1
[जनमेजय] शरुतं भगवतस तस्य माहात्म्यं परमात्मनः जन्म धर्मगृहे चैव नरनारायणात्मकम महावराह सृष्टा च पिण्डॊत्पत्तिः पुरातनी 2 परवृत्तौ च निवृत्तौ च यॊ यदा परिकल्पितः स तदा नः शरुतॊ बरह्मन कद्यमानस तवयानघ 3 यच च तत कदितं पूर्वं तवया हयशिरॊ महत हव्यकव्य भुजॊ विष्णॊर उथक पूर्वे महॊथधौ तच च थृष्टं भगवता बरह्मणा परमेष्ठिना 4 किं तथ उत्पाथितं पूर्वं हरिणा लॊकधारिणा रूपं परभावमहताम अपूर्वं धीमतां वर 5 थृष्ट्वा हि विबुधश्रेष्ठम अपूर्वम अमितौजसम तथ अश्वशिरसं पुण्यं बरह्मा किम अकरॊन मुने 6 एतन नः संशयं बरह्मन पुराणज्ञानसंभवम कदयस्वॊत्तम मते महापुरुष निर्मितम पाविताः सम तवया बरह्मन पुण्यां कदयतां कदाम 7 [वैषम्पायन] कदयिष्यामि ते सर्वं पुराणं वेथ संमितम जगौ तथ भगवान वयासॊ राज्ञॊ धर्मसुतस्य वै 8 शरुत्वाश्वशिरसॊ मूर्तिं थेवस्य हरि मेधसः उत्पन्न संशयॊ राजा तम एव समचॊथयत 9 [युधिस्दिर] यत तथ थर्शितवान बरह्मा थेवं हयशिरॊ धरम किमर्दं तत समभवथ वपुर थेवॊपकल्पितम 10 [वयास] यत किं चिथ इह लॊके वै थेहबथ्धं विशां पते सर्वं पञ्चभिर आविष्टं भूतैर ईश्वर बुथ्धिजैः 11 ईश्वरॊ हि जगत सरष्टा परभुर नारायणॊ विरात भूतान्तर आत्मा वरथः सगुणॊ निर्गुणॊ ऽपि च भूतप्रलयम अव्यक्तं शृणुष्व नृपसत्तम 12 धरण्याम अद लीनायाम अप्सु चैकार्णवे पुरा जयॊतिर भूते जले चापि लीने जयॊतिषि चानिले 13 वायौ चाकाशसंलीने आकाशे च मनॊऽनुगे वयक्ते मनसि संलीने वयक्ते चाव्यक्ततां गते 14 अव्यक्ते पुरुषं याते पुंसि सर्वगते ऽपि च तम एवाभवत सर्वं न पराज्ञायत किं चन 15 तमसॊ बरह्म संभूतं तमॊ मूलम ऋतात्मकम तथ विश्वभावसंज्ञान्तं पौरुषीं तनुम आस्दितम 16 सॊ ऽनिरुथ्ध इति परॊक्तस तत परधानं परचक्षते तथ अव्यक्तम इति जञेयं तरिगुणं नृपसत्तम 17 विथ्या सहायवान थेवॊ विष्वक्सेनॊ हरिः परभुः अप्स्व एव शयनं चक्रे निथ्रा यॊगम उपागतः जगतश चिन्तयन सृष्टिं चित्रा बहुगुणॊथ्भवाम 18 तस्य चिन्तयतः सृष्टिं महान आत्मगुणः समृतः अहंकारस ततॊ जातॊ बरह्मा शुभचतुर्मुखः हिरण्यगर्भॊ भगवान सर्वलॊकपितामहः 19 पथ्मे ऽनिरुथ्धात संभूतस तथा पथ्मनिभेक्षणः सहस्रपत्रे थयुतिमान उपविष्टः सनातनः 20 थथृशे ऽथभुतसंकाशे लॊकान आपॊ मयान परभुः सत्त्वस्दः परमेष्ठी स ततॊ भूतगणान सृजत 21 पूर्वम एव च पथ्मस्य पत्रे सूर्यांसु सप्रभे नारायण कृतौ बिन्थुव अपाम आस्तां गुणॊत्तरौ 22 ताव अपश्यत स भगवान अनाथि निधनॊ ऽचयुतः एकस तत्राभवथ बिन्थुर मध्व आभॊ रुचिरप्रभः 23 स तामसॊ मधुर जातस तथा नारायणाज्ञया कदिनस तव अपरॊ बिन्थुः कैतभॊ राजसस तु सः 24 ताव अभ्यधावतां शरेष्ठौ तमॊ रज गुणान्वितौ बलबन्तौ गथाहस्तौ पथ्मनालानुसारिणौ 25 थथृशाते ऽरविन्थस्दं बरह्माणम अमितप्रभम सृजन्तं परदमं वेथांश चतुरश चारु विग्रहान 26 ततॊ विग्रहवन्तौ तौ वेथान थृष्ट्वासुरॊत्तमौ सहसा जगृहतुर वेथान बरह्मणः पश्यतस तथा 27 अद तौ थानव शरेष्ठौ वेथान गृह्य सनातनान रसां विविशतुस तूर्णम उथक पूर्वे महॊथधौ 28 ततॊ हृतेषु वेथेषु बरह्मा कश्मलम आविशत ततॊ वचनम ईशानं पराह वेथैर विनाकृतः 29 वेथा मे परमं चक्षुर वेथा मे परमं बलम वेथा मे परमं धाम वेथा मे बरह्म चॊत्तमम 30 मम वेथा हृताः सर्वे थानवाभ्यां बलाथ इतः अन्धकारा हि मे लॊका जाता वेथैर विनाकृताः वेथान ऋते हि किं कुर्यां लॊकान वै सरष्टुम उथ्यतः 31 अहॊ बत महथ थुःखं वेथ नाशनजं मम पराप्तं थुनॊति हृथयं तीव्रशॊकाय रन्धयन 32 कॊ हि शॊकार्णवे मग्नं माम इतॊ ऽथय समुथ्धरेत वेथांस तान आनयेन नस्तान कस्य चाहं परियॊ भवे 33 इत्य एवं भासमानस्य बरह्मणॊ नृपसत्तम हरेः सतॊत्रार्दम उथ्भूता बुथ्धिर बुथ्धिमतां वर ततॊ जगौ परं जप्यं साञ्जलि परग्रहः परभुः 34 नमस ते बरह्म हृथयनमस ते मम पूर्वज लॊकाथ य भुवन शरेष्ठ सांख्ययॊगनिधे विभॊ 35 वयक्ताव्यक्त कराचिन्त्य कषेमं पन्दानम आस्दित विश्वभुक सर्वभूतानाम अन्तरात्मन्न अयॊनिज 36 अहं परसाथजस तुभ्यं लॊकधाम्ने सवयम्भुवे तवत्तॊ मे मानसं जन्म परदमं थविज पूजितम 37 चाक्षुषं वै थवितीयं मे जन्म चासीत पुरातनम तवत्प्रसाथाच च मे जन्म तृतीयं वाचिकं महत 38 तवत्तः शरवणजं चापि चतुर्दं जन्म मे विभॊ नासिक्यं चापि मे जन्म तवत्तः पञ्चमम उच्यते 39 अन्थजं चापि मे जन्म तवत्तः सस्दं विनिर्मितम इथं च सप्तमं जन्म पथ्मजं मे ऽमितप्रभ 40 सर्गे सर्गे हय अहं पुत्रस तव तरिगुण वर्जितः परदितः पुन्थरीकाक्ष परधानगुणकल्पितः 41 तवम ईश्वर सवभावश च सवयम्भूः पुरुषॊत्तमः तवया विनिर्मितॊ ऽहं वै वेथ चक्षुर वयॊतिगः 42 ते मे वेथा हृताश चक्षुर अन्धॊ जातॊ ऽसमि जागृहि थथस्व चक्षुषी मह्यं परियॊ ऽहं ते परियॊ ऽसि मे 43 एवं सतुतः स भगवान पुरुषः सर्वतॊ मुखः जहौ निथ्राम अद तथा वेथ कार्यार्दम उथ्यतः ऐश्वरेण परयॊगेण थवितीयां तनुम आस्दितः 44 सुनासिकेन कायेन भूत्वा चन्थ्रप्रभस तथा कृत्वा हयशिरः शुभ्रं वेथानाम आलयं परभुः 45 तस्य मूर्धा समभवथ थयैः सनक्षत्र तारका केशाश चास्याभवन थीर्घा रवेर अंशुसमप्रभाः 46 कर्णावकाश पाताले ललातं भूतधारिणी गङ्गा सरस्वती पुण्या भरुवाव आस्तां महानथी 47 चक्षुषी सॊमसूर्यौ ते नासा संध्या पुनः समृता ओंकारस तव अद संस्कारॊ विथ्युज्जिह्वा च निर्मिता 