1
[अर्जुन] अग्नीषॊमौ कदं पूर्वम एकयॊनी परवर्तितौ एष मे संशयॊ जातस तं छिन्धि मधुसूथन 2 [षरीभगवान] हन्त ते वर्तयिष्यामि पुराणं पाण्डुनन्थन आत्मतेजॊथ्भवं पार्द शृणुष्वैक मना मम 3 संप्रक्षालन काले ऽतिक्रान्ते चतुर्दे युगसहस्रान्ते अव्यक्ते सर्वभूतप्रलये सदावरजङ्गमे जयॊतिर धरणिवायुरहिते ऽनधे तमसि जलैकार्णवे लॊके तम इत्य एवाभिबूते ऽथवितीये परतिष्ठिते नैव रात्र्यां न थिवसे न सति नासति न वयक्ते नाव्यक्ते वयवस्दिते एतस्याम अवस्दायां नारायण गुणाश्रयाथ अक्षयाथ अजराथ अनिन्थ्रियाथ अग्राह्याथ असंभवात सत्याथ अहिंस्राल ललामाथ विविधप्रवृत्ति विशेषात अक्षयाथ अजरामराथ अमूर्तितः सर्वव्यापिनः सर्वकर्तुः शाश्वतात तमसः पुरुषः पराथुर्भूतॊ हरिर अव्ययः 4 निथर्शनम अपि हय अत्र भवति नासीथ अहॊ न रात्रिर आसीत न सथ आसीन नासथ आसीत तम एव पुरस्ताथ अभवथ विश्वरूपम सा विश्वस्य जननीत्य एवम अस्यार्दॊ ऽनुभास्यते 5 तस्येथानीं तमः संभवस्य पुरुषस्य पथ्मयॊनेर बरह्मणः पराथुर भावे स पुरुषः परजाः सिसृक्षमाणॊ नेत्राभ्याम अग्नीषॊमौ ससर्ज ततॊ भूतसर्गे परवृत्तेप्रजा करमवशाथ बरह्मक्षत्रम उपातिष्ठत यः सॊमस तथ बरह्म यथ बरह्म ते बराह्मणाः यॊ ऽगनिस तत कषत्रं कषत्राथ बरह्मबलवत्तरम कस्माथ इति लॊकप्रत्यक्षगुणम एतत तथ यदा बराह्मणेभ्यः परं भूतं नॊत्पन्न पूर्वम थीप्यमाने ऽगनौ जुहॊतीति कृत्वा बरवीमि भूतसर्गः कृतॊ बरह्मणा भूतानि च परस्दाप्य तरौलॊक्यं धार्यतेति 6 मन्त्रवाथॊ ऽपी हि भवति तवम अग्ने यज्ञानां हॊता विश्वेषाम हितॊ थेवेनभिर मानुषे जन इति निथर्शनं चात्र भवति विश्वेषाम अग्ने यज्ञानां हॊतेति हितॊ थेवैर मानुषैर जगत इति अग्निर हि यज्ञानां हॊतृकर्ता स चाग्निर बरह्म 7 न हय ऋते मन्त्राथ धवनम अस्ति न विना पुरुषं तपः संभवति हविर मन्त्राणां संपूजा विथ्यते थेवमनुष्याणाम अनेन तवं हॊतेति नियुक्तः ये च मानुषा हॊत्राधिकारास ते च बराह्मणस्यहि याजनं विधीयते न कषत्रवैश्ययॊर थविजात्यॊः तस्माथ बराह्मणा हय अग्निभूता यज्ञान उथ्वहन्ति यज्ञा थेवांस तर्पयन्ति थेवाः पृदिवीं भावयन्ति 8 शतपदे हि बराह्मणं भवति अग्नौ समिथ्धे स जुहॊति यॊ विथ्वान बराह्मण मुखे थानाहुतिं जुहॊति एवम अप्य अग्निभूता बराह्मणा विथ्वांसॊ ऽगनिं भावयन्ति अग्निर विष्णुः सर्वभूतान्य अनुप्रविश्य पराणान धारयति अपि चात्र सनत्कुमार गीताः शलॊका भवन्ति 9 विश्वं बरह्मासृजत पूर्वं सर्वाथिर निरवस्करम बरह्मघॊषैर थिवं तिष्ठन्त्य अमरा बरह्मयॊनयः 10 बराह्मणानां मतिर वाक्यं कर्म शरथ्धा तपांसि च धारयन्ति महीं थयां च शैत्याथ वार्य अमृतं यदा 11 नास्ति सत्यात परॊ धर्मॊ नास्ति मातृसमॊ गुरुः बराह्मणेभ्यः परं नास्ति परेत्य चेहच भूतये 12 नैषाम उक्षा वर्धते नॊत वाहा; न गर्गरॊ मद्यते संप्रथाने अपध्वस्ता थस्युभूता भवन्ति; येषां राष्ट्रे बराह्मणा वृत्तिहीनाः 13 वेथ पुराणेतिहास परामान्यान नारायण मुखॊथ्गताः सर्वात्मनः सर्वकर्तारः सर्वभावनाश च बराह्मणाः वाक समकालं हि तस्य थेवस्य वरप्रथस्य बराह्मणाः परदमं पराथुर्भूता बराह्मणेभ्यश च शेषा वर्णाः पराथुर्भूताः इत्दं च सुरासुरविशिष्टा बराह्मणा यथा मया बरह्मभूतेन पुरा सवयम एवॊत्पाथिताः सुरासुरमहर्षयॊ भूतविशेषाः सदापिता निगृहीताश च 14 अहल्या धर्षणनिमित्तं हि गौतमाथ धरि शमश्रुताम इन्थ्रः पराप्तः कौशिक निमित्तं चेन्थ्रॊ मुष्क वियॊगं मेषवृषणत्वं चावाप अश्विनॊर गरहप्रतिषेधॊथ्यत वज्रस्य पुरंथरस्य चयवनेन सतम्भितॊ बाहुः करतुवध पराप्तमन्युना च थक्षेण भूयस तपसा चात्मानं संयॊज्य नेत्राकृतिर अन्या ललते रुथ्रस्यॊत्पाथिता 15 तरिपुरवधार्दं थिक्षाम