1
[य] कालमृत्युयमानां च बराह्मणस्य च सत्तम विवाथॊ वयाहृतः पूर्वं तथ भवान वक्तुम अर्हति 2 [भी] अत्राप्य उथाहरन्तीमम इतिहासं पुरातनम इक्ष्वाकॊः सूर्यपुत्रस्य यथ्वृत्तं बराह्मणस्य च 3 कालस्य मृत्यॊश च तदा यथ्वृत्तं तन निबॊध मे यदा स तेषां संवाथॊ यस्मिन सदाने ऽपि चाभवत 4 बराह्मणॊ जापकः कश चिथ धर्मवृत्तॊ महायशाः षडङ्गविन महाप्राज्ञः पैप्पलाथिः स कौशिकः 5 तस्यापरॊक्षं विज्ञानं षडङ्गेषु तदैव च वेथेषु चैव निष्णातॊ हिमवत्पाथसंश्रयः 6 सॊ ऽनत्यं बराह्मं तपस तेपे संहितां संयतॊ जपन तस्य वर्षसहस्रं तु नियमेन तदागतम 7 स थेव्या थर्शितः साक्षात परीतास्मीति तथा किल जप्यम आवर्तयंस तूस्नीं न च तां किं चिथ अब्रवीत 8 तस्यानुकम्पया थेवी परीता समभवत तथा वेथ माता ततस तस्य तज जप्यं समपूजयत 9 समाप्तजप्यस तूत्दाय शिरसा पाथयॊस तदा पपात थेव्या धर्मात्मा वचनं चेथम अब्रवीत 10 थिष्ट्या थेवि परसन्ना तवं थर्शनं चागता मम यथि वापि परसन्नासि जप्ये मे रमतां मनः 11 [सावित्री] किं परार्दयसि विप्रर्षे किं चेष्टं करवाणि ते परब्रूहि जपतां शरेष्ठ सर्वं तत ते भविष्यति 12 [भी] इत्य उक्तः स तथा थेव्या विप्रः परॊवाच धर्मवित जप्यं परति ममेच्छेयं वर्धत्व इति पुनः पुनः 13 मनसश चसमाधिर मे वर्धेताहर अहः शुभे तत तदेति ततॊ थेवी मधुरं परत्यभासत 14 इथं चैवापरं पराह थेवी तत्प्रियकाम्यया निरयं नैव यातासि यत्र याता थविजर्षभाः 15 यास्यसि बरह्मणः सदानम अनिमित्तम अनिन्थितम साधये भविता चैतथ यत तवयाहम इहार्दिता 16 नियतॊ जप चैकाग्रॊ धर्मस तवां समुपैष्यति कालॊ मृत्युर यमश चैव समायास्यन्ति ते ऽनतिकम भविता च विवाथॊ ऽतर तव तेषां च धर्मतः 17 एवम उक्त्वा घवगती जगाम भवनं सवकम बराह्मणॊ ऽपि जपन्न आस्ते थिव्यं वर्षशतं तथा 18 समाप्ते नियमे तस्मिन्न अद विप्रस्य धीमतः साक्षात परीतस तथा धर्मॊ थर्शयाम आस तं थविजम 19 [धर्म] थविजाते पश्य मां धर्मम अहं तवां थरष्टुम आगतः जप्यस्य च फलं यत ते संप्राप्तं तच च मे शृणु 20 जिता लॊकास तवया सर्वे ये थिव्या ये च मानुषाः थेवानां निरयान साधॊ सर्वान उत्क्रम्य यास्यसि 21 पराण तयागं कुरु मुने गच्छ लॊकान यदेप्सितान तयक्त्वात्मनः शरीरं च ततॊ लॊकान अवाप्स्यसि 22 [बराह्मण] कृतं लॊकैर हि मे धर्मगच्छ च तवं यदासुखम बहुथुःखसुखं थेहं नॊत्सृजेयम अहं विभॊ 23 [धर्म] अवश्यं भॊः शरीरं ते तयक्तव्यं मुनिपुंगव सवर्ग आरॊह्यतां