1
[य] शतायुर उक्तः पुरुषः शतवीर्यश च वैथिके कस्मान मरियन्ते पुरुषा बाला अपि पितामह 2 आयुष्मान केन भवति सवल्पायुर वापि मानवः केन वा लभते कीर्तिं केन वा लभते शरियम 3 तपसा बरह्मचर्येण जपैर हॊमैस तदौषधैः जन्मना यथि वाचारात तन मे बरूहि पितामह 4 [भ] अत्र ते वर्तयिष्यामि यन मां तवम अनुपृच्छसि अल्पायुर येन भवति थीर्घायुर वापि मानवः 5 येन वा लभते कीर्तिं येन वा लभते शरियम यदा च वर्तन पुरुषः शरेयसा संप्रयुज्यते 6 आचाराल लभते हयायुर आचाराल लभते शरियम आचारात कीर्तिम आप्नॊति पुरुषः परेत्य चेह च 7 थुराचारॊ हि पुरुषॊ नेहायुर विन्थते महत तरसन्ति यस्माथ भूतानि तदा परिभवन्ति च 8 तस्मात कुर्याथ इहाचारं य इच्छेथ भूतिम आत्मनः अपि पापशरीरस्य आचारॊ हन्त्य अलक्षणम 9 आचार लक्षणॊ धर्मः सन्तश चाचार लक्षणाः साधूनां च यदावृत्तम एतथ आचार लक्षणम 10 अप्य अथृष्टं शरुतं वापि पुरुषं धर्मचारिणम भूतिकर्माणि कुर्वाणं तं जनाः कुर्वते परियम 11 ये नास्तिका निष्क्रियाश च गुरु शास्त्रातिलङ्घिनः अधर्मज्ञा थुराचारास ते भवन्ति गतायुषः 12 विशीला भिन्नमर्याथा नित्यं संकीर्ण मैदुनाः अल्पायुषॊ भवन्तीह नरा निरयगामिनः 13 सर्वलक्षणहीनॊ ऽपि समुथाचारवान नरः शरथ्थधानॊ ऽनसूयुश च शतं वर्षाणि जीवति 14 अक्रॊधनः सत्यवाथी भूतानाम अविहिंसकः अनसूयुर अजिह्मश च शतं वर्षाणि जीवति 15 लॊष्ट मर्थी तृणच छेथी नखखाथी च यॊ नरः नित्यॊच्छिष्टः संकुसुकॊ नेहायुर विन्थते महत 16 बराह्मे मुहूर्ते बुध्येत धर्मार्दौ चानुचिन्तयेत उत्दायाचम्य तिष्ठेत पूर्वां संध्यां कृताञ्जलिः 17 एवम एवापरां संध्यां समुपासीत वाग्यतः नेक्षेताथित्यम उथ्यन्तं नास्तं यान्तं कथा चन 18 ऋषयॊ थीर्घसंध्यत्वाथ थीर्घम आयुर अवाप्नुवन तस्मात तिष्ठेत सथा पूर्वां पश्चिमां चैव वाग्यतः 19 ये च पूर्वाम उपासन्ते थविजाः संध्यां न पश्चिमाम सर्वांस तान धार्मिकॊ राजा शूथ्र कर्माणि कारयेत 20 परथारा न गन्तव्याः सर्ववर्णेषु कर्हि चित न हीथृशम अनायुष्यं लॊके किं चन विथ्यते याथृशं पुरुषस्येह परथारॊपसेवनम 21 परसाधनं च केशानाम अञ्जनं थन्तधावनम पूर्वाह्ण एव कुर्वीत थेवतानां च पूजनम 22 पुरीष मूत्रे नॊथीक्षेन नाधितिष्ठेत कथा चन उथक्यया च संभाषां न कुर्वीत कथा चन 23 नॊत्सृजेत पुरीषं च कषेत्रे गरामस्य चान्तिके उभे मूत्र पुरीषे तु नाप्सु कुर्यात कथा चन 24 पराङ्मुखॊ नित्यम अश्नीयाथ वाग्यतॊ ऽननम अकुत्सयन परस्कन्थयेच च मनसा भुक्त्वा चाग्निम उपस्पृशेत 25 आयुष्यं पराङ्मुखॊ भुङ्क्ते यशस्यं थक्षिणामुखः धन्यं पश्चान मुखॊ भुङ्क्ते ऋतं भुङ्क्ते उथङ्मुखः 26 नाधितिष्ठेत तुषाञ जातु केशभस्म कपालिकाः अन्यस्य चाप्य उपस्दानं थूरतः परिवर्जयेत 27 शान्ति हॊमांश च कुर्वीत सावित्राणि च कारयेत निषण्णश चापि खाथेत न तु गच्छन कदं चन 28 मूत्रं न तिष्ठता कार्यं न भस्मनि न गॊव्रजे 29 आर्थ्र पाथस तु भुञ्जीत नार्थ्र पाथस तु संविशेत आर्थ्र पाथस तु भुञ्जानॊ वर्षाणां जीवते शतम 30 तरीणि तेजांसि नॊच्छिष्ट आलभेत कथा चन अगिं गां बराह्मणं चैव तदास्यायुर न रिष्यते 31 तरीणि तेजांसि नॊच्छिष्ट उथीक्षेत कथा चन सूर्या चन्थ्रमसौ चैव नक्षताणि च सर्वशः 32 ऊर्ध्वं पराणा हय उत्क्रामन्ति यूनः सदविर आयति परत्युत्दानाभिवाथाभ्यां पुनस तान परतिपथ्यते 33 अभिवाथयेत वृथ्धांश च आसनं चैव थापयेत कृताञ्जलिर उपासीत गच्छन्तं पृष्ठतॊ ऽनवियात 34 न चासीतासने भिन्ने भिन्नं कांस्यं च वर्जयेत नैकवस्त्रेण भॊक्तव्यं न नग्नः सनातुम अर्हति सवप्तव्यं नैव नग्नेन न चॊच्छिष्टॊ ऽपि संविशेत 35 उच्छिष्टॊ न सपृशेच छीर्षं सर्वे पराणास तथाश्रयाः केशग्रहान परहारांश च शिरस्य एतान विवर्जयेत 36 न पाणिभ्याम उभाभ्यां च कण्डूयेज जातु वैश इरः न चाभीक्ष्णं शिरः सनायात तदास्यायुर न रिष्यते 37 शिरःस्नातश च तैलेन नाङ्गं किं चिथ उपस्पृशेत तिलपिष्टं न चाश्नीयात तदायुर विन्थते महत 38 नाध्यापयेत तदॊच्छिष्टॊ नाधीयीत कथा चन वाते च पूति गन्धे च मनसापि न चिन्तयेत 39 अत्र गादा यमॊथ्गीताः कीर्तयन्ति पुरा विथः आयुर अस्य निकृन्तामि परजाम अस्याथथे तदा 40 य उच्छिष्टः परवथति सवाध्यायं चाधिगच्छति यश चानध्याय काले ऽपि मॊहाथ अभ्यस्यति थविजः तस्माथ युक्तॊ ऽपय अनध्याये नाधीयीत कथा चन 41 परत्य आथित्यं परत्य अनिलं परति गां च परति थविजान ये मेहन्ति च पन्दानं ते भवन्ति गतायुषः 42 उभे मूत्र पुरीषे तु थिवा कुर्याथ उथङ्मुखः थक्षिणाभिमुखॊ रात्रौ तदास्यायुर न रिष्यते 43 तरीन कृशान नावजानीयाथ थीर्घम आयुर जिजीविषुः बराह्मणं कषत्रियं सर्पं सर्वे हय आशीविषास तरयः 44 थहत्य आशीविषः करुथ्धॊ यावत पश्यति चक्षुषा कषत्रियॊ ऽपि थहेत करुथ्धॊ यावत सपृशति तेजसा 45 बराह्मणस तु कुलं हन्याथ धयानेनावेक्षितेन च तस्माथ एतत तरयं यत्नाथ उपसेवेत पण्डितः 46 गुरुणा वैरनिर्बन्धॊ न कर्तव्यः कथा चन अनुमान्यः परसाथ्यश च गुरुः करुथ्धॊ युधिष्ठिर 47 सम्यङ मिद्या परवृत्ते ऽपि वर्तितव्यं गुराव इह गुरु निन्था थहत्य आयुर मनुष्याणां न संशयः 48 थूराथ आवसदान मूत्रं थूरात पाथावसेचनम उच्छिष्टॊत्सर्जनं चैव थूरे कार्यं हितैषिणा 49 नातिकल्पं नातिसायं न च मध्यं थिने सदिते नाज्ञातैः सह गच्छेत नैकॊ न वृषलैः सह 50 पन्दा थेयॊ बराह्मणाय गॊभ्यॊ राजस्य एव च वृथ्धाय भारतप्ताय गर्भिण्यै थुर्बलाय च 51 परथक्षिणं च कुर्वीत परिज्ञातान वनस्पतीन चतुष्पदान परकुर्वीत सर्वान एव परथक्षिणान 52 मध्यं थिने निशाकाले मध्यरात्रे च सर्वथा चतुष्पदान न सेवेत उभे संध्ये तदैव च 53 उपानहौ च वस्त्रं च धृतम अन्यैर न धारयेत बरह्म चारी च नित्यं सयात पाथं पाथेन नाक्रमेत 54 अमावास्यां पौर्णमास्यां चतुर्थश्यां च सर्वशः अष्टम्यां सर्वपक्षाणां बरह्म चारी सथा भवेत 55 वृदा मांसं न खाथेत पृष्ठमांसं तदैव च आक्रॊशं परिवाथं च पैशुन्यं च विवर्जयेत 56 नारुं तुथः सयान न नृशंसवाथी; न हीनतः परम अभ्याथथीत ययास्य वाचा पर उथ्विजेत; न तां वथेथ रुशतीं पापलॊक्याम 57 वाक सायका वथनान निष्पतन्ति; यैर आहतः शॊचति रात्र्यहानि परस्य नामर्मसु ते पतन्ति; तान पण्डितॊ नावसृजेत परेषु 58 रॊहते सायकैर विथ्धं वनं परशुना हतम वाचा थुरुक्तं बीभत्सं न संरॊहति वाक कषतम 59 हीनाङ्गान अतिरिक्ताङ्गान विथ्या हीनान वयॊ ऽधिकान रूपथ्रविण हीनांश च सत्त्वहीनांश च नाक्षिपेत 60 नास्तिक्यं वेथ निन्थां च थेवतानां च कुत्सनम थवेषस्तम्भाभिमानांश च तैक्ष्ण्यं च परिवर्जयेत 61 परस्य थण्डं नॊथ्यच्छेत करॊथ्धॊ नैनं निपातयेत अन्यत्र पुत्राच छिष्याथ वा शिक्षार्दं ताडनं समृतम 62 न बराह्मणान परिवथेन नक्षत्राणि न निर्थिशेत तिदिं पक्षस्य न बरूयात तदास्यायुर न रिष्यते 63 कृत्वा मूत्र पुरीषे तु रद्याम आक्रम्य वा पुनः पाथप्रक्षालनं कुर्यात सवाध्याये भॊजने तदा 64 तरीणि थेवाः पवित्राणि बराह्मणानाम अकल्पयन अथृष्टम अथ्भिर निर्णिक्तं यच च वाचा परशस्यते 65 संयावं कृसरं मांसं शष्कुली पायसं तदा आत्मार्दं न परकर्तव्यं थेवार्दं तु परकल्पयेत 66 नित्यम अग्निं परिचरेथ भिक्षां थथ्याच च नित्यथा वाग्यतॊ थन्तकाष्ठं च नित्यम एव समाचरेत न चाभ्युथित शायी सयात परायश्चित्ती तदा भवेत 67 माता पितरम उत्दाय पूर्वम एवाभिवाथयेत आचार्यम अद वाप्य एनं तदायुर विन्थते महत 68 वर्जयेथ थन्तकाष्टानि वर्जनीयानि नित्यशः भक्षयेच छास्त्र थृष्टानि पर्वस्व अपि च वर्जयेत 69 उथङ्मुखश च सततं शौचं कुर्यात समाहितः 70 अकृत्वा थेवता पूजां नान्यं गच्छेत कथा चन अन्यत्र तु गुरुं वृथ्धं धार्मिकं वा विचक्षणम 71 अवलॊक्यॊ न चाथर्शॊ मलिनॊ बुथ्धिमत्तरैः न चाज्ञातां सत्रियं गच्छेथ गर्भिणीं वा कथा चन 72 उथक्शिरा न सवपेत तदा परत्यक्शिरा न च पराक्शिरास तु सवपेथ विथ्वान अद वा थक्षिणा शिराः 73 न भग्ने नावथीर्णे वा शयने परस्वपेत च नान्तर्धाने न संयुक्ते न च तिर्यक कथा चन 74 न नग्नः कर्हि चित सनायान न निशायां कथा चन सनात्वा च नावमृज्येत गात्राणि सुविचक्षणः 75 न चानुलिम्पेथ अस्नात्वा सनात्वा वासॊ न निर्धुनेत आर्थ्र एव तु वासांसि नित्यं सेवेत मानवः सरजश च नावकर्षेत न बहिर धारयेत च 76 रक्तमाल्यं न धार्यं सयाच छुक्लं धार्यं तु पण्डितैः वर्जयित्वा तु कमलं तदा कुवलयं विभॊ 77 रक्तं शिरसि धार्यं तु तदा वानेयम इत्य अपि काञ्चनी चैव या माला न सा थुष्यति कर्हि चित सनातस्य वर्णकं नित्यम आर्थ्रं थथ्याथ विशां पते 78 विपर्ययं न कुर्वीत वाससॊ बुथ्धिमान नरः तदा नान्यधृतं धार्यं न