अभ्युपगतस्य रुथ्रस्यॊशनसा शिरसॊ जतॊत्कृत्य परयुक्ताः ततः पराथुर्भूता भुजगाः तैर अस्य भुजगैः पीड्यमानः कन्दॊ नीलताम उपनीतः पूर्वे च मन्वन्तरे सवायम्भुवे नारायण हस्तबन्धग्रहणान नीलकन्दत्वम एव वा 16 अमृतॊत्पाथने पुरश्चरणताम उपगतस्याङ्गिरसॊ बृहस्पतेर उपस्पृशतॊ न परसाथं गतवत्यः किलापः अद बृहस्प्तिर अपां चुक्रॊध यस्मान ममॊपस्पृशतः कलुषी भूता न परसाथम उपगतास तस्माथ अथ्य परभृति झषमकरमत्स्यकच्छप जन्तु संकीर्णाः कलुषी भवतेति तथाप्रभृत्य आपॊ याथॊभिः संकीर्णाः संवृत्ताः 17 विश्वरूपॊ वैत्वास्त्रः पुरॊहितॊ थेवानाम आसीत सवस्रीयॊ ऽसुराणाम स परत्यक्षंथेवेभ्यॊ भागम अथथत परॊक्षम असुरेभ्यः 18 अद हिरण्यकशिपुं पुरस्कृत्य विश्वरूप मातरं सवसारम असुरा वरम अयाचन्त हे सवसर अयं ते पुत्रस तवास्त्रॊ विश्वरूपस तरिशिरा थेवानां पुरॊहितः परत्यक्षं थेवेभ्यॊ भागम अथथत परॊक्षम अस्माकम ततॊ थेवा वर्धन्ते वयं कषीयामः तथ एनं तवं वारयितुम अर्हसि तदा यदास्मान भजेथ इति 19 अद विश्वरूपं नन्थनवनम उपगतं मातॊवाच पुत्र किं परपक्षवर्धनस तवं मातुलपक्षं नाशयति नार्हस्य एवं कर्तुम इति स विश्वरूपॊ मातुर वाक्यम अनतिक्रमणीयम इति मत्वा संपूज्य हिरण्यकशिपुम अगात 20 हैरण्यगर्भाच च वसिष्ठाथ धिरण्यकशिपुः शापं पराप्तवान यस्मात तवयान्यॊ वृतॊ हॊता तस्माथ असमाप्त यज्ञस तवम अपूर्वात सत्त्वजाताथ वधं पराप्स्यसीति तच छापथानाथ धिरण्यकशिपुः पराप्तवान वधम 21 विश्वरूपॊ मातृपक्षवर्धनॊ ऽतयर्दं तपस्य अभवत तस्य वरतभङ्गार्दम इन्थ्रॊ बह्वीः शरीमत्यॊ ऽपसरसॊ नियुयॊज ताश च थृष्ट्वा मनः कषुभितं तस्याभवत तासु चाप्सरःसुनचिराथ एव सक्तॊ ऽभवत सक्तं चैनं जञात्वाप्सरसॊचुर गच्छामहे वयं यदागतम इति 22 तास तवास्त्रॊवाच कव गमिष्यद आस्यतां तावन मया सह शरेयॊ भविष्यतीति तास तम अब्रुवन वयं थेव सत्रियॊ ऽपसरसेन्थ्रं वरथं पुरा परभ्विष्णुं वृणीमह इति 23 अद ता विश्वरूपॊ ऽबरवीथ अथ्यैव सेन्थ्रा थेवा न भविष्यन्तीति ततॊ मन्त्राञ जजाप तैर मन्त्रैः परावर्धत तरिशिराः एकेनास्येन सर्वलॊकेषु थविजैः करियावथ्भिर यज्ञेषु सुहुतं सॊमं पपाव एकेनापैकेन सेन्थ्रान थेवान अदेन्थ्रस तं विवर्धमानं सॊमपानाप्यायित सर्वगात्रं थृष्ट्वा चिन्ताम आपेथे 24 थेवाश च ते सहेन्थ्रेण बरह्माणम अभिजग्मुर ऊचुश च विश्वरूपेण सर्वयज्ञेषु सुहुतः सॊमः पीयते वयम अभागाः संवृत्ताः असुरपक्षॊ वर्धते वयं कषीयामः तथ अर्हसि नॊ विधातुं शरेयॊ यथ अनन्तरम इति 25 तान बरह्मॊवाचर्षिर भार्गवस तपस तप्यते थधीचः स याच्यतां वरं यदा कलेवरं जह्यात तस्यास्दिभिर वज्रं करियताम इति 26 थेवास तत्रागच्छन यत्र थधीचॊ भगवान ऋषिस तपस तेपे सेन्थ्रा थेवास तम अभिगम्यॊचुर भगवंस तपसः कुशलम अविघ्नं चेति तान थधीचॊवाच सवागतं भवथ्भ्यः किं करियताम यथ वक्ष्यद तत करिष्यामीति ते तम अब्रुवञ शरीरपरित्यागं लॊकहितार्दं भगवान कर्तुम अर्हतीति अद थधीचस तदैवाविमनाः सुखथुःखसमॊ महायॊगिय आत्मानं समाधाय शरीरपरित्यागं चकार 27 तस्य परमात्मन्य अवसृते तान्य अस्दीनि धाता संगृह्य वज्रम अकरॊत तेन वज्रेणाभेथ्येनाप्रधृष्येण बरह्मास्दि संभूतेन विष्णुप्रविष्टेनेन्थ्रॊ विश्वरूपंजघान शिरसां चास्य छेथनम अकरॊत तस्माथनन्तरं विश्वरूप गात्रमदन संभवं तवस्त्रॊत्पाथितम एवारिं वृत्रम इन्थ्रॊ जघान 28 तस्यां थवैधी भूतायां बरह्म वध्यायां भयाथ इन्थ्रॊ थेवराज्यं परित्यज्याप्सु संभवां शीतलां मानससरॊ गतां नलिनीं परपेथे तत्र चैश्वर्ययॊगाथ अनु मात्रॊ भूत्वा बिस गरन्दिं परविवेश 29 अद बरह्म वध्या भयप्रनस्ते तरैलॊक्यनादे शचीपतौ जगथ अनीश्वरं बभूव थेवान रजस तमश चाविवेश मन्त्रा