविष्टॊ गाधेः पुत्रॊ महान ऋषिः आहारान्वेषणे युक्तः परं यत्नं समास्दितः 32 न च कव चिथ अविन्थत स भिक्षमाणॊ ऽपि कौशिकः मांसम अन्नं मूलफलम अन्यथ वा तत्र किं चन 33 अहॊ कृच्छ्रं मया पराप्तम इति निश्चित्य कौशिकः पपात भूमौ थौर्बाल्यात तस्मिंश चण्डाल पक्कणे 34 चिन्तयाम आस स मुनिः किं नु मे सुकृतं भवेत कदं वृदा न मृत्युः सयाथ इति पार्दिव सत्तम 35 स थथर्श शवमांसस्य कुतन्तीं विततां मुनिः चण्डालस्य गृहे राजन सथ्यः शस्त्रहतस्य च 36 स चिन्तयाम आस तथा सतेयं कार्यम इतॊ मया न हीथानीम उपायॊ ऽनयॊ विथ्यते पराणधारणे 37 आपत्सु विहितं सतेयं विशिष्ट समहीनतः परं परं भवेत पूर्वम अस्तेयम इति निश्चयः 38 हीनाथ आथेयम आथौ सयात समानात तथनन्तरम असंभवाथ आथथीत विशिष्टाथ अपि धार्मिकात 39 सॊ ऽहम अन्तावसानानां हरमाणः परिग्रहात न सतेय थॊषं पश्यामि हरिष्याम एतथ आमिषम 40 एतां बुथ्धिं समास्दाय विश्वामित्रॊ महामुनिः तस्मिन थेशे परसुष्वाप पतितॊ यत्र भारत 41 स विगाढां निशां थृष्ट्वा सुप्ते चण्डाल पक्कणे शनैर उत्दाय भगवान परविवेश कुटी मठम 42 स सुप्त एव चण्डालः शरेष्मापिहित लॊचनः परिभिन्न सवरॊ रूक्ष उवाचाप्रिय थर्शनः 43 कः कुतन्तीं घट्टयति सुप्ते चण्डाल पक्कणे जागर्मि नावसुप्तॊ ऽसमि हतॊ ऽसीति च थारुणः 44 विश्वामित्रॊ ऽहम इत्य एव सहसा तम उवाच सः सहसाभ्यागत भयः सॊथ्वेगस तेन कर्मणा 45 चण्डालस तथ वचः शरुत्वा महर्षेर भावितात्मनः शयनाथ उपसंभ्रान्त इयेषॊत्पतितुं ततः 46 स विसृज्याश्रु नेत्राभ्यां बहुमानात कृताञ्जलिः उवाच कौशिकं रात्रौ बरह्मन किं ते चिकीर्षितम 47 विश्वामित्रस तु मातङ्गम उवाच परिसान्त्वयन कषुधितॊ ऽहं गतप्राणॊ हरिष्यामि शवजाघनीम 48 अवसीथन्ति मे पराणाः समृतिर मे नश्यति कषुधा सवधर्मं बुध्यमानॊ ऽपि हरिष्यामि शवजाघनीम 49 अटन भैक्षं न विन्थामि यथा युष्माकम आलये तथा बुथ्धिः कृता पापे हरिष्यामि शवजाघनीम 50 तृषितः कलुषं पाता नास्ति हरीर अशनार्दिनः कषुथ धर्मं थूषयत्य अत्र हरिष्यामि शवजाघनीम 51 अग्निर मुखं पुरॊधाश च थेवानां शुचि पाथ विभुः यदा स सर्वभुग बरह्मा तदा मां विथ्धि धर्मतः 52 तम उवाच स चण्डालॊ महर्षे शृणु मे वचः शरुत्वा तदा समातिष्ठ यदा धर्मान न हीयसे 53 मृगाणाम अधमं शवानं परवथन्ति मनीषिणः तस्याप्य अधम उथ्थेशः शरीरस्यॊरु जाघनी 54 नेथं सम्यग वयवसितं महर्षे कर्म वैकृतम चण्डाल सवस्य हरणम अभक्ष्यस्य विशेषतः 55 साध्व अन्यम अनुपश्य तवम उपायं पराणधारणे न मांसलॊभात तपसॊ नाशस ते सयान महामुने 56 जानतॊ ऽविहितॊ मार्गॊ न कार्यॊ धर्मसंकरः मा सम धर्मं परित्याक्षीस तवं हि धर्मविथ उत्तमः 57 विश्वामित्रस ततॊ राजन्न इत्य उक्तॊ भरतर्षभ कषुधार्तः