चापथशम एव च 79 अन्यथ एव भवेथ वासः शयनीये नरॊत्तम अन्यथ रद्यासु थेवानाम अर्चायाम अन्यथ एव हि 80 परियङ्गुचन्थनाभ्यां च बिल्वेन तगरेण च पृदग एवानुलिम्पेत केसरेण च बुथ्धिमान 81 उपवासं च कुर्वीत सनातः शुचिर अलंकृतः पर्वकालेषु सर्वेषु बरह्म चारी सथा भवेत 82 नालीढया परिहतं भक्षयीत कथा चन तदा नॊथ्धृत साराणि पेक्षतां नाप्रथाय च 83 न संनिकृष्टॊ मेधावी नाशुचिर न च सत्सु च परतिषिथ्धान न धर्मेषु भक्षान भुञ्जीत पृष्ठतः 84 पिप्पलं च वटं चैव शणशाकं तदैव च उथुम्बरं न खाथेच च भवार्दी पुरुषॊत्तमः 85 आजं गव्यं च यन मांसं मायूरं चैव वर्जयेत वर्जयेच छुष्क मांसं च तदा पर्युषितं च यत 86 न पाणौ लवणं विथ्वान पराश्नीयान न च रात्रिषु थधि सक्तून न भुञ्जीत वृदा मांसं च वर्जयेत 87 वालेन तु न भुञ्जीत परश्राथ्धं तदैव च सायंप्रातश च भुञ्जीत नान्तराले समाहितः 88 वाग्यतॊ नैकवस्त्रश च नासंविष्टः कथा चन भूमौ सथैव नाश्नीयान नानासीनॊ न शब्थवत 89 तॊयपूर्वं परथायान्नम अतिदिभ्यॊ विशां पते पश्चाथ भुञ्जीत मेधावी न चाप्य अन्यमना नरः 90 समानम एकपङ्क्त्यां तु भॊज्यम अन्नं नरेश्वर विषं हालाहलं भुङ्क्ते यॊ ऽपरथाय सुहृज्जने 91 पानीयं पायसं सर्पिर थधि सक्तु मधून्य अपि निरस्य शेषम एतेषां न परथेयं तु कस्य चित 92 भुञ्जानॊ मनुजव्याघ्रनैव शङ्कां समाचरेत थधि चाप्य अनुपानं वै न कर्तव्यं भवार्दिना 93 आचम्य चैव हस्तेन परिस्राव्य तदॊथकम अङ्गुष्ठं चरणस्याद थक्षिणस्यावसेचयेत 94 पाणिं मूर्ध्नि समाधाय सपृष्ट्वा चाग्निं समाहितः जञातिश्रैष्ठ्यम अवाप्नॊति परयॊग कुशलॊ नरः 95 अथ्भिः पराणान समालभ्य नाभिं पाणितलेन च सपृशंश चैव परतिष्ठेत न चाप्य आर्थ्रेण पाणिना 96 अङ्गुष्ठस्यान्तराले च बराह्मं तीर्दम उथाहृतम कनिष्ठिकायाःपश्चात तु थेव तीर्दम इहॊच्यते 97 अङ्गुष्ठस्य च यन मध्यं परथेशिन्याश च भारत तेन पित्र्याणि कुर्वीत सपृष्ट्वापॊ नयायतस तदा 98 परापवाथं न बरूयान नाप्रियं च कथा चन न मनुः कश चिथ उत्पाथ्यः पुरुषेण भवार्दिना 99 पतितैस तु कदां नेच्छेथ थर्शनं चापि वर्जयेत संसर्गं च न गच्छेत तदायुर विन्थते महत 100 न थिवा मैदुनं गच्छेन न कन्यां न च बन्धकीम न चास्नातां सत्रियं गच्छेत तदायुर विन्थते महत 101 सवे सवे तीर्दे समाचम्य कार्ये समुपकल्पिते तरिः पीत्वापॊ थविः परमृज्य कृतशौचॊ भवेन नरः 102 इन्थ्रियाणि सकृत सपृश्य तरिर अभ्युक्ष्य च मानवः कुर्वीत पित्र्यं थैवं च वेथ थृष्टेन कर्मणा 103 बराह्मणार्दे च यच छौचं तच च मे शृणु कौरव परवृत्तं च हितं चॊक्त्वा भॊजनाथ्य अन्तयॊस तदा 104 सर्वशौचेषु बराह्मेण तीर्देन समुपस्पृशेत निष्ठीव्य तु तदा कषुत्वा सपृश्यापॊ हि शुचिर भवेत 105 वृथ्धॊ जञातिस तदा मित्रं थरिथ्रॊ यॊ भवेथ अपि गृहे वासयितव्यास ते धन्यम आयुष्यम एव च 106 गृहे पारावता धन्याः शुकाश च सहसारिकाः गृहेष्व एते न पापाय तदा वै तैलपायिकाः 107 उथ्थीपकाश च गृध्राश च कपॊता भरमरास तदा निविशेयुर यथा तत्र शान्तिम एव तथाचरेत 108 अमङ्गल्यानि चैतानि तदाक्रॊशॊ महात्मनाम महात्मनां च गुह्यानि न वक्तव्यानि कर्हि चित 109 अगम्याश च न गच्छेत राजपत्नीः सखीस तदा वैथ्यानां बालवृथ्धानां भृत्यानां च युधिष्ठिर 110 बन्धूनां बराह्मणानां च तदा शारणिकस्य च संबन्धिनां च राजेन्थ्र तदायुर विन्थते महत 111 बराह्मण सदपतिभ्यां च निर्मितं यन निवेशनम तथ आवसेत सथा पराज्ञॊ भवार्दी मनुजेश्वर 112 संध्यायां न सवपेथ राजन विथ्यां न च समाचरेत न भुञ्जीत च मेधावी तदायुर विन्थते महत 113 नक्तं न कुर्यात पित्र्याणि भुक्त्वा चैव परसाधनम पानीयस्य करिया नक्तं न कार्या भूतिम इच्छता 114 वर्जनीयाश च वै नित्यं सक्तवॊ निशि भारत शेषाणि चावथातानि पानीयं चैव भॊजने 115 सौहित्यं च न कर्तव्यं रात्रौ नैव समाचरेत थविजच छेथं न कुर्वीत भुक्त्वा नच समाचरेत 116 महाकुलप्रसूतां च परशस्तां लक्षणैस तदा वयःस्दां च महाप्राज्ञ कन्याम आवॊढुम अर्हति 117 अपत्यम उत्पाथ्य ततः परतिष्ठाप्य कुलं तदा पुत्राः परथेया जञानेषु कुलधर्मेषु भारत 118 कन्या चॊत्पाथ्य थातव्या कुलपुत्राय धीमते पुत्रा निवेश्याश च कुलाथ भृत्या लभ्याश च भारत 119 शिरःस्नातॊ ऽद कुर्वीत थैवं पित्र्यम अदापि च