48 थन्ताश च पितरॊ राजन सॊमपा इति विश्रुताः गॊलॊकॊ बरह्मलॊकश च ओष्ठाव आस्तां महात्मनः गरीवा चास्याभवथ राजन कालरात्रिर गुणॊत्तरा 49 एतथ धयशिरः कृत्वा नाना मूर्तिभिर आवृतम अन्तर्थधे स विश्वेशॊ विवेश च रसां परभुः 50 रसां पुनः परविष्टश च यॊगं परमम आस्दितः शैक्षं सवरं समास्दाय ओम इति परसृजत सवरम 51 सस्वरः सानुनाथी च सर्वगः सनिग्ध एव च बभूवान्तर्मही भूतः सर्वभूतगुणॊथितः 52 ततस ताव असुरौ कृत्वा वेथान समयबन्धनान रसातले विनिक्षिप्य यतः शब्थस ततॊ थरुतौ 53 एतस्मिन्न अन्तरे राजन थेवॊ हयशिरॊधरः जग्राह वेथान अखिलान रसातल गतान हरिः पराथाच च बरह्मणे भूयस ततः सवां परकृतिं गतः 54 सदापयित्वा हयशिरश उथक पूर्वे महॊथधौ वेथानाम आलयश चापि बभूवाश्वशिरास ततः 55 अद किं चिथ अपश्यन्तौ थानवौ मधु कैतभौ पुनर आजग्मतुस तत्र वेगितौ पस्यतां च तौ यत्र वेथा विनिक्षिप्तास तत सदानं शून्यम एव च 56 तत उत्तमम आस्दाय वेगं बलवतां वरौ पुनर उत्तस्दतुः शीघ्रं रसानाम आलयात तथा थथृशाते च पुरुषं तम एवाथि करं परभुम 57 शवेतं चन्थ्र विशुथ्धाभम अनिरुथ्ध तनौ सदितम भूयॊ ऽपय अमितविक्रान्तं निथ्रा यॊगम उपागतम 58 आत्मप्रमाण रचिते अपाम उपरि कल्पिते शयने नागभॊगाथ्ये जवालामालासमावृते 59 निष्कल्मसेन सत्त्वेन संपन्नं रुचिरप्रभम तं थृष्ट्वा थानवेन्थ्रौ तौ महाहासम अमुञ्चताम 60 ऊचतुश च समाविष्टौ रजसा तमसा च तौ अयं स पुरुषः शवेतः शेते निथ्राम उपागतः 61 अनेन नूनं वेथानां कृतम आहरणं रसात कस्यैष कॊ नु खल्व एष किं च सवपिति भॊगवान 62 इत्य उच्चारित वाक्यौ तौ बॊधयाम आसतुर हरिम युथ्धार्दिनौ तु विज्ञाय विबुथ्धः पुरुषॊत्तमः 63 निरीक्ष्य चासुरेन्थ्रौ तौ ततॊ युथ्धे मनॊ थधे अद युथ्धं समभवत तयॊर नारायणस्य च 64 रजस तमॊ विष्ट तनू ताव उभौ मधु कैतभौ बरह्मणॊपचितिं कुर्वञ जघान मधुसूथनः 65 ततस तयॊर वधेनाशु वेथापहरणेन च शॊकापनयनं चक्रे बरह्मणः पुरुषॊत्तमः 66 ततः परिवृतॊ बरह्मा हतारिर वेथ सत्कृतः निर्ममे स तथा लॊकान कृत्स्नान सदावरजङ्गमान 67 थत्त्वा पितामहायाग्र्यां बुथ्धिं लॊकविसर्गिकीम तत्रैवान्तर्थधे थेवॊ यत एवागतॊ हरिः 68 तौ थानवौ हरिर हत्वा कृत्वा हयशिरस तनुम पुनः परवृत्ति धर्मार्दं ताम एव विथधे तनुम 69 एवम एष महाभागॊ बभूवाश्वशिरा हरिः पौराणम एतथ आख्यातं रूपं वरथम ऐश्वरम 70 यॊ हय एतथ बराह्मणॊ नित्यं शृणुयाथ धारयेत वा न तस्याध्ययनं नाशम उपगच्छेत कथा चन 71 आराध्य तपसॊग्रेण थेवं हर शिरॊधरम पञ्चालेन करमः पराप्तॊ रामेण पदि थेशिते 72 एतथ धयशिरॊ राजन्न आख्यानं तव कीर्तितम पुराणं वेथ समितं यन मां तवं परिपृच्छसि 73 यां याम इच्छेत तनुं थेवः कर्तुं कार्यविधौ कव चित तां तां कुर्याथ विकुर्वाणः सवयम आत्मानम आत्मना 74 एष वेथ निधिः शरीमान एष वै तपसॊ निधिः एष यॊगश च सांख्यं च बरह्म चाग्र्यं हरिर विभुः 75 नारायण परा वेथा यज्ञा नारायणात्मकाः तपॊ नारायण परं नारायण परा गतिः 76 नारायण परं सत्यम ऋतं नारायणात्मकम नारायण परॊ धर्मः पुनर आवृत्ति थुर्लभः 77 परवृत्ति लक्षणश चैव धर्मॊ नारायणात्मकः नारायणात्मकॊ गन्धॊ भूमौ शरेष्ठतमः समृतः 78 अपां चैव गुणॊ राजन रसॊ नारायणात्मकः जयॊतिषां च गुणॊ रूपं समृतं नारायणात्मकम 79 नारायणात्मकश चापि सपर्शॊ वायुगुणः समृतः नारायणात्मकश चापि शब्थ आकाशसंभवः 80 मनश चापि ततॊ भूतम अव्यक्तगुण लक्षणम नारायण परः कालॊ जयॊतिषाम अयनं च यत 81 नारायण परा कीर्तिः शरीश च लक्ष्मीश च थेवताः नारायण परं सांख्यं यॊगॊ नारायणात्मकः 82 कारणं पुरुषॊ येषां परधानं चापि कारणम सवभावश चैव कर्माणि थैवं येषां च कारणम 83 पञ्च कारणसंख्यातॊ निष्ठा सर्वत्र वै हरिः तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतॊ मुखैः 84 तत्त्वम एकॊ मया यॊगी हरिर नारायणः परभुः सब्रह्मकानां लॊकानाम ऋषीणां च महात्मनाम 85 सांख्यानां यॊगिनां चापि यतीनाम आत्मवेथिनाम मनीसितं विजानाति केशवॊ न तु तस्य ते 86 ये के चित सर्वलॊकेषु थैवं पित्र्यं च कुर्वते थानानि च परयच्छन्ति तप्यन्ति च तपॊ महत 87 सर्वेषाम आश्रयॊ विष्णुर ऐश्वरं विधिम आस्दितः सर्वभूतकृतावासॊ वासुथेवेति चॊच्यते 88 अयं हि नित्यः परमॊ महर्षिर; महाविभूतिर गुणवान निर्गुणाख्यः गुणैश च संयॊगम उपैति शीघ्रं; कालॊ यदर्ताव ऋतुसंप्रयुक्तः 89 नैवास्य विन्थन्ति गतिं महात्मनॊ; न चागतिं कश चिथ इहानुपस्यति जञानात्मकाः संयमिनॊ महर्षयः; पश्यन्ति नित्यं पुरुषं गुणाधिकम |
1
[janamejaya] śrutaṃ bhagavatas tasya māhātmyaṃ paramātmanaḥ janma dharmagṛhe caiva naranārāyaṇātmakam mahāvarāha sṛṣṭā ca piṇḍotpattiḥ purātanī 2 pravṛttau ca nivṛttau ca yo yathā parikalpitaḥ sa tathā naḥ śruto brahman kathyamānas tvayānagha 3 yac ca tat kathitaṃ pūrvaṃ tvayā hayaśiro mahat havyakavya bhujo viṣṇor udak pūrve mahodadhau tac ca dṛṣṭaṃ bhagavatā brahmaṇā parameṣṭhinā 4 kiṃ tad utpāditaṃ pūrvaṃ hariṇā lokadhāriṇā rūpaṃ prabhāvamahatām apūrvaṃ dhīmatāṃ vara 5 dṛṣṭvā hi vibudhaśreṣṭham apūrvam amitaujasam tad aśvaśirasaṃ puṇyaṃ brahmā kim akaron mune 6 etan naḥ saṃśayaṃ brahman