परत्युवाचेथं पुनर एव महामुनिः 58 निराहारस्य सुमहान मम कालॊ ऽभिधावतः न विथ्यते ऽभयुपायश च कश चिन मे पराणधारणे 59 येन तेन विशेषेण कर्मणा येन केन चित अभ्युज्जीवेत सीथमानः समर्दॊ धर्मम आचरेत 60 ऐन्थ्रॊ धर्मः कषत्रियाणां बराह्मणानाम अदाग्निकः बरह्म वह्निर मम बलं भक्ष्यामि समयं कषुधा 61 यदा यदा वै जीवेथ धि तत कर्तव्यम अपीडया जीवितं मरणाच छरेयॊ जीवन धर्मम अवाप्नुयात 62 सॊ ऽहं जीवितम आकाङ्क्षन्न अभक्षस्यापि भक्षणम वयवस्ये बुथ्धिपूर्वं वै तथ भवान अनुमन्यताम 63 जीवन धर्मं चरिष्यामि परणॊत्स्याम्य अशुभानि च तपॊभिर विथ्यया चैव जयॊतींषीव महत तमः 64 [षवपच] नैतत खाथन पराप्स्यसे पराणम अन्यं; नायुर थीर्घं नामृतस्येव तृप्तिम भिक्षाम अन्यां भिक्ष माते मनॊ ऽसतु; शवभक्षणे शवा हय अभक्षॊ थविजानाम 65 [वि] न थुर्भिक्षे सुलभं मांसम अन्यच; छवपाक नान्नं न च मे ऽसति वित्तम कषुधार्तश चाहम अगतिर निराशः; शवमांसे चास्मिन षड्रसान साधु मन्ये 66 [ष] पञ्च पञ्चनखा भक्ष्या बरह्मक्षत्रस्य वै थविज यथि शास्त्रं परमाणं ते माभक्ष्ये मानसं कृदाः 67 [व] अगस्त्येनासुरॊ जग्धॊ वातापिः कषुधितेन वै अहम आपथ गतः कषुब्धॊ भक्षयिष्ये शवजाघनीम 68 [ष] भिक्षाम अन्याम आहरेति न चैतत कर्तुम अर्हसि न नूनं कार्यम एतथ वै हर कामं शवजाघनीम 69 [वि] शिष्टा वै कारणं धर्मे तथ्वृत्तम अनुवर्तये परां मेध्याशनाथ एतां भक्ष्यां मन्ये शवजाघनीम 70 [ष] असता यत समाचीर्णं न स धर्मः सनातनः नावृत्तम अनुकार्यं वै मा छलेनानृतं कृदाः 71 [वि] न पातकं नावमतम ऋषिः सन कर्तुम अर्हसि समौ च शवमृगौ मन्ये तस्माथ भक्ष्या शवजाघनी 72 [ष] यथ बराह्मणार्दे कृतम अर्दितेन; तेनर्षिणा तच च भक्ष्याधिकारम स वै धर्मॊ यत्र न पापम अस्ति; सर्वैर उपायैर हि स रक्षितव्यः 73 [वि] मित्रं च मे बराह्मणश चायम आत्मा; परियश च मे पूज्यतमश च लॊके तं भर्तु कामॊ ऽहम इमां हरिष्ये; नृशंसानाम ईथृशानां न बिभ्ये 74 [ष] कामं नरा जीवितं संत्यजन्ति; न चाभक्ष्यैः परतिकुर्वन्ति तत्र सर्वान कामान पराप्नुवन्तीह विथ्वन; परियस्व कामं सहितः कषुधा वै 75 [वि] सदाने तावत संशयः परेत्य भावे; निःसंशयं कर्मणां वा विनाशः अहं पुनर वर्त इत्य आशयात्मा; मूलं रक्षन भक्षयिष्याम्य अभक्ष्यम 76 बुथ्ध्यात्मके वयस्तम अस्तीति तुष्टॊ; मॊहाथ एकत्वं यदा चर्म चक्षुः यथ्य अप्य एनः संशयाथ आचरामि; नाहं भविष्यामि यदा तवम एव 77 [ष] पतनीयम इथं थुःखम इति मे वर्तते मतिः थुष्कृती बराह्मणं सन्तं यस तवाम अहम उपालभे 78 [वि] पिबन्त्य एवॊथकं गावॊ मण्डूकेषु रुवत्स्व अपि न ते ऽधिकारॊ धर्मे ऽसति मा भूर आत्मप्रशंसकः 79 [ष] सुहृथ भूत्वानुशास्मि तवा कृपा हि तवयि मे थविज तथ एवं शरेय आधत्स्व मा लॊभाच छवानम आथिदाः 80 [वि] सुहृन मे तवं सुखेप्सुश चेथ आपथॊ मां समुथ्धर जाने ऽहं धर्मतॊ ऽऽतमानं शवानीम उत्सृज जाघनीम 81 [ष] नैवॊत्सहे भवते थातुम एतां; नॊपेक्षितुं हरियमाणं सवम अन्नम उभौ सयावः सवमलेनावलिप्तौ; थाताहं च तवं च विप्र परतीच्छन 82 [वि] अथ्याहम एतथ वृजिनं कर्मकृत्वा; जीवंश चरिष्यामि महापवित्रम परपूतात्मा धर्मम एवाभिपत्स्ये; यथ एतयॊर गुरु तथ वै बरवीहि 83 [ष] आत्मैव साक्षी किल लॊककृत्ये; तवम एव जानासि यथ अत्र थुष्टम यॊ हय आथ्रियेथ भक्ष्यम इति शवमांसं; मन्ये न तस्यास्ति विवर्जनीयम 84 [वि] उपाथाने खाथने वास्य थॊषः; कार्यॊ नयायैर नित्यम अत्रापवाथः यस्मिन न हिंसा नानृते वाक्यलेशॊ; भक्ष्यक्रिया तत्र न तथ गरीयः 85 [ष] यथ्य एष हेतुस तव खाथनस्य; न ते वेथः कारणं नान्यधर्मः तस्माथ अभक्ष्ये भक्षणाथ वा थविजेन्थ्र; थॊषं न पश्यामि यदेथम आत्द 86 [वि] न पातकं भक्षणम अस्य थृष्टं; सुरां पीत्वा पततीतीह शब्थः अन्यॊन्यकर्माणि तदा तदैव; न लेश मात्रेण कृत्यं हिनस्ति 87 [ष] अस्दानतॊ हीनतः कुत्सिताथ वा; तं विथ्वांसं बाधते साधुवृत्तम सदानं पुनर यॊ लभते निषङ्गात; तेनापि थण्डः सहितव्य एव 88 [भ] एवम उक्त्वा निववृते मातङ्गः कौशिकं तथा विश्वामित्रॊ जहारैव कृतबुथ्धिः शवजाघनीम 89 ततॊ जग्राह पञ्चाङ्गीं जीवितार्दी महामुनिः सथारस ताम उपाकृत्य वने यातॊ महामुनिः 90 एतस्मिन्न एव काले तु परववर्षाद वासवः संजीवयन परजाः सर्वा जनयाम आस चौषधीः 91 विश्वामित्रॊ ऽपि भगवांस तपसा थग्धकिल्बिषः कालेन महता सिथ्धिम अवाप परमाथ्भुताम 92 एवं विथ्वान अथीनात्मा वयसनस्दॊ जिजीविषुः सर्वॊपायैर उपायज्ञॊ थीनम आत्मानम उथ्धरेत 93 एतां बुथ्धिं समास्दाय जीवितव्यं सथा भवेत जीवन पुण्यम अवाप्नॊति नरॊ भथ्राणि पश्यति 94 तस्मात कौन्तेय विथुषा धर्माधर्मविनिश्चये बुथ्धिम आस्दाय लॊके ऽसमिन वर्तितव्यं यतात्मना |
1
[y] hīne paramake dharme sarvalokātilaṅghini adharme dharmatāṃ nīte dharme cādharmatāṃ gate 2 maryādāsu prabhinnāsu kṣubhite dharmaniścaye rājabhiḥ pīḍite loke corair vāpi viśāṃ pate 3 sarvāśrameṣu mūḍheṣu karmasūpahateṣu ca kāmān mohāc ca lobhāc ca bhayaṃ paśyatsu bhārata 4 aviśvasteṣu sarveṣu nityabhīteṣu pārthiva nikṛtyā hanyamāneṣu vañcayatsu parasparam 5 saṃpradīpteṣu deśeṣu brāhmaṇye cābhipīḍite avarṣati ca parjanye mitho bhede samutthite 6 sarvasmin dasyu sādbhūte pṛthivyām upajīvane kena svid brāhmaṇo jīvej jaghanye kāla āgate 7 atityakṣuḥ putrapautrān anukrośān narādhipa katham āpatsu varteta tan me brūhi pitāmaha 8 