नक्षत्रे न च कुर्वीत यस्मिञ जातॊ भवेन नरः न परॊष्ठपथयॊः कार्यं तदाग्नेये च भारत 120 थारुणेषु च सर्वेषु परत्यहं च विवर्जयेत जयॊतिषे यानि चॊक्तानि तानि सर्वाणि वर्जयेत 121 पराङ्मुखः शमश्रुकर्माणि कारयेत समाहितः उथङ्मुखॊ वा राजेन्थ्र तदायुर विन्थते महत 122 परिवाथं न च बरूयात परेषाम आत्मनस तदा परिवाथॊ न धर्माय परॊच्यते भरतर्षभ 123 वर्जयेथ वयङ्गिनीं नारीं तदा कन्यां नरॊत्तम समार्षां वयङ्गितां चैव मातुः सवकुलजां तदा 124 वृथ्धां परव्रजितां चैव तदैव च पतिव्रताम तदातिकृष्ण वर्णां च वर्णॊत्कृष्टां च वर्जयेत 125 अयॊनिं च वियॊनिं च न गच्छेत विचक्षणः पिङ्गलां कुष्ठिनीं नारीं न तवम आवॊढुम अर्हसि 126 अपस्मारि कुले जातां निहीनां चैव वर्जयेत शवित्रिणां च कुले जातां तरयाणां मनुजेश्वर 127 लक्षणैर अन्विता या च परशस्ता या च लक्षणैः मनॊज्ञा थर्शनीया च तां भवान वॊढुम अर्हति 128 महाकुले निवेष्टव्यं सथृशे वा युधिष्ठिर अवरा पतिता चैव न गराह्या भूतिम इच्छता 129 अग्नीन उत्पाथ्य यत्नेन करियाः सुविहिताश च याः वेथेषु बराह्मणैः परॊक्तास ताश च सर्वाः समाचरेत 130 न चेर्ष्या सत्रीषु कर्तव्या थारा रक्ष्याश च सर्वशः अनायुष्या भवेथ ईर्ष्या तस्माथ ईर्ष्यां विवर्जयेत 131 अनायुष्यॊ थिवा सवप्नस तदाभ्युथित शायिता परातर निशायां च तदा ये चॊच्छिष्टाः सवपन्ति वै 132 पारथार्यम अनायुष्यं नापितॊच्च्छिष्टता तदा यत्नतॊ वै न कर्तव्यम अभ्यासश चैव भारत 133 संध्यां न भुञ्जेन न सनायान न पुरीषं समुत्सृजेत परयतश च भवेत तस्यां न च किं चित समाचरेत 134 बराह्मणान पूजयेच चापि तदा सनात्वा नराधिप थेवांश च परणमेत सनातॊ गुरूंश चाप्य अभिवाथयेत 135 अनिमन्त्रितॊ न गच्छेत यज्ञं गच्छेत तु थर्शकः अनिमन्त्रिते हय अनायुष्यं गमनं तत्र भारत 136 न चैकेन परिव्राज्यं न गन्तव्य तदा निशि अनागतायां संध्यायां पश्चिमायां गृहे वसेत 137 मातुः पितुर गुरूणां च कार्यम एवानुशासनम हितं वाप्य अहितं वापि न विचार्यं नरर्षभ 138 धनुर्वेथे च वेथे च यत्नः कार्यॊ नराधिप हस्तिपृष्ठे ऽशवपृष्ठे च रदचर्यासु चैव ह यत्नवान भव राजेन्थ्र यत्नवान सुखम एधते 139 अप्रधृष्यश च शत्रूणां भृत्यानां सवजनस्य च परजापालनयुक्तश च न कषतिं लभते कव चित 140 युक्तिशास्त्रं च ते जञेयं शब्थशास्त्रं च भारत गन्धर्वशास्त्रं च कलाः परिज्ञेया नराधिप 141 पुराणम इतिहासाश च तदाख्यानानि यानि च महात्मनां च चरितं शरॊतव्यं नित्यम एव ते 142 पत्नीं रजस्वलां चैव नाभिगच्छेन न चाह्वयेत सनातां चतुर्दे थिवसे रात्रौ गच्छेथ विचक्षणः 143 पञ्चमे थिवसे नारी षष्ठे ऽहनि पुमान भवेत एतेन विधिना पत्नीम उपगच्छेत पण्डितः 144 जञातिसंबन्धिमित्राणि पूजनीयानि नित्यशः यष्टव्यं च यदाशक्ति यज्ञैर विविधथक्षिणैः अत ऊर्ध्वम अरण्यं च सेवितव्यं नराधिप 145 एष ते लक्षणॊथ्थेश आयुष्याणां परकीर्तितः शेषस तरैविथ्य वृथ्धेभ्यः परत्याहार्यॊ युधिष्ठिर 146 आचारॊ भूतिजनन आचारः कीर्तिवर्धनः आचाराथ वर्धते हय आयुर आचारॊ हन्त्य अलक्षणम 147 आगमानां हि सर्वेषाम आचारः शरेष्ठ उच्यते आचार परभवॊ धर्मॊ धर्माथ आयुर विवर्धते 148 एतथ यशस्यम आयुष्यं सवर्ग्यं सवस्त्ययनं महत अनुकम्पता सर्ववर्णान बरह्मणा समुथाहृतम |
1
[y] śatāyur uktaḥ puruṣaḥ śatavīryaś ca vaidike kasmān mriyante puruṣā bālā api pitāmaha 2 āyuṣmān kena bhavati svalpāyur vāpi mānavaḥ kena vā labhate kīrtiṃ kena vā labhate śriyam 3 tapasā brahmacaryeṇa japair homais tathauṣadhaiḥ janmanā yadi vācārāt tan me brūhi pitāmaha 4 [bh] atra te vartayiṣyāmi yan māṃ tvam anupṛcchasi alpāyur yena bhavati dīrghāyur vāpi mānavaḥ 5 yena vā labhate kīrtiṃ yena vā labhate śriyam yathā ca vartan puruṣaḥ śreyasā saṃprayujyate 6 ācārāl labhate hyāyur ācārāl labhate śriyam ācārāt kīrtim āpnoti puruṣaḥ pretya ceha ca 7 durācāro hi puruṣo nehāyur vindate mahat trasanti yasmād bhūtāni tathā paribhavanti ca 8 tasmāt kuryād ihācāraṃ ya icched bhūtim ātmanaḥ api pāpaśarīrasya ācāro hanty alakṣaṇam 9 ācāra lakṣaṇo dharmaḥ santaś cācāra lakṣaṇāḥ sādhūnāṃ ca yathāvṛttam etad ācāra lakṣaṇam 10 apy adṛṣṭaṃ śrutaṃ vāpi puruṣaṃ dharmacāriṇam bhūtikarmāṇi kurvāṇaṃ taṃ janāḥ kurvate priyam 11 ye nāstikā niṣkriyāś ca guru śāstrātilaṅghinaḥ adharmajñā durācārās te bhavanti gatāyuṣaḥ 12 viśīlā bhinnamaryādā nityaṃ saṃkīrṇa maithunāḥ alpāyuṣo bhavantīha narā nirayagāminaḥ 13 sarvalakṣaṇahīno 'pi samudācāravān naraḥ śraddadhāno 'nasūyuś ca śataṃ varṣāṇi jīvati 14 akrodhanaḥ satyavādī bhūtānām avihiṃsakaḥ anasūyur ajihmaś ca śataṃ varṣāṇi jīvati 15 loṣṭa mardī tṛṇac chedī nakhakhādī ca yo naraḥ nityocchiṣṭaḥ saṃkusuko nehāyur vindate mahat 16 brāhme muhūrte budhyeta dharmārthau cānucintayet utthāyācamya tiṣṭheta pūrvāṃ saṃdhyāṃ kṛtāñjaliḥ 17 evam evāparāṃ saṃdhyāṃ samupāsīta vāgyataḥ nekṣetādityam udyantaṃ nāstaṃ yāntaṃ kadā cana 18 ṛṣayo dīrghasaṃdhyatvād dīrgham āyur avāpnuvan tasmāt tiṣṭhet sadā pūrvāṃ paścimāṃ caiva vāgyataḥ 19 ye ca pūrvām upāsante dvijāḥ saṃdhyāṃ na paścimām sarvāṃs tān dhārmiko rājā śūdra karmāṇi kārayet 20 paradārā na gantavyāḥ sarvavarṇeṣu karhi cit na hīdṛśam anāyuṣyaṃ loke kiṃ cana vidyate yādṛśaṃ puruṣasyeha paradāropasevanam 21 prasādhanaṃ ca keśānām añjanaṃ dantadhāvanam pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam 22 purīṣa mūtre nodīkṣen nādhitiṣṭhet kadā cana udakyayā ca saṃbhāṣāṃ na kurvīta kadā cana 23 notsṛjeta purīṣaṃ ca kṣetre grāmasya cāntike ubhe mūtra purīṣe tu nāpsu kuryāt kadā cana 24 prāṅmukho nityam aśnīyād vāgyato 'nnam akutsayan praskandayec ca manasā bhuktvā cāgnim upaspṛśet 25 āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ dhanyaṃ paścān mukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhaḥ 26 nādhitiṣṭhet tuṣāñ jātu keśabhasma kapālikāḥ anyasya cāpy upasthānaṃ dūrataḥ parivarjayet 27 śānti homāṃś ca kurvīta sāvitrāṇi ca kārayet niṣaṇṇaś cāpi khādeta na tu gacchan kathaṃ cana 28 mūtraṃ na tiṣṭhatā kāryaṃ na bhasmani na govraje 29 ārdra pādas tu bhuñjīta nārdra pādas tu saṃviśet ārdra pādas tu bhuñjāno varṣāṇāṃ jīvate śatam 30 trīṇi tejāṃsi nocchiṣṭa ālabheta kadā cana agiṃ gāṃ brāhmaṇaṃ caiva tathāsyāyur na riṣyate 31 trīṇi tejāṃsi nocchiṣṭa udīkṣeta kadā cana sūryā candramasau caiva nakṣatāṇi ca sarvaśaḥ 32 ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati pratyutthānābhivādābhyāṃ punas tān pratipadyate 33 abhivādayeta vṛddhāṃś ca āsanaṃ caiva dāpayet kṛtāñjalir upāsīta gacchantaṃ pṛṣṭhato 'nviyāt 34 na cāsītāsane bhinne bhinnaṃ kāṃsyaṃ ca varjayet naikavastreṇa bhoktavyaṃ na nagnaḥ snātum arhati svaptavyaṃ naiva nagnena na cocchiṣṭo 'pi saṃviśet 35 ucchiṣṭo na spṛśec chīrṣaṃ sarve prāṇās tadāśrayāḥ keśagrahān prahārāṃś ca śirasy etān vivarjayet 36 na pāṇibhyām ubhābhyāṃ ca kaṇḍūyej jātu vaiś iraḥ na cābhīkṣṇaṃ śiraḥ snāyāt tathāsyāyur na riṣyate 37 śiraḥsnātaś ca tailena nāṅgaṃ kiṃ cid upaspṛśet tilapiṣṭaṃ na cāśnīyāt tathāyur vindate mahat 38 nādhyāpayet tathocchiṣṭo nādhīyīta kadā cana vāte ca pūti gandhe ca manasāpi na cintayet 39 atra gāthā yamodgītāḥ kīrtayanti purā vidaḥ āyur asya nikṛntāmi prajām asyādade tathā 40 ya ucchiṣṭaḥ pravadati svādhyāyaṃ cādhigacchati yaś cānadhyāya kāle 'pi mohād abhyasyati dvijaḥ tasmād yukto 'py anadhyāye nādhīyīta kadā cana 41 praty ādityaṃ praty anilaṃ prati gāṃ ca prati dvijān ye mehanti ca panthānaṃ te bhavanti gatāyuṣaḥ 42 ubhe mūtra purīṣe tu divā kuryād udaṅmukhaḥ dakṣiṇābhimukho rātrau tathāsyāyur na riṣyate 43 trīn kṛśān nāvajānīyād dīrgham āyur jijīviṣuḥ brāhmaṇaṃ kṣatriyaṃ sarpaṃ sarve hy āśīviṣās trayaḥ 44 dahaty āśīviṣaḥ kruddho