purāṇajñānasaṃbhavam kathayasvottama mate mahāpuruṣa nirmitam pāvitāḥ sma tvayā brahman puṇyāṃ kathayatāṃ kathām 7 [vaiṣampāyana] kathayiṣyāmi te sarvaṃ purāṇaṃ veda saṃmitam jagau tad bhagavān vyāso rājño dharmasutasya vai 8 śrutvāśvaśiraso mūrtiṃ devasya hari medhasaḥ utpanna saṃśayo rājā tam eva samacodayat 9 [yudhisthira] yat tad darśitavān brahmā devaṃ hayaśiro dharam kimarthaṃ tat samabhavad vapur devopakalpitam 10 [vyāsa] yat kiṃ cid iha loke vai dehabaddhaṃ viśāṃ pate sarvaṃ pañcabhir āviṣṭaṃ bhūtair īśvara buddhijaiḥ 11 īśvaro hi jagat sraṣṭā prabhur nārāyaṇo virāt bhūtāntar ātmā varadaḥ saguṇo nirguṇo 'pi ca bhūtapralayam avyaktaṃ śṛṇuṣva nṛpasattama 12 dharaṇyām atha līnāyām apsu caikārṇave purā jyotir bhūte jale cāpi līne jyotiṣi cānile 13 vāyau cākāśasaṃlīne ākāśe ca mano'nuge vyakte manasi saṃlīne vyakte cāvyaktatāṃ gate 14 avyakte puruṣaṃ yāte puṃsi sarvagate 'pi ca tama evābhavat sarvaṃ na prājñāyata kiṃ cana 15 tamaso brahma saṃbhūtaṃ tamo mūlam ṛtātmakam tad viśvabhāvasaṃjñāntaṃ pauruṣīṃ tanum āsthitam 16 so 'niruddha iti proktas tat pradhānaṃ pracakṣate tad avyaktam iti jñeyaṃ triguṇaṃ nṛpasattama 17 vidyā sahāyavān devo viṣvakseno hariḥ prabhuḥ apsv eva śayanaṃ cakre nidrā yogam upāgataḥ jagataś cintayan sṛṣṭiṃ citrā bahuguṇodbhavām 18 tasya cintayataḥ sṛṣṭiṃ mahān ātmaguṇaḥ smṛtaḥ ahaṃkāras tato jāto brahmā śubhacaturmukhaḥ hiraṇyagarbho bhagavān sarvalokapitāmahaḥ 19 padme 'niruddhāt saṃbhūtas tadā padmanibhekṣaṇaḥ sahasrapatre dyutimān upaviṣṭaḥ sanātanaḥ 20 dadṛśe 'dbhutasaṃkāśe lokān āpo mayān prabhuḥ sattvasthaḥ parameṣṭhī sa tato bhūtagaṇān sṛjat 21 pūrvam eva ca padmasya patre sūryāṃsu saprabhe nārāyaṇa kṛtau binduv apām āstāṃ guṇottarau 22 tāv apaśyat sa bhagavān anādi nidhano 'cyutaḥ ekas tatrābhavad bindur madhv ābho ruciraprabhaḥ 23 sa tāmaso madhur jātas tadā nārāyaṇājñayā kathinas tv aparo binduḥ kaitabho rājasas tu saḥ 24 tāv abhyadhāvatāṃ śreṣṭhau tamo raja guṇānvitau balabantau gadāhastau padmanālānusāriṇau 25 dadṛśāte 'ravindasthaṃ brahmāṇam amitaprabham sṛjantaṃ prathamaṃ vedāṃś caturaś cāru vigrahān 26 tato vigrahavantau tau vedān dṛṣṭvāsurottamau sahasā