न परावर्तन्त महर्षीणां रक्षांसि पराथुर्भवन बरह्म चॊत्साथनं जगाम अनिन्थ्राश चाबला लॊकाः सुप्रधृष्या बभूवुः 30 अद थेवर्षयश चायुषः पुत्रं नहुषं नाम थेवराजत्वे ऽभिषिषिचुः नहुषः पञ्चभिः शतैर जयॊतिषां ललाते जवलथ्भिः सर्वतेजॊ हरैस तरिविष्टपं पालयां बभूव अद लॊकाः परकृतिम आपेथिरे सवस्दाश च बभूवुः 31 अदॊवाच नहुषः सर्वं मां शक्रॊपभुक्तम उपस्दितम ऋते शचीम इति स एवम उक्त्वा शची समीपम अगमथ उवाच चैनाम सुभगे ऽहम इन्थ्रॊ थेवानां भजस्व माम इति तं शची परत्युवाच परकृत्या तवं धर्मवत्सलः सॊमवंशॊथ्भवश च नार्हति परपत्नी धर्षणं कर्तुम इति 32 ताम अदॊवाच नहुषः ऐन्थ्रं पथम अध्यास्यते मया अहम इन्थ्रस्य राज्यरत्नहरॊ नात्राधर्मः कश चित तवम इन्थ्र भुक्तेति सा तम उवाच अस्ति मम किं चिथ वरतम अपर्यवसितम तस्यावभृदे तवाम उपगमिष्यामि कैश चिथ एवाहॊभिर इति स शच्यैवम अभिहितॊ नहुषॊ जगाम 33 अद शची थुःखशॊकार्ता भर्तृथर्शनलालसा नहुष भयगृहीता बृहस्पतिम उपागच्छत स च ताम अभिगतां थृष्ट्वैव धयानं परविश्य भर्त्र कार्यतत्परां जञात्वा बृहस्पतिर उवाच अनेनैव वरतेन तसपा चान्विता थेवीं वरथाम उपश्रुतिम आह्वय सा तवेन्थ्रं थर्शयिष्यतीति 34 साद महानियमम आस्दिता थेवीं वरथाम उपश्रुतिं मन्त्रैर आह्वयत सॊपश्रुतिः शची समीपम अगात उवाच चैनाम इयम अस्मि तवयॊपहूतॊपस्दिता किं ते परियं करवाणीति तां मूर्ध्ना परनम्यॊवाच शची भगवत्य अर्हसि मे भर्तारं थर्शयितुं तवं सत्या मता चेति सैनां मानसं सरॊ ऽनयत तत्रेन्थ्रं बिस गरन्दि गतम अथर्शयत 35 ताम इन्थ्रः पत्नीं कृशां गलानां च थृष्ट्वा चिन्तयां बभूव अहॊ मम महथ थुःखम इथम अथ्यॊपगतम नस्तं हि माम इयम अन्विष्यॊपागमथ थुःखार्तेति ताम इन्थ्रॊवाच कदं वर्तयसीति सा तम उवाच नहुषॊ माम आह्वयति कालश चास्य मया कृत इति 36 ताम इन्थ्रॊवाच गच्छ नहुषस तवया वाच्यॊ ऽपूर्वेण माम ऋषियुक्तेन यानेन तवम अधिरूढॊथ्वहस्व इन्थ्रस्य हि महान्ति वाहनानि मनसः परियाण्य अधिरूढानि मया तवम अन्येनॊपयातुम अर्हसीति सैवम उक्ता हृष्टा जगाम इन्थ्रॊ ऽपि बिस गरन्दिम एवाविवेश भूयः 37 अदेन्थ्राणीम अभ्यागतां थृष्ट्वॊवाच नहुषः पूर्णः स काल इति तं शच्य अब्रवीच छक्रेण यदॊक्तम स महर्षियुक्तं वाहनम अधिरूढः शची समीपम उपागच्छत 38 अद मैत्रावरुणिः कुम्भयॊनिर अगस्त्यॊ महर्षीन विक्रियमाणांस तान नहुषेनापश्यत पथ्भ्यां च तेनास्पृश्यत ततः स नहुषम अब्रवीथ अकार्य परवृत्त पापपतस्व महीम सर्पॊ भव यावथ भूमिर गिरयश च तिष्ठेयुस तावथ इति स महर्षिवाक्यसमकालम एव तस्माथ यानाथ अवापतत 39 अदानिन्थ्रं पुनस तरैलॊक्यम अभवत ततॊ थेवर्षयश च भगवन्तं विष्णुं शरणम इन्थ्रार्दे ऽभिगमुः ऊचुश चैनं भगवन्न इन्थ्रं बरह्म वध्याभिभूतं तरातुम अर्हसीति ततः स वरथस तान अब्रवीथ अश्वमेधं यज्ञं वैष्नवं शक्रॊ ऽभियजतु ततः सवं सदानं पराप्स्यतीति 40 ततॊ थेवर्षयश चेन्थ्रं नापश्यन यथा तथा शचीम ऊचुर गच्छ सुभगे इन्थ्रम आनयस्वेति सा पुनस तत्सरः समभ्यगच्छत इन्थ्रश च तस्मात सरसः समुत्दाय बृहस्पतिम अभिजगाम बृहस्पतिश चाश्वमेधं महाक्रतुं शक्रायाहरत ततः कृष्णसारङ्गं मेध्यम अश्वम उत्सृज्य वाहनं तम एव कृत्वेन्थ्रं मरुत्पतिं बृहस्पतिः सवस्दानं परापयाम आस 41 ततः स थेव राथ थेवैर ऋषिभिर सतूयमानस तरिविष्टपस्दॊ निष्कल्मषॊ बभूव बरह्म वध्यां चतुर्षु सदानेषु वनिताग्निवनस्पतिगॊषु वयभजत एवम इन्थ्रॊ बरह्मतेजःप्रभावॊपबृंहितः शत्रुवधं कृत्वा सवस्दानं परापितः 42 आकाशगङ्गा गतश च पुरा भरथ्वाजॊ महर्षिर उपास्पृशंस तरीन करमान करमता विष्णुनाभ्यासाथितः स भरथ्वाजेन ससलिलेन पानिनॊरसि ताथितः सलक्षणॊरस्कः