yāvat paśyati cakṣuṣā kṣatriyo 'pi dahet kruddho yāvat spṛśati tejasā 45 brāhmaṇas tu kulaṃ hanyād dhyānenāvekṣitena ca tasmād etat trayaṃ yatnād upaseveta paṇḍitaḥ 46 guruṇā vairanirbandho na kartavyaḥ kadā cana anumānyaḥ prasādyaś ca guruḥ kruddho yudhiṣṭhira 47 samyaṅ mithyā pravṛtte 'pi vartitavyaṃ gurāv iha guru nindā dahaty āyur manuṣyāṇāṃ na saṃśayaḥ 48 dūrād āvasathān mūtraṃ dūrāt pādāvasecanam ucchiṣṭotsarjanaṃ caiva dūre kāryaṃ hitaiṣiṇā 49 nātikalpaṃ nātisāyaṃ na ca madhyaṃ dine sthite nājñātaiḥ saha gaccheta naiko na vṛṣalaiḥ saha 50 panthā deyo brāhmaṇāya gobhyo rājasya eva ca vṛddhāya bhārataptāya garbhiṇyai durbalāya ca 51 pradakṣiṇaṃ ca kurvīta parijñātān vanaspatīn catuṣpathān prakurvīta sarvān eva pradakṣiṇān 52 madhyaṃ dine niśākāle madhyarātre ca sarvadā catuṣpathān na seveta ubhe saṃdhye tathaiva ca 53 upānahau ca vastraṃ ca dhṛtam anyair na dhārayet brahma cārī ca nityaṃ syāt pādaṃ pādena nākramet 54 amāvāsyāṃ paurṇamāsyāṃ caturdaśyāṃ ca sarvaśaḥ aṣṭamyāṃ sarvapakṣāṇāṃ brahma cārī sadā bhavet 55 vṛthā māṃsaṃ na khādeta pṛṣṭhamāṃsaṃ tathaiva ca ākrośaṃ parivādaṃ ca paiśunyaṃ ca vivarjayet 56 nāruṃ tudaḥ syān na nṛśaṃsavādī; na hīnataḥ param abhyādadīta yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyām 57 vāk sāyakā vadanān niṣpatanti; yair āhataḥ śocati rātryahāni parasya nāmarmasu te patanti; tān paṇḍito nāvasṛjet pareṣu 58 rohate sāyakair viddhaṃ vanaṃ paraśunā hatam vācā duruktaṃ bībhatsaṃ na saṃrohati vāk kṣatam 59 hīnāṅgān atiriktāṅgān vidyā hīnān vayo 'dhikān rūpadraviṇa hīnāṃś ca sattvahīnāṃś ca nākṣipet 60 nāstikyaṃ veda nindāṃ ca devatānāṃ ca kutsanam dveṣastambhābhimānāṃś ca taikṣṇyaṃ ca parivarjayet 61 parasya daṇḍaṃ nodyacchet kroddho nainaṃ nipātayet anyatra putrāc chiṣyād vā śikṣārthaṃ tāḍanaṃ smṛtam 62 na brāhmaṇān parivaden nakṣatrāṇi na nirdiśet tithiṃ pakṣasya na brūyāt tathāsyāyur na riṣyate 63 kṛtvā mūtra purīṣe tu rathyām ākramya vā punaḥ pādaprakṣālanaṃ kuryāt svādhyāye bhojane tathā 64 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate 65 saṃyāvaṃ kṛsaraṃ māṃsaṃ śaṣkulī pāyasaṃ tathā ātmārthaṃ na prakartavyaṃ devārthaṃ tu prakalpayet 66 nityam agniṃ paricared bhikṣāṃ dadyāc ca nityadā vāgyato dantakāṣṭhaṃ ca nityam eva samācaret na cābhyudita śāyī syāt prāyaścittī tathā bhavet 67 mātā pitaram utthāya pūrvam evābhivādayet ācāryam atha vāpy enaṃ tathāyur vindate mahat 68 varjayed dantakāṣṭāni varjanīyāni nityaśaḥ bhakṣayec chāstra dṛṣṭāni parvasv api ca varjayet 69 udaṅmukhaś ca satataṃ śaucaṃ kuryāt samāhitaḥ 70 akṛtvā devatā pūjāṃ nānyaṃ gacchet kadā cana anyatra tu guruṃ vṛddhaṃ dhārmikaṃ vā vicakṣaṇam 71 avalokyo na cādarśo malino buddhimattaraiḥ na cājñātāṃ striyaṃ gacched garbhiṇīṃ vā kadā cana 72 udakśirā na svapeta tathā pratyakśirā na ca prākśirās tu svaped vidvān atha vā dakṣiṇā śirāḥ 73 na bhagne nāvadīrṇe vā śayane prasvapeta ca nāntardhāne na saṃyukte na ca tiryak kadā cana 74 na nagnaḥ karhi cit snāyān na niśāyāṃ kadā cana snātvā ca nāvamṛjyeta gātrāṇi suvicakṣaṇaḥ 75 na cānulimped asnātvā snātvā vāso na nirdhunet ārdra eva tu vāsāṃsi nityaṃ seveta mānavaḥ srajaś ca nāvakarṣeta na bahir dhārayeta ca 76 raktamālyaṃ na dhāryaṃ syāc chuklaṃ dhāryaṃ tu paṇḍitaiḥ varjayitvā tu kamalaṃ tathā kuvalayaṃ vibho 77 raktaṃ śirasi dhāryaṃ tu tathā vāneyam ity api kāñcanī caiva yā mālā na sā duṣyati karhi cit snātasya varṇakaṃ nityam ārdraṃ dadyād viśāṃ pate 78 viparyayaṃ na kurvīta vāsaso buddhimān naraḥ tathā nānyadhṛtaṃ dhāryaṃ na cāpadaśam eva ca 79 anyad eva bhaved vāsaḥ śayanīye narottama anyad rathyāsu devānām arcāyām anyad eva hi 80 priyaṅgucandanābhyāṃ ca bilvena tagareṇa ca pṛthag evānulimpeta kesareṇa ca buddhimān 81 upavāsaṃ ca kurvīta snātaḥ śucir alaṃkṛtaḥ parvakāleṣu sarveṣu brahma cārī sadā bhavet 82 nālīḍhayā parihataṃ bhakṣayīta kadā cana tathā noddhṛta sārāṇi pekṣatāṃ nāpradāya ca 83 na saṃnikṛṣṭo medhāvī nāśucir na ca satsu ca pratiṣiddhān na dharmeṣu bhakṣān bhuñjīta pṛṣṭhataḥ 84 pippalaṃ ca vaṭaṃ caiva śaṇaśākaṃ tathaiva ca udumbaraṃ na khādec ca bhavārthī puruṣottamaḥ 85 ājaṃ gavyaṃ ca yan māṃsaṃ māyūraṃ caiva varjayet varjayec chuṣka māṃsaṃ ca tathā paryuṣitaṃ ca yat 86 na pāṇau lavaṇaṃ vidvān prāśnīyān na ca rātriṣu dadhi saktūn na bhuñjīta vṛthā māṃsaṃ ca varjayet 87 vālena tu na bhuñjīta paraśrāddhaṃ tathaiva ca sāyaṃprātaś ca bhuñjīta nāntarāle samāhitaḥ 88 vāgyato naikavastraś ca nāsaṃviṣṭaḥ kadā cana bhūmau sadaiva nāśnīyān nānāsīno na śabdavat 89 toyapūrvaṃ pradāyānnam atithibhyo viśāṃ pate paścād bhuñjīta medhāvī na cāpy anyamanā naraḥ 90 samānam ekapaṅktyāṃ tu bhojyam annaṃ nareśvara viṣaṃ hālāhalaṃ bhuṅkte yo 'pradāya suhṛjjane 91 pānīyaṃ pāyasaṃ sarpir dadhi saktu madhūny api nirasya śeṣam eteṣāṃ na pradeyaṃ tu kasya cit 92 bhuñjāno manujavyāghranaiva śaṅkāṃ samācaret dadhi cāpy anupānaṃ vai na kartavyaṃ bhavārthinā 93 ācamya caiva hastena parisrāvya tathodakam aṅguṣṭhaṃ caraṇasyātha dakṣiṇasyāvasecayet 94 pāṇiṃ mūrdhni samādhāya spṛṣṭvā cāgniṃ samāhitaḥ jñātiśraiṣṭhyam avāpnoti prayoga kuśalo naraḥ 95 adbhiḥ prāṇān samālabhya nābhiṃ pāṇitalena ca spṛśaṃś caiva pratiṣṭheta na cāpy ārdreṇa pāṇinā 96 aṅguṣṭhasyāntarāle ca brāhmaṃ tīrtham udāhṛtam kaniṣṭhikāyāḥpaścāt tu deva tīrtham ihocyate 97 aṅguṣṭhasya ca yan madhyaṃ pradeśinyāś ca bhārata tena pitryāṇi kurvīta spṛṣṭvāpo nyāyatas tathā 98 parāpavādaṃ na brūyān nāpriyaṃ ca kadā cana na manuḥ kaś cid utpādyaḥ puruṣeṇa bhavārthinā 99 patitais tu kathāṃ necched darśanaṃ cāpi varjayet saṃsargaṃ ca na gaccheta tathāyur vindate mahat 100 na divā maithunaṃ gacchen na kanyāṃ na ca bandhakīm na cāsnātāṃ striyaṃ gacchet tathāyur vindate mahat 101 sve sve tīrthe samācamya kārye samupakalpite triḥ pītvāpo dviḥ pramṛjya kṛtaśauco bhaven naraḥ 102 indriyāṇi sakṛt spṛśya trir abhyukṣya ca mānavaḥ kurvīta pitryaṃ daivaṃ ca veda dṛṣṭena karmaṇā 103 brāhmaṇārthe ca yac chaucaṃ tac ca me śṛṇu kaurava pravṛttaṃ ca hitaṃ coktvā bhojanādy antayos tathā 104 sarvaśauceṣu brāhmeṇa tīrthena samupaspṛśet niṣṭhīvya tu tathā kṣutvā spṛśyāpo hi śucir bhavet 105 vṛddho jñātis tathā mitraṃ daridro yo bhaved api gṛhe vāsayitavyās te dhanyam āyuṣyam eva ca 106 gṛhe pārāvatā dhanyāḥ śukāś ca sahasārikāḥ gṛheṣv ete na pāpāya tathā vai tailapāyikāḥ 107 uddīpakāś ca gṛdhrāś ca kapotā bhramarās tathā niviśeyur yadā tatra śāntim eva tadācaret 108 amaṅgalyāni caitāni tathākrośo mahātmanām mahātmanāṃ ca guhyāni na vaktavyāni karhi cit 109 agamyāś ca na gaccheta rājapatnīḥ sakhīs tathā vaidyānāṃ bālavṛddhānāṃ bhṛtyānāṃ ca yudhiṣṭhira 110 bandhūnāṃ brāhmaṇānāṃ ca tathā śāraṇikasya ca saṃbandhināṃ ca rājendra tathāyur vindate mahat 111 brāhmaṇa sthapatibhyāṃ ca nirmitaṃ yan niveśanam tad āvaset sadā prājño bhavārthī manujeśvara 112 saṃdhyāyāṃ na svaped rājan vidyāṃ na ca samācaret na bhuñjīta ca medhāvī tathāyur vindate mahat 113 naktaṃ na kuryāt pitryāṇi bhuktvā caiva prasādhanam pānīyasya kriyā naktaṃ na kāryā bhūtim icchatā 114 varjanīyāś ca vai nityaṃ saktavo niśi bhārata śeṣāṇi cāvadātāni pānīyaṃ caiva bhojane 115 sauhityaṃ ca na kartavyaṃ rātrau naiva samācaret dvijac chedaṃ na kurvīta bhuktvā naca samācaret 116 mahākulaprasūtāṃ ca praśastāṃ lakṣaṇais tathā vayaḥsthāṃ ca mahāprājña kanyām āvoḍhum arhati 117 apatyam utpādya tataḥ pratiṣṭhāpya kulaṃ tathā putrāḥ pradeyā jñāneṣu kuladharmeṣu bhārata 118 kanyā cotpādya dātavyā kulaputrāya dhīmate putrā niveśyāś ca kulād bhṛtyā labhyāś ca bhārata 119 śiraḥsnāto 'tha kurvīta daivaṃ pitryam athāpi ca nakṣatre na ca kurvīta yasmiñ jāto bhaven naraḥ na proṣṭhapadayoḥ kāryaṃ tathāgneye ca bhārata 120 dāruṇeṣu ca sarveṣu pratyahaṃ ca vivarjayet jyotiṣe yāni coktāni tāni sarvāṇi varjayet 121 prāṅmukhaḥ śmaśrukarmāṇi kārayeta samāhitaḥ udaṅmukho vā rājendra tathāyur vindate mahat 122 parivādaṃ na ca brūyāt pareṣām ātmanas tathā parivādo na dharmāya procyate bharatarṣabha 123 varjayed vyaṅginīṃ nārīṃ tathā kanyāṃ narottama samārṣāṃ vyaṅgitāṃ caiva mātuḥ svakulajāṃ tathā 124 vṛddhāṃ pravrajitāṃ caiva tathaiva ca pativratām tathātikṛṣṇa varṇāṃ ca varṇotkṛṣṭāṃ ca varjayet 125 ayoniṃ ca viyoniṃ ca na gaccheta vicakṣaṇaḥ piṅgalāṃ kuṣṭhinīṃ nārīṃ na tvam āvoḍhum arhasi 126 apasmāri kule jātāṃ nihīnāṃ caiva varjayet śvitriṇāṃ ca kule jātāṃ trayāṇāṃ manujeśvara 127 lakṣaṇair anvitā yā ca praśastā yā ca lakṣaṇaiḥ manojñā darśanīyā ca tāṃ bhavān voḍhum arhati 128 mahākule niveṣṭavyaṃ sadṛśe vā yudhiṣṭhira avarā patitā caiva na grāhyā bhūtim icchatā 129 agnīn utpādya yatnena kriyāḥ suvihitāś ca yāḥ vedeṣu brāhmaṇaiḥ proktās tāś ca sarvāḥ samācaret 130 na cerṣyā strīṣu kartavyā dārā rakṣyāś ca sarvaśaḥ anāyuṣyā bhaved īrṣyā tasmād īrṣyāṃ vivarjayet 131 anāyuṣyo divā svapnas tathābhyudita śāyitā prātar niśāyāṃ ca tathā ye cocchiṣṭāḥ svapanti vai 132 pāradāryam anāyuṣyaṃ nāpitoccchiṣṭatā tathā yatnato vai na kartavyam abhyāsaś caiva bhārata 133 saṃdhyāṃ na bhuñjen na snāyān na purīṣaṃ samutsṛjet prayataś ca bhavet tasyāṃ na ca kiṃ cit samācaret 134 brāhmaṇān pūjayec cāpi tathā snātvā narādhipa devāṃś ca praṇamet snāto gurūṃś cāpy abhivādayet 135 animantrito na gaccheta yajñaṃ gacchet tu darśakaḥ animantrite hy anāyuṣyaṃ gamanaṃ tatra bhārata 136 na caikena parivrājyaṃ na gantavya tathā niśi anāgatāyāṃ saṃdhyāyāṃ paścimāyāṃ gṛhe vaset 137 mātuḥ pitur gurūṇāṃ ca kāryam evānuśāsanam hitaṃ vāpy ahitaṃ vāpi na vicāryaṃ nararṣabha 138 dhanurvede ca vede ca yatnaḥ kāryo narādhipa hastipṛṣṭhe 'śvapṛṣṭhe ca rathacaryāsu caiva ha yatnavān bhava rājendra yatnavān sukham edhate 139 apradhṛṣyaś ca śatrūṇāṃ bhṛtyānāṃ svajanasya ca prajāpālanayuktaś ca na kṣatiṃ labhate kva cit 140 yuktiśāstraṃ ca te jñeyaṃ śabdaśāstraṃ ca bhārata gandharvaśāstraṃ ca kalāḥ parijñeyā narādhipa 141 purāṇam itihāsāś ca tathākhyānāni yāni ca mahātmanāṃ ca caritaṃ śrotavyaṃ nityam eva te 142 patnīṃ rajasvalāṃ caiva nābhigacchen na cāhvayet snātāṃ caturthe divase rātrau gacched vicakṣaṇaḥ 143 pañcame divase nārī ṣaṣṭhe 'hani pumān bhavet etena vidhinā patnīm upagaccheta paṇḍitaḥ 144 jñātisaṃbandhimitrāṇi pūjanīyāni nityaśaḥ yaṣṭavyaṃ ca yathāśakti yajñair vividhadakṣiṇaiḥ ata ūrdhvam araṇyaṃ ca sevitavyaṃ narādhipa 145 eṣa te lakṣaṇoddeśa āyuṣyāṇāṃ prakīrtitaḥ śeṣas traividya vṛddhebhyaḥ pratyāhāryo yudhiṣṭhira 146 ācāro bhūtijanana ācāraḥ kīrtivardhanaḥ ācārād vardhate hy āyur ācāro hanty alakṣaṇam 147 āgamānāṃ hi sarveṣām ācāraḥ śreṣṭha ucyate ācāra prabhavo dharmo dharmād āyur vivardhate 148 etad yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat anukampatā sarvavarṇān brahmaṇā samudāhṛtam |