विप्र किं वा ते रॊचते ऽनघ 24 [बराह्मण] न रॊचये सवर्गवसं विना थेहाथ अहं विभॊ गच्छ धर्मन मे शरथ्धा सवर्गं गन्तुं विनात्मना 25 [धर्म] अलं थेहे मनः कृत्वा तयक्त्वा थेहं सुखी भव गच्छ लॊकान अरजसॊ यत्र गत्वा न शॊचति 26 [बराह्मण] रमे जपन महाभाग कृतं लॊकैः सनातनैः सशरीरेण गन्तव्यॊ मया सवर्गॊ न वा विभॊ 27 [धर्म] यथि तवं नेच्छसि तयक्तुं शरीरं पश्य व थविज एष कालस तदा मृत्युर यमश च तवाम उपागताः 28 [भीस्म] अद वैवस्वतः कालॊ मृत्युश च तरितयं विभॊ बराह्मणं तं महाभागम उपागम्येथम अब्रुवन 29 तपसॊ ऽसय सुतप्तस्य तदा सुचरितस्य च फलप्राप्तिस तव शरेष्ठा यमॊ ऽहं तवाम उपब्रुवे 30 यदावथ अस्य जप्यस्य फलं पराप्तस तवम उत्तमम कालस ते सवर्गम आरॊधुं कालॊ ऽहं तवाम उपागतः 31 मृत्युं मा विधिधर्मज्ञ रूपिणं सवयम आगतम कालेन चॊथितं विप्र तवाम इतॊ नेतुम अथ्य वै 32 [बराह्मण] सवागतं सूर्यपुत्राय कालाय च महात्मने मृत्यवे चाद धर्माय किं कार्यं करवाणि वः 33 [भी] अर्घ्यं पाथ्यं च थत्त्वा स तेभ्यस तत्र समागमे अब्रवीत परमप्रीतः सवशक्त्या किं करॊमि वः 34 तस्मिन्न एवाद काले तु तीर्दयात्राम उपागतः इक्ष्वाकुर अगमत तत्र समेता यत्र ते विभॊ 35 सर्वान एव तु राजर्षिः संपूज्याभिप्रनम्य च कुशलप्रश्नम अकरॊत सर्वेषां राजसत्तमः 36 तस्मै सॊ ऽदासनं थत्त्वा पाथ्यम अर्घ्यं तदैव च अब्रवीथ बराह्मणॊ वाक्यं कृत्वा कुशलसंविथम 37 सवागतं ते महाराज बरूहि यथ यथ इहेच्छसि सवशक्त्या किं करॊमीह तथ भवान परब्रवीतु मे 38 [राजा] राजाहं बराह्मणश च तवं यथि सः कर्म संस्दितः थथामि वसु किं चित ते परार्दितं तथ वथस्व मे 39 [बरा] थविविधा बराह्मणा राजन धर्मश च थविविधः समृतः परवृत्तश च निवृत्तश च निवृत्तॊ ऽसमि परतिग्रहात 40 तेभ्यः परयच्छ थानानि ये परवृत्ता नराधिप अहं न परतिगृह्णामि किम इष्टं किं थथानि ते बरूहि तवं नृपतिश्रेष्ठ तपसा साधयामि किम 41 [रा] कषत्रियॊ ऽहं न जानामि थेहीति वचनं कव चित परयच्छ युथ्धम इत्य एवं वाथिनः समॊ थविजॊत्तम 42 [बरा] तुष्यसि तवं सवधर्मेण तदा तुष्टा वयं नृप अन्यॊन्यस्यॊत्तरं नास्ति यथ इष्टं तत समाचर 43 [रा] सवशक्त्याहं थथानीति तवया पूर्वं परभासितम याचे तवां थियतां मह्यं जप्यस्यास्य फलं थविज 44 [बरा] युथ्धं मम सथा वाणी याचतीति विकत्दसे न च युथ्धं मया सार्धं किमर्दं याचसे पुनः 45 [रा] वाग्वज्रा बराह्मणा परॊक्ताः कषत्रिया बाहुजीविनः