संवृत्तः 43 भृगुणा महर्षिणा शप्तॊ ऽगनिः सर्वभक्षत्वम उपनीतः 44 अथितिर वै थेवानाम अन्नम अपचथ एतथ भुक्त्वासुरान हनिष्यन्तीति तत्र बुधॊ वरच चर्या समाप्ताव आगच्छत अथितिं चावॊचथ भिक्षां नाथात अद भिक्षा परत्याख्यान रुषितेन बुधेन बरह्मभूतेन विवस्वतॊ थवितीये जन्मन्य अन्थ संज्ञितस्यान्थं मारितम अथित्याः स मार्तन्थॊ विवस्वान अभवच छराथ्ध थेवः 45 थक्षस्य वै थुहितरः षष्टिर आसन ताभ्यः कश्यपाय तरयॊथश पराथाथ थश धर्माय थश मनवे साप्तविंशतिम इन्थवे तासु तुल्यासु नक्षत्राख्यां गतासु सॊमॊ रॊहिण्याम अभ्यधिकां परीतिम अकरॊत ततस ताः शेषाः पत्न्य अ ईर्ष्यावयः पितुः समीपं गत्वेमम अर्दं शशंसुः भगवन्न अस्मासु तुल्यप्रभावासु सॊमॊ रॊहिणीम अधिकं भजतीति सॊ ऽबरवीथ यक्ष्मैनम आवेक्ष्यतीति 46 थक्ष शापात सॊमं राजानं यक्ष्माविवेश स यक्ष्मनाविष्टॊ थक्षम अगमत थक्षश चैनम अब्रवीन न समं वर्तसेति तत्रर्षयः सॊमम अब्रुवन कषीयसे यस्क्मना पश्चिमस्यां थिशि समुथ्रे हिरण्यसरस तीर्दम तत्र गत्वात्मानम अभिषेचयस्वेति अदागच्छत सॊमस तत्र हिरण्यसरस तीर्दम गत्वा चात्मनः सनपनम अकरॊत सनात्वा चात्मानं पाप्मनॊ मॊक्षयाम आस तत्र चावभासितस तीर्दे यथा सॊमस तथा परभृति तीर्दं तत परभासम इति नाम्ना खयातं बभूव तच छापाथ अथ्यापि कषीयते सॊमॊ ऽमावास्यान्तर सदः पौर्णमासी मात्रेऽ धिष्ठितॊ मेघलेखा परतिच्छन्नं वपुर थर्शयति मेघसथृशं वर्णम अगमत तथ अस्य शशलक्ष्म विमलम अभवत 47 सदूलशिरा महर्षिर मेरॊः परागुत्तरे थिग भागे तपस तेपे तस्य तपस तप्यमानस्य सर्वगन्धवहः शुचिर वायुर विवायमानः शरीरम अस्पृशत स तपसा तापित शरीरः कृशॊ वायुनॊपवीज्यमानॊ हृथयपरितॊषम अगमत तत्र तस्यानिल वयजनकृतपरितॊषस्य सथ्यॊ वनस्पतयः पुष्प शॊभां न थर्शितवन्त इति सैताञ शशाप न सर्वकालं पुष्पवन्तॊ भविष्यदेति 48 नारायणॊ लॊकहितार्दं वथवा मुखॊ नाम महर्षिः पुराभवत तस्य मेरौ तपस तप्यतः समुथ्राहूतॊ नागतः तेनामर्षितेनात्म गात्रॊष्मणा समुथ्रः सतिमितजलः कृतः सवेथप्रस्यन्थन सथृशश चास्य लवन भावॊ जनितः उक्तश चापेयॊ भविष्यसि एतच च ते तॊयं वथवा मुखसंज्ञितेन पीयमानं मधुरं भविष्यति तथ एतथ अथ्यापि वथवा मुखसंज्ञितेनानुवर्तिना तॊयं सामुथ्रं पीयते 49 हिमवतॊ गिरेर थुहितरम उमां रुथ्रश चकमे भृगुर अपि च महर्षिर हिमवन्तम आगम्याब्रवीत कन्याम उमां मे थेहीति तम अब्रवीथ धिमवान अभिलसितॊ वरॊ रुथ्र इति तम अब्रवीथ भृगुर यस्मात तवयाहं कन्या वरण कृतभावः परत्याख्यातस तस्मान न रत्नानां भवान भाजनं भविष्यतीति अथ्य परभृत्य एतथ अवस्दितम ऋषिवचनम 50 तथ एवंविधं माहात्म्यं बराह्मणानाम कषत्रम अपि शाश्वतीम अव्ययां पृदिवीं पत्नीम अभिगम्य बुभुजे तथ एतथ बरह्माग्नीषॊमीयम तेन जगथ धार्यते |
1
[arjuna] agnīṣomau kathaṃ pūrvam ekayonī pravartitau eṣa me saṃśayo jātas taṃ chindhi madhusūdana 2 [ṣrībhagavān] hanta te vartayiṣyāmi purāṇaṃ pāṇḍunandana ātmatejodbhavaṃ pārtha śṛṇuṣvaika manā mama 3 saṃprakṣālana kāle 'tikrānte caturthe yugasahasrānte avyakte sarvabhūtapralaye sthāvarajaṅgame jyotir dharaṇivāyurahite 'ndhe tamasi jalaikārṇave loke tama ity evābhibūte 'dvitīye pratiṣṭhite naiva rātryāṃ na divase na sati nāsati na vyakte nāvyakte vyavasthite etasyām avasthāyāṃ nārāyaṇa guṇāśrayād akṣayād ajarād anindriyād agrāhyād asaṃbhavāt satyād ahiṃsrāl lalāmād vividhapravṛtti viśeṣāt akṣayād ajarāmarād amūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāt tamasaḥ puruṣaḥ prādurbhūto harir avyayaḥ 4 nidarśanam api