kathaṃ ca rājā varteta loke kaluṣatāṃ gate katham arthāc ca dharmāc ca na hīyeta paraṃtapa 9 [bh] rājamūlā mahārāja yogakṣema suvṛṣṭayaḥ prajāsu vyādhayaś caiva maraṇaṃ ca bhayāni ca 10 kṛtaṃ tretā dvāparaś ca kaliś ca bharatarṣabha rājamūlāni sarvāṇi mama nāsty atra saṃśayaḥ 11 tasmiṃs tv abhyāgate kāle prajānāṃ doṣakārake vijñānabalam āsthāya jīvitavyaṃ tadā bhavet 12 atrāpy udāharantīmam itihāsaṃ purātanam viśvāmitrasya saṃvādaṃ caṇḍālasya ca pakkaṇe 13 tretā dvāparayoḥ saṃdhau purā daivavidhikramāt anāvṛṣṭir abhūd ghorā rājan dvādaśa vārṣikī 14 prajānām abhivṛddhānāṃ yugānte paryupasthite tretā nirmokṣa samaye dvāparapratipādane 15 na vavarṣa sahasrākṣaḥ pratilomo 'bhavad guruḥ jagāma dakṣiṇaṃ mārgaṃ somo vyāvṛttalakṣaṇaḥ 16 nāvaśyāyo 'pi rātryante kuta evābhra rājayaḥ nadyaḥ saṃkṣiptatoyaughāḥ kva cid antargatābhavan 17 sarāṃsi saritaś caiva kūpāḥ prasravaṇāni ca hatatviṭkāny alakṣyanta nisargād daivakāritāt 18 upaśuṣka jalasthāyā vinivṛttasabhā prapā nivṛttayajñasvādhyāyā nirvaṣaṭkāramaṅgalā 19 utsannakṛṣi gorakṣyā nivṛttavipaṇāpaṇā nivṛttapūgasamayā saṃpranaṣṭa mahotsavā 20 asthi kaṅkāla saṃkīrṇā hāhābhūtajanākulā śūnyabhūyiṣṭha nagarā dagdhagrāma niveśanā 21 kva cic coraiḥ kva cic chastraiḥ kva cid rājabhir āturaiḥ parasparabhayāc caiva śūnyabhūyiṣṭha nirjanā 22 gatadaivatasaṃkalpā vṛddhabāla vinākṛtā gojāvi mahiṣair hīnā parasparaharā harā 23 hataviprā hatā rakṣā pranaṣṭauṣadhi saṃcayā śyāva bhūtanaraprāyā babhūva vasudhā tadā 24 tasmin pratibhaye kāle kṣīṇe dharme yudhiṣṭhira babhramuḥ kṣudhitā martyāḥ khādantaḥ sma parasparam 25 ṛṣayo niyamāṃs tyaktvā parityaktāgnidaivatāḥ āśramān saṃparityajya paryadhāvann itas tataḥ 26 viśvāmitro 'tha bhagavān maharṣir aniketanaḥ kṣudhā parigato dhīmān samantāt paryadhāvata 27 sa kadā cit paripatañ śvapacānāṃ niveśanam hiṃsrāṇāṃ prāṇihantṝṇām āsasāda vane kva cit 28 vibhinnakalaśākīrṇaṃ śvacarmācchādanāyutam varāhakharabhagnāsthi kapālaghaṭa saṃkulam 29 mṛtacela paristīrṇaṃ nirmālya kṛtabhūṣaṇam sarpanirmoka mālābhiḥ kṛtacihnakuṭī maṭham 30 ulūka pakṣadhvajibhir devatāyatanair vṛtam lohaghaṇṭā pariṣkāraṃ śvayūthaparivāritam 31 tat praviśya kṣudhāviṣṭo gādheḥ putro mahān ṛṣiḥ āhārānveṣaṇe yuktaḥ paraṃ yatnaṃ samāsthitaḥ 32 na ca kva cid avindat sa bhikṣamāṇo 'pi kauśikaḥ māṃsam annaṃ mūlaphalam anyad vā tatra kiṃ cana 33 aho kṛcchraṃ mayā prāptam iti niścitya kauśikaḥ papāta bhūmau daurbālyāt tasmiṃś caṇḍāla pakkaṇe 34 cintayām āsa sa muniḥ kiṃ nu me sukṛtaṃ bhavet kathaṃ vṛthā na mṛtyuḥ syād iti pārthiva sattama 35 sa dadarśa śvamāṃsasya kutantīṃ vitatāṃ muniḥ caṇḍālasya gṛhe rājan sadyaḥ śastrahatasya ca 36 sa cintayām āsa tadā steyaṃ kāryam ito mayā na hīdānīm upāyo 'nyo vidyate prāṇadhāraṇe 37 āpatsu vihitaṃ steyaṃ viśiṣṭa samahīnataḥ paraṃ paraṃ bhavet pūrvam asteyam iti niścayaḥ 38 hīnād ādeyam ādau syāt samānāt tadanantaram asaṃbhavād ādadīta viśiṣṭād api dhārmikāt 39 so 'ham antāvasānānāṃ haramāṇaḥ parigrahāt na steya doṣaṃ paśyāmi hariṣyām etad āmiṣam 40 etāṃ buddhiṃ samāsthāya viśvāmitro mahāmuniḥ tasmin deśe prasuṣvāpa patito yatra bhārata 41 sa vigāḍhāṃ niśāṃ dṛṣṭvā supte caṇḍāla pakkaṇe śanair utthāya bhagavān praviveśa kuṭī maṭham 42 sa supta eva caṇḍālaḥ śreṣmāpihita locanaḥ paribhinna svaro rūkṣa uvācāpriya darśanaḥ 43 kaḥ kutantīṃ ghaṭṭayati supte caṇḍāla pakkaṇe jāgarmi nāvasupto 'smi hato 'sīti ca dāruṇaḥ 44 viśvāmitro 'ham ity eva sahasā tam uvāca saḥ sahasābhyāgata bhayaḥ sodvegas tena karmaṇā 45 caṇḍālas tad vacaḥ śrutvā maharṣer bhāvitātmanaḥ śayanād upasaṃbhrānta iyeṣotpatituṃ tataḥ 46 sa visṛjyāśru netrābhyāṃ bahumānāt kṛtāñjaliḥ uvāca kauśikaṃ rātrau brahman kiṃ te cikīrṣitam 47 viśvāmitras tu mātaṅgam uvāca parisāntvayan kṣudhito 'haṃ gataprāṇo hariṣyāmi śvajāghanīm 48 avasīdanti me prāṇāḥ smṛtir me naśyati kṣudhā svadharmaṃ budhyamāno 'pi hariṣyāmi śvajāghanīm 49 aṭan bhaikṣaṃ na vindāmi yadā yuṣmākam ālaye tadā buddhiḥ kṛtā pāpe hariṣyāmi śvajāghanīm 50 tṛṣitaḥ kaluṣaṃ pātā nāsti hrīr aśanārthinaḥ kṣud dharmaṃ dūṣayaty atra hariṣyāmi śvajāghanīm 51 agnir mukhaṃ purodhāś ca devānāṃ śuci pād vibhuḥ yathā sa sarvabhug brahmā tathā māṃ viddhi dharmataḥ 52 tam uvāca sa caṇḍālo maharṣe śṛṇu me vacaḥ śrutvā tathā samātiṣṭha yathā dharmān na hīyase 53 mṛgāṇām adhamaṃ śvānaṃ pravadanti manīṣiṇaḥ tasyāpy adhama uddeśaḥ śarīrasyoru jāghanī 54 nedaṃ samyag vyavasitaṃ maharṣe karma vaikṛtam caṇḍāla svasya haraṇam abhakṣyasya viśeṣataḥ 55 sādhv anyam anupaśya tvam upāyaṃ prāṇadhāraṇe na māṃsalobhāt tapaso nāśas te syān mahāmune 56 jānato 'vihito mārgo na kāryo dharmasaṃkaraḥ mā sma dharmaṃ parityākṣīs tvaṃ hi dharmavid uttamaḥ 57 viśvāmitras tato rājann ity ukto bharatarṣabha kṣudhārtaḥ pratyuvācedaṃ punar eva mahāmuniḥ 58 nirāhārasya sumahān mama kālo 'bhidhāvataḥ na vidyate 'bhyupāyaś ca kaś cin me prāṇadhāraṇe 59 yena tena viśeṣeṇa karmaṇā yena kena cit abhyujjīvet sīdamānaḥ samartho dharmam ācaret 60 aindro dharmaḥ kṣatriyāṇāṃ brāhmaṇānām athāgnikaḥ brahma vahnir mama balaṃ bhakṣyāmi samayaṃ kṣudhā 61 yathā yathā vai jīved dhi tat kartavyam apīḍayā jīvitaṃ maraṇāc chreyo jīvan dharmam avāpnuyāt 62 so 'haṃ jīvitam ākāṅkṣann abhakṣasyāpi bhakṣaṇam vyavasye buddhipūrvaṃ vai tad bhavān anumanyatām 63 jīvan dharmaṃ cariṣyāmi praṇotsyāmy aśubhāni ca tapobhir vidyayā caiva jyotīṃṣīva mahat tamaḥ 64 [ṣvapaca] naitat khādan prāpsyase prāṇam anyaṃ; nāyur dīrghaṃ nāmṛtasyeva tṛptim bhikṣām anyāṃ bhikṣa māte mano 'stu; śvabhakṣaṇe śvā hy abhakṣo dvijānām 65 [vi] na durbhikṣe sulabhaṃ māṃsam anyac; chvapāka nānnaṃ na ca me 'sti vittam kṣudhārtaś cāham agatir nirāśaḥ; śvamāṃse cāsmin ṣaḍrasān sādhu manye 66 [ṣ] pañca pañcanakhā bhakṣyā brahmakṣatrasya vai dvija yadi śāstraṃ pramāṇaṃ te mābhakṣye mānasaṃ kṛthāḥ 67 [v] agastyenāsuro jagdho vātāpiḥ kṣudhitena vai aham āpad gataḥ kṣubdho bhakṣayiṣye śvajāghanīm 68 [ṣ] bhikṣām anyām āhareti na caitat kartum arhasi na nūnaṃ kāryam etad vai hara kāmaṃ śvajāghanīm 69 [vi] śiṣṭā vai kāraṇaṃ dharme tadvṛttam anuvartaye parāṃ medhyāśanād etāṃ bhakṣyāṃ manye śvajāghanīm 70 [ṣ] asatā yat samācīrṇaṃ na sa dharmaḥ sanātanaḥ nāvṛttam anukāryaṃ vai mā chalenānṛtaṃ kṛthāḥ 71 [vi] na pātakaṃ nāvamatam ṛṣiḥ san kartum arhasi samau ca śvamṛgau manye tasmād bhakṣyā śvajāghanī 72 [ṣ] yad brāhmaṇārthe kṛtam arthitena; tenarṣiṇā tac ca bhakṣyādhikāram sa vai dharmo yatra na pāpam asti; sarvair upāyair hi sa rakṣitavyaḥ 73 [vi] mitraṃ ca me brāhmaṇaś cāyam ātmā; priyaś ca me pūjyatamaś ca loke taṃ bhartu kāmo 'ham imāṃ hariṣye; nṛśaṃsānām īdṛśānāṃ na bibhye 74 [ṣ] kāmaṃ narā jīvitaṃ saṃtyajanti; na cābhakṣyaiḥ pratikurvanti tatra sarvān kāmān prāpnuvantīha vidvan; priyasva kāmaṃ sahitaḥ kṣudhā vai 75 [vi] sthāne tāvat saṃśayaḥ pretya bhāve; niḥsaṃśayaṃ karmaṇāṃ vā vināśaḥ ahaṃ punar varta ity āśayātmā; mūlaṃ rakṣan bhakṣayiṣyāmy abhakṣyam 76 buddhyātmake vyastam astīti tuṣṭo; mohād ekatvaṃ yathā carma cakṣuḥ yady apy enaḥ saṃśayād ācarāmi; nāhaṃ bhaviṣyāmi yathā tvam eva 77 [ṣ] patanīyam idaṃ duḥkham iti me vartate matiḥ duṣkṛtī brāhmaṇaṃ santaṃ yas tvām aham upālabhe 78 [vi] pibanty evodakaṃ gāvo maṇḍūkeṣu ruvatsv api na te 'dhikāro dharme 'sti mā bhūr ātmapraśaṃsakaḥ 79 [ṣ] suhṛd bhūtvānuśāsmi tvā kṛpā hi tvayi me dvija tad evaṃ śreya ādhatsva mā lobhāc chvānam ādithāḥ 80 [vi] suhṛn me tvaṃ sukhepsuś ced āpado māṃ samuddhara jāne 'haṃ dharmato ''tmānaṃ śvānīm utsṛja jāghanīm 81 [ṣ] naivotsahe bhavate dātum etāṃ; nopekṣituṃ hriyamāṇaṃ svam annam ubhau syāvaḥ svamalenāvaliptau; dātāhaṃ ca tvaṃ ca vipra pratīcchan 82 [vi] adyāham etad vṛjinaṃ karmakṛtvā; jīvaṃś cariṣyāmi mahāpavitram prapūtātmā dharmam evābhipatsye; yad etayor guru tad vai bravīhi 83 [ṣ] ātmaiva sākṣī kila lokakṛtye; tvam eva jānāsi yad atra duṣṭam yo hy ādriyed bhakṣyam iti śvamāṃsaṃ; manye na tasyāsti vivarjanīyam 84 [vi] upādāne khādane vāsya doṣaḥ; kāryo nyāyair nityam atrāpavādaḥ yasmin na hiṃsā nānṛte vākyaleśo; bhakṣyakriyā tatra na tad garīyaḥ 85 [ṣ] yady eṣa hetus tava khādanasya; na te vedaḥ kāraṇaṃ nānyadharmaḥ tasmād abhakṣye bhakṣaṇād vā dvijendra; doṣaṃ na paśyāmi yathedam āttha 86 [vi] na pātakaṃ bhakṣaṇam asya dṛṣṭaṃ; surāṃ pītvā patatītīha śabdaḥ anyonyakarmāṇi tathā tathaiva; na leśa mātreṇa kṛtyaṃ hinasti 87 [ṣ] asthānato hīnataḥ kutsitād vā; taṃ vidvāṃsaṃ bādhate sādhuvṛttam sthānaṃ punar yo labhate niṣaṅgāt; tenāpi daṇḍaḥ sahitavya eva 88 [bh] evam uktvā nivavṛte mātaṅgaḥ kauśikaṃ tadā viśvāmitro jahāraiva kṛtabuddhiḥ śvajāghanīm 89 tato jagrāha pañcāṅgīṃ jīvitārthī mahāmuniḥ sadāras tām upākṛtya vane yāto mahāmuniḥ 90 etasminn eva kāle tu pravavarṣātha vāsavaḥ saṃjīvayan prajāḥ sarvā janayām āsa cauṣadhīḥ 91 viśvāmitro 'pi bhagavāṃs tapasā dagdhakilbiṣaḥ kālena mahatā siddhim avāpa paramādbhutām 92 evaṃ vidvān adīnātmā vyasanastho jijīviṣuḥ sarvopāyair upāyajño dīnam ātmānam uddharet 93 etāṃ buddhiṃ samāsthāya jīvitavyaṃ sadā bhavet jīvan puṇyam avāpnoti naro bhadrāṇi paśyati 94 tasmāt kaunteya viduṣā dharmādharmaviniścaye buddhim āsthāya loke 'smin vartitavyaṃ yatātmanā |