वाग युथ्धं तथ इथं तीव्रं मम विप्र तवया सह 46 [बरा] सैवाथ्यापि परतिज्ञा मे सवशक्त्या किं परथीयताम बरूहि थास्यामि राजेन्थ्र विभवे सति माचिरम 47 [रा] यत तथ वर्षशतं पूर्णं जप्यं वै जपता तवया फलं पराप्तं तत परयच्छ मम थित्सुर भवान यथि 48 [बरा] परमं गृह्यतां तस्य फलं यज जपितं मया अर्धं तवम अविचारेण फलं तस्य समाप्नुहि 49 अद वा सर्वम एवेह जप्यकं मामकं फलम राजन पराप्नुहि कामं तवं यथि सर्वम इहेच्छसि 50 [रा] कृतं सर्वेण भथ्रं ते जप्यं यथ याचितं मया सवस्ति ते ऽसतु गमिष्यामि किं चतस्य फलं वथ 51 [बरा] फलप्राप्तिं न जानामि थत्तं यज जपितं मया अयं धर्मश च कालश च यमॊ मृत्युश च साक्षिणः 52 [रा] अज्ञातम अस्य धर्मस्य फलं मे किं करिष्यति पराप्नॊतु तत फलं विप्रॊ नाहम इच्छे ससंशयम 53 [बरा] नाथथे ऽपरवक्तव्यं थत्तं वाचा फलं मया वाक्यं परमानं राजर्षे ममापि तव चैव हि 54 नाभिसंधिर मया जप्ये कृतपूर्वः कदं चन जप्यस्य राजशार्थूल कदं जञास्याम्य अहं फलम 55 थथस्वेति तवया चॊक्तं थथामीति तदा मया न वाचं थूसयिष्यामि सत्यं रक्ष सदिरॊ भव 56 अदैवं वथतॊ मे ऽथय वचनं न करिष्यसि महान अधर्मॊ भविता तव राजन मृषा कृतः 57 न युक्तं तु मृषा वाणी तवया वक्तुम अरिन्थम तदा मयाप्य अभ्यधिकं मृषा वक्तुं न शक्यते 58 संश्रुतं च मया पूर्वं थथानीत्य अविचारितम तथ्गृह्णीस्वाविचारेण यथि सत्ये सदितॊ भवान 59 इहागम्य हि मां राजञ जाप्यं फलम अयाचिदाः तन मन निसृष्टं गृह्णीस्व भव सत्ये सदिरॊ ऽपि च 60 नायं लॊकॊ ऽसति न परॊ न च पूर्वान स तारयेत कुत एवावरान राजन मृषावाथपरायनः 61 न यज्ञाध्ययने थानं नियमास तारयन्ति हि तदा सत्यं परे लॊके यदा वै पुरुषर्षभ 62 तपांसि यानि चीर्णानि चरिष्यसि च यत तपः समाः शतैः सहस्रैश च तत सत्यान न विशिष्यते 63 सत्यम एकाक्षरं बरह्मसत्यम एकाक्षरं तपः सत्यम एकाक्षरॊ यज्ञः सत्यम एकाक्षरं शरुतम 64 सत्यं वेथेषु जागर्ति फलं सत्ये परं समृतम सत्याथ धर्मॊ थमश चैव सर्वं सत्ये परतिष्ठितम 65 सत्यं वेथास तदाङ्गानि सत्यं यज्ञस तदा विधिः वरतचर्यास तदा सत्यम ओंकारः सत्यम एव च 66 परानिनां जननं सत्यं सत्यं संततिर एव च सत्येन वायुर अभ्येति सत्येन तपते रविः 67 सत्येन चाग्निर थहति सवर्गः सत्ये परतिष्ठितः सत्यं यज्ञस तपॊ वेथाः सतॊभा मन्त्राः सरस्वती 68 तुलाम आरॊपितॊ धर्मः सत्यं चैवेति नः शरुतम समां कक्षां धारयतॊ यतः सत्यं ततॊ ऽधिकम 69 यतॊ धर्मस ततः सत्यं सर्वं सत्येन वर्धते किमर्दम अनृतं कर्म कर्तुं राजंस तवम इच्छसि 70 सत्ये कुरु सदिरं भावं मा राजन्न अनृतं कृदाः कस्मात तवम अनृतं वाक्यं थेहीति कुरुषे ऽशुभम 71 यथि जप्यफलं थत्तं मया नेसिष्यसे नृप सवधर्मेभ्यः परिभ्रष्टॊ लॊकान अनुचरिष्यसि 72 संश्रुत्य यॊ न थित्सेत याचित्वा यश च नेच्छति उभाव आनृतिकाव एतौ न मृषा कर्तुम अर्हसि 73 [रा] यॊथ्धव्यं रक्षितव्यं च कषत्रधर्मः किल थविज थातारः कषत्रियाः परॊक्ता गृह्णीयां भवतः कदम 74 [बरा] न छन्थयामि ते राजन नापि ते गृहम आव्रजम इहागम्य तु याचित्वा न गृह्णीसे पुनः कदम 75 [धर्म] अविवाथॊ ऽसतु युवयॊर वित्तं मां धर्मम आगतम थविजॊ थानफलैर युक्तॊ राजा सत्यफलेन च 76 [सवर्ग] सवर्गं मां विथ्धि राजेन्थ्र रूपिणं सवयम आगतम अविवाथॊ ऽसतु युवयॊर उभौ तुल्यफलौ युवाम 77 [रा] कृतं सवर्गेण मे कार्यं गच्छ सवर्गयदासुखम विप्रॊ यथीच्छते थातुं परतीच्छतु च मे धनम 78 [बरा] बाल्ये यथि सयाथ अज्ञानान मया हस्तः परसारितः निवृत्ति लक्षणं धर्मम उपासे संहितां जपन 79 निवृत्तं मां चिरं राजन विप्रं लॊभयसे कदम सवेन कार्यं करिष्यामि तवत्तॊ नेच्छे फलं नृप तपःस्वाध्यय शीलॊ ऽहं निवृत्तश च परतिग्रहात 80 [रा] यथि विप्र निसृष्टं ते जप्यस्य फलम उत्तमम आवयॊर यत फलं किं चित सहितं नौ तथ अस्त्व इह 81 थविजाः परतिग्रहे युक्ता थातारॊ राजवंशजाः यथि धर्मः शरुतॊ विप्र सहैव फलम अस्तु नौ 82 मा वा भूत सह भॊज्यं नौ मथीयं फलम आप्नुहि परतीच्छ मत्कृतं धर्मं यथि ते मय्य अनुग्रहः 83 [भी] ततॊ विकृतचेष्टौ थवौ पुरुषौ समुपस्दितौ गृहीत्वान्यॊन्यम आवेष्ट्य कुचेलाव ऊचतुर वचः 84 न मे धारयसीत्य एकॊ धारयामीति चापरः इहास्ति नौ विवाथॊ ऽयम अयं राजानुशासकः 85 सत्यं बरवीम्य अहम इथं न मे धारयते भवान अनृतं वथसीह तवम ऋणं ते धारयाम्य अहम 86 ताव उभौ भृशसंतप्तौ राजानम इथम ऊचतुः परीक्ष्यतां यदा सयाव नावाम इह विगर्हितौ 87 [विकृत] धारयामि नरव्याघ्र विकृतस्येह गॊः फलम थथतश च न गृह्णाति विकृतॊ मे महीपते 88 [विरूप] न मे धारयते किं चिथ विरूपॊ ऽयं नराधिप मिद्या बरवीत्य अयं हि तवा मिद्याभासं नराधिप 89 [रा] विरूपकिं धारयते भवान अस्य वथस्व मे शरुत्वा तदा करिष्यामीत्य एवं मे धीयते मतिः 90 [विरूप] शृणुष्वावहितॊ राजन यदैतथ धारयाम्य अहम विकृतस्यास्य राजर्षे निखिलेन नरर्षभ 91 अनेन धर्मप्राप्त्य अर्दं शुभा थत्ता पुरानघ धेनुर विप्राय राजर्षे तपःस्वाध्यायशीलिने 92 तस्याश चायं मया राजन फलम अभ्येत्य याचितः विकृतेन च मे थत्तं विशूधेनान्तरात्मना 93 ततॊ मे सुकृतं कर्मकृतम आत्मविशुथ्धये गावौ हि कपिले करीत्वा वत्सले बहु थॊहने 94 ते चॊञ्छ वृत्तये राजन मया समपवर्जिते यदाविधि यदाश्रथ्धं तथ अस्याहं पुनः परभॊ 95 इहाथ्य वै गृहीत्वा तत परयच्छे थविगुणं फलम एकस्याः पुरुषव्याघ्र कः शुथ्धः कॊ ऽतर थॊषवान 96 एवं विवथमानौ सवस तवाम इहाभ्यागतौ नृप कुरु धर्मम अधर्मं वा विनये नौ समाधय 97 यथि नेच्छति मे थानं यदाथत्तम अनेन वै भवान अत्र सदिरॊ भूत्वा मार्गे सदापयतु परभुः 98 [रा] थीयमानं न गृह्णासि ऋणं कस्मात तवम अथ्य वै यदैव ते ऽभयनुज्ञातं तदा गृह्णीस्व माचिरम 99 [विकृत] थीयताम इत्य अनेनॊक्तं थथानीति तदा मया नायं मे धारयत्य अत्र गम्यतां यत्र वाञ्छति 100 [रा] थथतॊ ऽसय न गृह्णासि विषमं परतिभाति मे थन्थ्यॊ हि तवं मम मतॊ नास्त्य अत्र खलु संशयः 101 [विकृत] मयास्य थत्तं राजर्षे गृह्णीयां तत कदं पुनः कामम अत्रापराधॊ मे थन्थ्यम आज्ञापय परभॊ 102 [विरूप] थीयमानं यथि मया नेसिष्यसि कदं चन नियंस्यति तवा नृपतिर अयं धर्मानुशासकः 103 [विकृत] सवं मया याचितेनेह थत्तं कदम इहाथ्य तत गृह्णीयां गच्छतु भवान अभ्यनुज्ञां थथानि ते 104 [बरा] शरुतम एतत तवया राजन्न अनयॊः कदितं थवयॊः परतिज्ञातं मया यत ते तथ्गृहाणाविचारितम 105 [रा] परस्तुतं सुमहत कार्यम आवयॊर गह्वरं यदा जापकस्य थृधी कारः कदम एतथ भविष्यति 106 यथि तावन न गृह्णामि बराह्मणेनापवर्जितम कदं न लिप्येयम अहं थॊषेण महताथ्य वै 107 [भी] तौ चॊवाच स राजर्षिः कृतकार्यौ गमिष्यदः नेथानीं माम इहासाथ्य राजधर्मॊ भवेन मृषा 108 सवधर्मः परिपाल्यश च राज्ञाम एष विनिश्चयः विप्र धर्मश च सुगुरुर माम अनात्मानम आविशत 109 [बरा] गृहाण धारये ऽहं ते याचितं ते शरुतं मया न चेथ गरहीष्यसे राजञ शपिष्ये तवां न संशयः 110 [रा] धिग राजधर्मं यस्यायं कार्यस्येह विनिश्चयः इत्य अर्दं मे गरहीतव्यं कदं तुल्यं भवेथ इति 111 एष पानिर अपूर्वं भॊ निक्षेपार्दं परसारितः यन मे धारयसे विप्र तथ इथानीं परथीयताम 112 [बरा] संहिता जपता यावान मया कश चिथ गुणः कृतः तत सर्वं परतिगृह्णीस्व यथि किं चिथ इहास्ति मे 113 [रा] जलम एतन निपतितं मम पानौ थविजॊत्तम समम अस्तु सहैवास्तु परतिगृह्णातु वै भवान 114 [विरूप] कामक्रॊधौ विथ्धि नौ तवम आवाभ्यां कारितॊ भवान समेति च यथ उक्तं ते समा लॊकास तवास्य च 115 नायं धारयते किं चिज जिज्ञासा तवत्कृते कृता कालॊ धर्मस तदा मृत्युः कामक्रॊधौ तदा युवाम 116 सर्वम अन्यॊन्यनिकसे निघृष्टं पश्यतस तव गच्छ लॊकाञ जितान सवेन कर्मणा यत्र वाञ्छति 117 [भी] जापकानां फलावाप्तिर मया ते संप्रकीर्तिता गतिः सदानं च लॊकाश च जापकेन यदा जिताः 118 परयाति संहिताध्यायी बराह्मणं परमेष्ठिनम अद वाग्निं समायाति सूर्यम आविशते ऽपि वा 119 स तैजसेन भावेन यथि तत्राश्नुते रतिम गुणांस तेषां समाथत्ते रागेण परतिमॊहितः 120 एवं सॊमे तदा वायौ भूम्याकाश शरीरगः सरागस तत्र वसति गुणांस तेषां समाचरन 121 अद तत्र विरागी स गच्छति तव अद संशयम परम अव्ययम इच्छन स तम एवाविशते पुनः 122 अमृताच चामृतं पराप्तः शीती भूतॊ निरात्मवान बरह्मभूतः स निर्थ्वन्थ्वः सुखी शान्तॊ निरामयः 123 बरह्म सदानम अनावर्तम एकम अक्षरसंज्ञकम अथुःखम अजरं शान्तं सदानं तत परतिपथ्यते 124 चतुर्भिर लक्षणैर हीनं तदा षड्भिः सषॊडशैः पुरुषं समतिक्रम्य आकाशं परतिपथ्यते 125 अद वेच्छति रागात्मा सर्वं तथ अधितिष्ठति यच च परार्दयते तच च मनसा परतिपथ्यते 126 अद वा वीक्षते लॊकान सर्वान निरयसंस्दितान निःस्पृहः सर्वतॊ मुक्तस तत्रैव रमते सुखी 127 एवम एषा महाराज जापकस्य गतिर यदा एतत ते सर्वम आख्यातं किं भूयः शरॊतुम इच्छसि |
1
[y] kālamṛtyuyamānāṃ ca brāhmaṇasya ca sattama vivādo vyāhṛtaḥ pūrvaṃ tad bhavān vaktum arhati 2 [bhī] atrāpy udāharantīmam itihāsaṃ purātanam ikṣvākoḥ sūryaputrasya yadvṛttaṃ brāhmaṇasya ca 3 kālasya mṛtyoś ca tathā yadvṛttaṃ tan nibodha me yathā sa teṣāṃ saṃvādo yasmin sthāne 'pi cābhavat 4 brāhmaṇo jāpakaḥ kaś cid dharmavṛtto mahāyaśāḥ ṣaḍaṅgavin mahāprājñaḥ paippalādiḥ sa kauśikaḥ 5 tasyāparokṣaṃ vijñānaṃ ṣaḍaṅgeṣu tathaiva ca vedeṣu caiva niṣṇāto himavatpādasaṃśrayaḥ 6 so 'ntyaṃ brāhmaṃ tapas tepe saṃhitāṃ saṃyato japan tasya varṣasahasraṃ tu niyamena tathāgatam 7 sa devyā darśitaḥ sākṣāt prītāsmīti tadā kila japyam āvartayaṃs tūsnīṃ na ca tāṃ kiṃ cid abravīt 8 tasyānukampayā devī prītā samabhavat tadā veda mātā tatas tasya taj japyaṃ samapūjayat 9 samāptajapyas tūtthāya śirasā pādayos tathā papāta devyā dharmātmā vacanaṃ cedam abravīt 10 diṣṭyā