hy atra bhavati nāsīd aho na rātrir āsīt na sad āsīn nāsad āsīt tama eva purastād abhavad viśvarūpam sā viśvasya jananīty evam asyārtho 'nubhāsyate 5 tasyedānīṃ tamaḥ saṃbhavasya puruṣasya padmayoner brahmaṇaḥ prādur bhāve sa puruṣaḥ prajāḥ sisṛkṣamāṇo netrābhyām agnīṣomau sasarja tato bhūtasarge pravṛtteprajā kramavaśād brahmakṣatram upātiṣṭhat yaḥ somas tad brahma yad brahma te brāhmaṇāḥ yo 'gnis tat kṣatraṃ kṣatrād brahmabalavattaram kasmād iti lokapratyakṣaguṇam etat tad yathā brāhmaṇebhyaḥ paraṃ bhūtaṃ notpanna pūrvam dīpyamāne 'gnau juhotīti kṛtvā bravīmi bhūtasargaḥ kṛto brahmaṇā bhūtāni ca prasthāpya traulokyaṃ dhāryateti 6 mantravādo 'pī hi bhavati tvam agne yajñānāṃ hotā viśveṣām hito devenabhir mānuṣe jana iti nidarśanaṃ cātra bhavati viśveṣām agne yajñānāṃ hoteti hito devair mānuṣair jagata iti agnir hi yajñānāṃ hotṛkartā sa cāgnir brahma 7 na hy ṛte mantrād dhavanam asti na vinā puruṣaṃ tapaḥ saṃbhavati havir mantrāṇāṃ saṃpūjā vidyate devamanuṣyāṇām anena tvaṃ hoteti niyuktaḥ ye ca mānuṣā hotrādhikārās te ca brāhmaṇasyahi yājanaṃ vidhīyate na kṣatravaiśyayor dvijātyoḥ tasmād brāhmaṇā hy agnibhūtā yajñān udvahanti yajñā devāṃs tarpayanti devāḥ pṛthivīṃ bhāvayanti 8 śatapathe hi brāhmaṇaṃ bhavati agnau samiddhe sa juhoti yo vidvān brāhmaṇa mukhe dānāhutiṃ juhoti evam apy agnibhūtā brāhmaṇā vidvāṃso 'gniṃ bhāvayanti agnir viṣṇuḥ sarvabhūtāny anupraviśya prāṇān dhārayati api cātra sanatkumāra gītāḥ ślokā bhavanti 9 viśvaṃ brahmāsṛjat pūrvaṃ sarvādir niravaskaram brahmaghoṣair divaṃ tiṣṭhanty amarā brahmayonayaḥ 10 brāhmaṇānāṃ matir vākyaṃ karma śraddhā tapāṃsi ca dhārayanti mahīṃ dyāṃ ca śaityād vāry amṛtaṃ yathā 11 nāsti satyāt paro dharmo nāsti mātṛsamo guruḥ brāhmaṇebhyaḥ paraṃ nāsti pretya cehaca bhūtaye 12 naiṣām ukṣā vardhate nota vāhā; na gargaro mathyate saṃpradāne apadhvastā dasyubhūtā bhavanti; yeṣāṃ rāṣṭre brāhmaṇā vṛttihīnāḥ 13 veda purāṇetihāsa prāmānyān nārāyaṇa mukhodgatāḥ sarvātmanaḥ sarvakartāraḥ sarvabhāvanāś ca brāhmaṇāḥ vāk samakālaṃ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṃ prādurbhūtā brāhmaṇebhyaś ca śeṣā varṇāḥ prādurbhūtāḥ itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāś ca 14 ahalyā dharṣaṇanimittaṃ hi gautamād dhari śmaśrutām indraḥ prāptaḥ kauśika nimittaṃ cendro muṣka viyogaṃ meṣavṛṣaṇatvaṃ cāvāpa aśvinor grahapratiṣedhodyata vajrasya puraṃdarasya cyavanena stambhito bāhuḥ kratuvadha prāptamanyunā ca dakṣeṇa bhūyas tapasā cātmānaṃ saṃyojya netrākṛtir anyā lalate rudrasyotpāditā 15 tripuravadhārthaṃ dikṣām abhyupagatasya rudrasyośanasā śiraso jatotkṛtya prayuktāḥ tataḥ prādurbhūtā bhujagāḥ tair asya bhujagaiḥ pīḍyamānaḥ kantho nīlatām upanītaḥ pūrve ca manvantare svāyambhuve nārāyaṇa hastabandhagrahaṇān nīlakanthatvam eva vā 16 amṛtotpādane puraścaraṇatām upagatasyāṅgiraso bṛhaspater upaspṛśato na prasādaṃ gatavatyaḥ kilāpaḥ atha bṛhasptir apāṃ cukrodha yasmān mamopaspṛśataḥ kaluṣī bhūtā na prasādam upagatās tasmād adya prabhṛti jhaṣamakaramatsyakacchapa jantu saṃkīrṇāḥ kaluṣī