jagṛhatur vedān brahmaṇaḥ paśyatas tadā 27 atha tau dānava śreṣṭhau vedān gṛhya sanātanān rasāṃ viviśatus tūrṇam udak pūrve mahodadhau 28 tato hṛteṣu vedeṣu brahmā kaśmalam āviśat tato vacanam īśānaṃ prāha vedair vinākṛtaḥ 29 vedā me paramaṃ cakṣur vedā me paramaṃ balam vedā me paramaṃ dhāma vedā me brahma cottamam 30 mama vedā hṛtāḥ sarve dānavābhyāṃ balād itaḥ andhakārā hi me lokā jātā vedair vinākṛtāḥ vedān ṛte hi kiṃ kuryāṃ lokān vai sraṣṭum udyataḥ 31 aho bata mahad duḥkhaṃ veda nāśanajaṃ mama prāptaṃ dunoti hṛdayaṃ tīvraśokāya randhayan 32 ko hi śokārṇave magnaṃ mām ito 'dya samuddharet vedāṃs tān ānayen nastān kasya cāhaṃ priyo bhave 33 ity evaṃ bhāsamānasya brahmaṇo nṛpasattama hareḥ stotrārtham udbhūtā buddhir buddhimatāṃ vara tato jagau paraṃ japyaṃ sāñjali pragrahaḥ prabhuḥ 34 namas te brahma hṛdayanamas te mama pūrvaja lokād ya bhuvana śreṣṭha sāṃkhyayoganidhe vibho 35 vyaktāvyakta karācintya kṣemaṃ panthānam āsthita viśvabhuk sarvabhūtānām antarātmann ayonija 36 ahaṃ prasādajas tubhyaṃ lokadhāmne svayambhuve tvatto me mānasaṃ janma prathamaṃ dvija pūjitam 37 cākṣuṣaṃ vai dvitīyaṃ me janma cāsīt purātanam tvatprasādāc ca me janma tṛtīyaṃ vācikaṃ mahat 38 tvattaḥ śravaṇajaṃ cāpi caturthaṃ janma me vibho nāsikyaṃ cāpi me janma tvattaḥ pañcamam ucyate 39 andajaṃ cāpi me janma tvattaḥ sasthaṃ vinirmitam idaṃ ca saptamaṃ janma padmajaṃ me 'mitaprabha 40 sarge sarge hy ahaṃ putras tava triguṇa varjitaḥ prathitaḥ pundarīkākṣa pradhānaguṇakalpitaḥ 41 tvam īśvara svabhāvaś ca svayambhūḥ puruṣottamaḥ tvayā vinirmito 'haṃ vai veda cakṣur vayotigaḥ 42 te me vedā hṛtāś cakṣur andho jāto 'smi jāgṛhi dadasva cakṣuṣī mahyaṃ priyo 'haṃ te priyo 'si me 43 evaṃ stutaḥ sa bhagavān puruṣaḥ sarvato mukhaḥ jahau nidrām atha tadā veda kāryārtham udyataḥ aiśvareṇa prayogeṇa dvitīyāṃ tanum āsthitaḥ 44 sunāsikena kāyena bhūtvā candraprabhas tadā kṛtvā hayaśiraḥ śubhraṃ vedānām ālayaṃ prabhuḥ 45 tasya mūrdhā samabhavad dyaiḥ sanakṣatra tārakā keśāś cāsyābhavan dīrghā raver aṃśusamaprabhāḥ 46 karṇāvakāśa pātāle lalātaṃ bhūtadhāriṇī gaṅgā sarasvatī puṇyā bhruvāv āstāṃ mahānadī 47 cakṣuṣī somasūryau te nāsā