bhavateti tadāprabhṛty āpo yādobhiḥ saṃkīrṇāḥ saṃvṛttāḥ 17 viśvarūpo vaitvāstraḥ purohito devānām āsīt svasrīyo 'surāṇām sa pratyakṣaṃdevebhyo bhāgam adadat parokṣam asurebhyaḥ 18 atha hiraṇyakaśipuṃ puraskṛtya viśvarūpa mātaraṃ svasāram asurā varam ayācanta he svasar ayaṃ te putras tvāstro viśvarūpas triśirā devānāṃ purohitaḥ pratyakṣaṃ devebhyo bhāgam adadat parokṣam asmākam tato devā vardhante vayaṃ kṣīyāmaḥ tad enaṃ tvaṃ vārayitum arhasi tathā yathāsmān bhajed iti 19 atha viśvarūpaṃ nandanavanam upagataṃ mātovāca putra kiṃ parapakṣavardhanas tvaṃ mātulapakṣaṃ nāśayati nārhasy evaṃ kartum iti sa viśvarūpo mātur vākyam anatikramaṇīyam iti matvā saṃpūjya hiraṇyakaśipum agāt 20 hairaṇyagarbhāc ca vasiṣṭhād dhiraṇyakaśipuḥ śāpaṃ prāptavān yasmāt tvayānyo vṛto hotā tasmād asamāpta yajñas tvam apūrvāt sattvajātād vadhaṃ prāpsyasīti tac chāpadānād dhiraṇyakaśipuḥ prāptavān vadham 21 viśvarūpo mātṛpakṣavardhano 'tyarthaṃ tapasy abhavat tasya vratabhaṅgārtham indro bahvīḥ śrīmatyo 'psaraso niyuyoja tāś ca dṛṣṭvā manaḥ kṣubhitaṃ tasyābhavat tāsu cāpsaraḥsunacirād eva sakto 'bhavat saktaṃ cainaṃ jñātvāpsarasocur gacchāmahe vayaṃ yathāgatam iti 22 tās tvāstrovāca kva gamiṣyatha āsyatāṃ tāvan mayā saha śreyo bhaviṣyatīti tās tam abruvan vayaṃ deva striyo 'psarasendraṃ varadaṃ purā prabhviṣṇuṃ vṛṇīmaha iti 23 atha tā viśvarūpo 'bravīd adyaiva sendrā devā na bhaviṣyantīti tato mantrāñ jajāpa tair mantraiḥ prāvardhata triśirāḥ ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhir yajñeṣu suhutaṃ somaṃ papāv ekenāpaikena sendrān devān athendras taṃ vivardhamānaṃ somapānāpyāyita sarvagātraṃ dṛṣṭvā cintām āpede 24 devāś ca te sahendreṇa brahmāṇam abhijagmur ūcuś ca viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate vayam abhāgāḥ saṃvṛttāḥ asurapakṣo vardhate vayaṃ kṣīyāmaḥ tad arhasi no vidhātuṃ śreyo yad anantaram iti 25 tān brahmovācarṣir bhārgavas tapas tapyate dadhīcaḥ sa yācyatāṃ varaṃ yathā kalevaraṃ jahyāt tasyāsthibhir vajraṃ kriyatām iti 26 devās tatrāgacchan yatra dadhīco bhagavān ṛṣis tapas tepe sendrā devās tam abhigamyocur bhagavaṃs tapasaḥ kuśalam avighnaṃ ceti tān dadhīcovāca svāgataṃ bhavadbhyaḥ kiṃ kriyatām yad vakṣyatha tat kariṣyāmīti te tam abruvañ śarīraparityāgaṃ lokahitārthaṃ bhagavān kartum arhatīti atha dadhīcas tathaivāvimanāḥ sukhaduḥkhasamo mahāyogiy ātmānaṃ samādhāya śarīraparityāgaṃ cakāra 27 tasya paramātmany avasṛte tāny asthīni dhātā saṃgṛhya vajram akarot tena vajreṇābhedyenāpradhṛṣyeṇa brahmāsthi saṃbhūtena viṣṇupraviṣṭenendro viśvarūpaṃjaghāna śirasāṃ cāsya chedanam akarot tasmādanantaraṃ viśvarūpa gātramathana saṃbhavaṃ tvastrotpāditam evāriṃ vṛtram indro jaghāna 28 tasyāṃ dvaidhī bhūtāyāṃ brahma vadhyāyāṃ bhayād indro devarājyaṃ parityajyāpsu saṃbhavāṃ śītalāṃ mānasasaro gatāṃ nalinīṃ prapede tatra caiśvaryayogād anu mātro bhūtvā bisa granthiṃ praviveśa 29 atha brahma vadhyā bhayapranaste trailokyanāthe śacīpatau jagad anīśvaraṃ babhūva devān rajas tamaś cāviveśa mantrā na prāvartanta maharṣīṇāṃ rakṣāṃsi prādurbhavan brahma cotsādanaṃ jagāma anindrāś cābalā lokāḥ supradhṛṣyā babhūvuḥ 30 atha devarṣayaś cāyuṣaḥ putraṃ nahuṣaṃ nāma devarājatve 'bhiṣiṣicuḥ nahuṣaḥ pañcabhiḥ śatair jyotiṣāṃ lalāte jvaladbhiḥ sarvatejo harais triviṣṭapaṃ pālayāṃ babhūva atha lokāḥ prakṛtim āpedire svasthāś ca babhūvuḥ 31 athovāca nahuṣaḥ sarvaṃ māṃ śakropabhuktam upasthitam ṛte śacīm iti sa evam uktvā śacī samīpam agamad uvāca cainām subhage 'ham indro devānāṃ bhajasva mām iti taṃ śacī pratyuvāca prakṛtyā tvaṃ dharmavatsalaḥ somavaṃśodbhavaś ca nārhati parapatnī dharṣaṇaṃ kartum iti 32 tām athovāca nahuṣaḥ aindraṃ padam adhyāsyate mayā aham indrasya rājyaratnaharo nātrādharmaḥ kaś cit tvam indra bhukteti sā tam uvāca asti mama kiṃ cid vratam aparyavasitam tasyāvabhṛthe tvām upagamiṣyāmi kaiś cid evāhobhir iti sa śacyaivam abhihito nahuṣo jagāma 33 atha śacī duḥkhaśokārtā bhartṛdarśanalālasā nahuṣa bhayagṛhītā bṛhaspatim upāgacchat sa ca tām abhigatāṃ dṛṣṭvaiva dhyānaṃ praviśya bhartr kāryatatparāṃ jñātvā bṛhaspatir uvāca anenaiva vratena tasapā cānvitā devīṃ varadām upaśrutim āhvaya sā tavendraṃ darśayiṣyatīti 34 sātha mahāniyamam āsthitā devīṃ varadām upaśrutiṃ mantrair āhvayat sopaśrutiḥ śacī samīpam agāt uvāca cainām iyam asmi tvayopahūtopasthitā kiṃ te priyaṃ karavāṇīti tāṃ mūrdhnā pranamyovāca śacī bhagavaty arhasi me bhartāraṃ darśayituṃ tvaṃ satyā matā ceti saināṃ mānasaṃ saro 'nayat tatrendraṃ bisa granthi gatam adarśayat 35 tām indraḥ patnīṃ kṛśāṃ glānāṃ ca dṛṣṭvā cintayāṃ babhūva aho mama mahad duḥkham idam adyopagatam nastaṃ hi mām iyam anviṣyopāgamad duḥkhārteti tām indrovāca kathaṃ vartayasīti sā tam uvāca nahuṣo mām āhvayati kālaś cāsya mayā kṛta iti 36 tām indrovāca gaccha nahuṣas tvayā vācyo 'pūrveṇa mām ṛṣiyuktena yānena tvam adhirūḍhodvahasva indrasya hi mahānti vāhanāni manasaḥ priyāṇy adhirūḍhāni mayā tvam anyenopayātum arhasīti saivam uktā hṛṣṭā jagāma indro 'pi bisa granthim evāviveśa bhūyaḥ 37 athendrāṇīm abhyāgatāṃ dṛṣṭvovāca nahuṣaḥ pūrṇaḥ sa kāla iti taṃ śacy abravīc chakreṇa yathoktam sa maharṣiyuktaṃ vāhanam adhirūḍhaḥ śacī samīpam upāgacchat 38 atha maitrāvaruṇiḥ kumbhayonir agastyo maharṣīn vikriyamāṇāṃs tān nahuṣenāpaśyat padbhyāṃ ca tenāspṛśyata tataḥ sa nahuṣam abravīd akārya pravṛtta pāpapatasva mahīm sarpo bhava yāvad bhūmir girayaś ca tiṣṭheyus tāvad iti sa maharṣivākyasamakālam eva tasmād yānād avāpatat 39 athānindraṃ punas trailokyam abhavat tato devarṣayaś ca bhagavantaṃ viṣṇuṃ śaraṇam indrārthe 'bhigamuḥ ūcuś cainaṃ bhagavann indraṃ brahma vadhyābhibhūtaṃ trātum arhasīti tataḥ sa varadas tān abravīd aśvamedhaṃ yajñaṃ vaiṣnavaṃ śakro 'bhiyajatu tataḥ svaṃ sthānaṃ prāpsyatīti 40 tato devarṣayaś cendraṃ nāpaśyan yadā tadā śacīm ūcur gaccha subhage indram ānayasveti sā punas tatsaraḥ samabhyagacchat indraś ca tasmāt sarasaḥ samutthāya bṛhaspatim abhijagāma bṛhaspatiś cāśvamedhaṃ mahākratuṃ śakrāyāharat tataḥ kṛṣṇasāraṅgaṃ medhyam aśvam utsṛjya vāhanaṃ tam eva kṛtvendraṃ marutpatiṃ bṛhaspatiḥ svasthānaṃ prāpayām āsa 41 tataḥ sa deva rād devair ṛṣibhir stūyamānas triviṣṭapastho niṣkalmaṣo babhūva brahma vadhyāṃ caturṣu sthāneṣu vanitāgnivanaspatigoṣu vyabhajat evam indro brahmatejaḥprabhāvopabṛṃhitaḥ śatruvadhaṃ kṛtvā svasthānaṃ prāpitaḥ 42 ākāśagaṅgā gataś ca purā bharadvājo maharṣir upāspṛśaṃs trīn kramān kramatā viṣṇunābhyāsāditaḥ sa bharadvājena sasalilena pāninorasi tāditaḥ salakṣaṇoraskaḥ saṃvṛttaḥ 43 bhṛguṇā maharṣiṇā śapto 'gniḥ sarvabhakṣatvam upanītaḥ 44 aditir vai devānām annam apacad etad bhuktvāsurān haniṣyantīti tatra budho vrac caryā samāptāv āgacchat aditiṃ cāvocad bhikṣāṃ nādāt atha bhikṣā pratyākhyāna ruṣitena budhena brahmabhūtena vivasvato dvitīye janmany anda saṃjñitasyāndaṃ māritam adityāḥ sa mārtando vivasvān abhavac chrāddha devaḥ 45 dakṣasya vai duhitaraḥ ṣaṣṭir āsan tābhyaḥ kaśyapāya trayodaśa prādād daśa dharmāya daśa manave sāptaviṃśatim indave tāsu tulyāsu nakṣatrākhyāṃ gatāsu somo rohiṇyām abhyadhikāṃ prītim akarot tatas tāḥ śeṣāḥ patny a īrṣyāvayaḥ pituḥ samīpaṃ gatvemam arthaṃ śaśaṃsuḥ bhagavann asmāsu tulyaprabhāvāsu somo rohiṇīm adhikaṃ bhajatīti so 'bravīd yakṣmainam āvekṣyatīti 46 dakṣa śāpāt somaṃ rājānaṃ yakṣmāviveśa sa yakṣmanāviṣṭo dakṣam agamat dakṣaś cainam abravīn na samaṃ vartaseti tatrarṣayaḥ somam abruvan kṣīyase yaskmanā paścimasyāṃ diśi samudre hiraṇyasaras tīrtham tatra gatvātmānam abhiṣecayasveti athāgacchat somas tatra hiraṇyasaras tīrtham gatvā cātmanaḥ snapanam akarot snātvā cātmānaṃ pāpmano mokṣayām āsa tatra cāvabhāsitas tīrthe yadā somas tadā prabhṛti tīrthaṃ tat prabhāsam iti nāmnā khyātaṃ babhūva tac chāpād adyāpi kṣīyate somo 'māvāsyāntara sthaḥ paurṇamāsī mātre' dhiṣṭhito meghalekhā praticchannaṃ vapur darśayati meghasadṛśaṃ varṇam agamat tad asya śaśalakṣma vimalam abhavat 47 sthūlaśirā maharṣir meroḥ prāguttare dig bhāge tapas tepe tasya tapas tapyamānasya sarvagandhavahaḥ śucir vāyur vivāyamānaḥ śarīram aspṛśat sa tapasā tāpita śarīraḥ kṛśo vāyunopavījyamāno hṛdayaparitoṣam agamat tatra tasyānila vyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpa śobhāṃ na darśitavanta iti saitāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti 48 nārāyaṇo lokahitārthaṃ vadavā mukho nāma maharṣiḥ purābhavat tasya merau tapas tapyataḥ samudrāhūto nāgataḥ tenāmarṣitenātma gātroṣmaṇā samudraḥ stimitajalaḥ kṛtaḥ svedaprasyandana sadṛśaś cāsya lavana bhāvo janitaḥ uktaś cāpeyo bhaviṣyasi etac ca te toyaṃ vadavā mukhasaṃjñitena pīyamānaṃ madhuraṃ bhaviṣyati tad etad adyāpi vadavā mukhasaṃjñitenānuvartinā toyaṃ sāmudraṃ pīyate 49 himavato girer duhitaram umāṃ rudraś cakame bhṛgur api ca maharṣir himavantam āgamyābravīt kanyām umāṃ me dehīti tam abravīd dhimavān abhilasito varo rudra iti tam abravīd bhṛgur yasmāt tvayāhaṃ kanyā varaṇa kṛtabhāvaḥ pratyākhyātas tasmān na ratnānāṃ bhavān bhājanaṃ bhaviṣyatīti adya prabhṛty etad avasthitam ṛṣivacanam 50 tad evaṃvidhaṃ māhātmyaṃ brāhmaṇānām kṣatram api śāśvatīm avyayāṃ pṛthivīṃ patnīm abhigamya bubhuje tad etad brahmāgnīṣomīyam tena jagad dhāryate |