saṃdhyā punaḥ smṛtā oṃkāras tv atha saṃskāro vidyujjihvā ca nirmitā 48 dantāś ca pitaro rājan somapā iti viśrutāḥ goloko brahmalokaś ca oṣṭhāv āstāṃ mahātmanaḥ grīvā cāsyābhavad rājan kālarātrir guṇottarā 49 etad dhayaśiraḥ kṛtvā nānā mūrtibhir āvṛtam antardadhe sa viśveśo viveśa ca rasāṃ prabhuḥ 50 rasāṃ punaḥ praviṣṭaś ca yogaṃ paramam āsthitaḥ śaikṣaṃ svaraṃ samāsthāya om iti prasṛjat svaram 51 sasvaraḥ sānunādī ca sarvagaḥ snigdha eva ca babhūvāntarmahī bhūtaḥ sarvabhūtaguṇoditaḥ 52 tatas tāv asurau kṛtvā vedān samayabandhanān rasātale vinikṣipya yataḥ śabdas tato drutau 53 etasminn antare rājan devo hayaśirodharaḥ jagrāha vedān akhilān rasātala gatān hariḥ prādāc ca brahmaṇe bhūyas tataḥ svāṃ prakṛtiṃ gataḥ 54 sthāpayitvā hayaśiraś udak pūrve mahodadhau vedānām ālayaś cāpi babhūvāśvaśirās tataḥ 55 atha kiṃ cid apaśyantau dānavau madhu kaitabhau punar ājagmatus tatra vegitau pasyatāṃ ca tau yatra vedā vinikṣiptās tat sthānaṃ śūnyam eva ca 56 tata uttamam āsthāya vegaṃ balavatāṃ varau punar uttasthatuḥ śīghraṃ rasānām ālayāt tadā dadṛśāte ca puruṣaṃ tam evādi karaṃ prabhum 57 śvetaṃ candra viśuddhābham aniruddha tanau sthitam bhūyo 'py amitavikrāntaṃ nidrā yogam upāgatam 58 ātmapramāṇa racite apām upari kalpite śayane nāgabhogādye jvālāmālāsamāvṛte 59 niṣkalmasena sattvena saṃpannaṃ ruciraprabham taṃ dṛṣṭvā dānavendrau tau mahāhāsam amuñcatām 60 ūcatuś ca samāviṣṭau rajasā tamasā ca tau ayaṃ sa puruṣaḥ śvetaḥ śete nidrām upāgataḥ 61 anena nūnaṃ vedānāṃ kṛtam āharaṇaṃ rasāt kasyaiṣa ko nu khalv eṣa kiṃ ca svapiti bhogavān 62 ity uccārita vākyau tau bodhayām āsatur harim yuddhārthinau tu vijñāya vibuddhaḥ puruṣottamaḥ 63 nirīkṣya cāsurendrau tau tato yuddhe mano dadhe atha yuddhaṃ samabhavat tayor nārāyaṇasya ca 64 rajas tamo viṣṭa tanū tāv ubhau madhu kaitabhau brahmaṇopacitiṃ kurvañ jaghāna madhusūdanaḥ 65 tatas tayor vadhenāśu vedāpaharaṇena ca śokāpanayanaṃ cakre brahmaṇaḥ puruṣottamaḥ 66 tataḥ parivṛto brahmā hatārir veda satkṛtaḥ nirmame sa tadā lokān kṛtsnān sthāvarajaṅgamān 67 dattvā pitāmahāyāgryāṃ buddhiṃ lokavisargikīm tatraivāntardadhe devo yata evāgato hariḥ 68 tau dānavau harir hatvā kṛtvā hayaśiras tanum punaḥ pravṛtti dharmārthaṃ tām eva vidadhe tanum 69 evam eṣa mahābhāgo babhūvāśvaśirā hariḥ paurāṇam etad ākhyātaṃ rūpaṃ varadam aiśvaram 70 yo hy etad brāhmaṇo nityaṃ śṛṇuyād dhārayeta vā na tasyādhyayanaṃ nāśam upagacchet kadā cana 71 ārādhya tapasogreṇa devaṃ hara śirodharam pañcālena kramaḥ prāpto rāmeṇa pathi deśite 72 etad dhayaśiro rājann ākhyānaṃ tava kīrtitam purāṇaṃ veda samitaṃ yan māṃ tvaṃ paripṛcchasi 73 yāṃ yām icchet tanuṃ devaḥ kartuṃ kāryavidhau kva cit tāṃ tāṃ kuryād vikurvāṇaḥ svayam ātmānam ātmanā 74 eṣa veda nidhiḥ śrīmān eṣa vai tapaso nidhiḥ eṣa yogaś ca sāṃkhyaṃ ca brahma cāgryaṃ harir vibhuḥ 75 nārāyaṇa parā vedā yajñā nārāyaṇātmakāḥ tapo nārāyaṇa paraṃ nārāyaṇa parā gatiḥ 76 nārāyaṇa paraṃ satyam ṛtaṃ nārāyaṇātmakam nārāyaṇa paro dharmaḥ punar āvṛtti durlabhaḥ 77 pravṛtti lakṣaṇaś caiva dharmo nārāyaṇātmakaḥ nārāyaṇātmako gandho bhūmau śreṣṭhatamaḥ smṛtaḥ 78 apāṃ caiva guṇo rājan raso nārāyaṇātmakaḥ jyotiṣāṃ ca guṇo rūpaṃ smṛtaṃ nārāyaṇātmakam 79 nārāyaṇātmakaś cāpi sparśo vāyuguṇaḥ smṛtaḥ nārāyaṇātmakaś cāpi śabda ākāśasaṃbhavaḥ 80 manaś cāpi tato bhūtam avyaktaguṇa lakṣaṇam nārāyaṇa paraḥ kālo jyotiṣām ayanaṃ ca yat 81 nārāyaṇa parā kīrtiḥ śrīś ca lakṣmīś ca devatāḥ nārāyaṇa paraṃ sāṃkhyaṃ yogo nārāyaṇātmakaḥ 82 kāraṇaṃ puruṣo yeṣāṃ pradhānaṃ cāpi kāraṇam svabhāvaś caiva karmāṇi daivaṃ yeṣāṃ ca kāraṇam 83 pañca kāraṇasaṃkhyāto niṣṭhā sarvatra vai hariḥ tattvaṃ jijñāsamānānāṃ hetubhiḥ sarvato mukhaiḥ 84 tattvam eko mayā yogī harir nārāyaṇaḥ prabhuḥ sabrahmakānāṃ lokānām ṛṣīṇāṃ ca mahātmanām 85 sāṃkhyānāṃ yogināṃ cāpi yatīnām ātmavedinām manīsitaṃ vijānāti keśavo na tu tasya te 86 ye ke cit sarvalokeṣu daivaṃ pitryaṃ ca kurvate dānāni ca prayacchanti tapyanti ca tapo mahat 87 sarveṣām āśrayo viṣṇur aiśvaraṃ vidhim āsthitaḥ sarvabhūtakṛtāvāso vāsudeveti cocyate 88 ayaṃ hi nityaḥ paramo maharṣir; mahāvibhūtir guṇavān nirguṇākhyaḥ guṇaiś ca saṃyogam upaiti śīghraṃ; kālo yathartāv ṛtusaṃprayuktaḥ 89 naivāsya vindanti gatiṃ mahātmano; na cāgatiṃ kaś cid ihānupasyati jñānātmakāḥ saṃyamino maharṣayaḥ; paśyanti nityaṃ puruṣaṃ guṇādhikam |