devi prasannā tvaṃ darśanaṃ cāgatā mama yadi vāpi prasannāsi japye me ramatāṃ manaḥ 11 [sāvitrī] kiṃ prārthayasi viprarṣe kiṃ ceṣṭaṃ karavāṇi te prabrūhi japatāṃ śreṣṭha sarvaṃ tat te bhaviṣyati 12 [bhī] ity uktaḥ sa tadā devyā vipraḥ provāca dharmavit japyaṃ prati mameccheyaṃ vardhatv iti punaḥ punaḥ 13 manasaś casamādhir me vardhetāhar ahaḥ śubhe tat tatheti tato devī madhuraṃ pratyabhāsata 14 idaṃ caivāparaṃ prāha devī tatpriyakāmyayā nirayaṃ naiva yātāsi yatra yātā dvijarṣabhāḥ 15 yāsyasi brahmaṇaḥ sthānam animittam aninditam sādhaye bhavitā caitad yat tvayāham ihārthitā 16 niyato japa caikāgro dharmas tvāṃ samupaiṣyati kālo mṛtyur yamaś caiva samāyāsyanti te 'ntikam bhavitā ca vivādo 'tra tava teṣāṃ ca dharmataḥ 17 evam uktvā ghavagatī jagāma bhavanaṃ svakam brāhmaṇo 'pi japann āste divyaṃ varṣaśataṃ tadā 18 samāpte niyame tasminn atha viprasya dhīmataḥ sākṣāt prītas tadā dharmo darśayām āsa taṃ dvijam 19 [dharma] dvijāte paśya māṃ dharmam ahaṃ tvāṃ draṣṭum āgataḥ japyasya ca phalaṃ yat te saṃprāptaṃ tac ca me śṛṇu 20 jitā lokās tvayā sarve ye divyā ye ca mānuṣāḥ devānāṃ nirayān sādho sarvān utkramya yāsyasi 21 prāṇa tyāgaṃ kuru mune gaccha lokān yathepsitān tyaktvātmanaḥ śarīraṃ ca tato lokān avāpsyasi 22 [brāhmaṇa] kṛtaṃ lokair hi me dharmagaccha ca tvaṃ yathāsukham bahuduḥkhasukhaṃ dehaṃ notsṛjeyam ahaṃ vibho 23 [dharma] avaśyaṃ bhoḥ śarīraṃ te tyaktavyaṃ munipuṃgava svarga ārohyatāṃ vipra kiṃ vā te rocate 'nagha 24 [brāhmaṇa] na rocaye svargavasaṃ vinā dehād ahaṃ vibho gaccha dharmana me śraddhā svargaṃ gantuṃ vinātmanā 25 [dharma] alaṃ dehe manaḥ kṛtvā tyaktvā dehaṃ sukhī bhava gaccha lokān arajaso yatra gatvā na śocati 26 [brāhmaṇa] rame japan mahābhāga kṛtaṃ lokaiḥ sanātanaiḥ saśarīreṇa gantavyo mayā svargo na vā vibho 27 [dharma] yadi tvaṃ necchasi tyaktuṃ śarīraṃ paśya va dvija eṣa kālas tathā mṛtyur yamaś ca tvām upāgatāḥ 28 [bhīsma] atha vaivasvataḥ kālo mṛtyuś ca tritayaṃ vibho brāhmaṇaṃ taṃ mahābhāgam upāgamyedam abruvan 29 tapaso 'sya sutaptasya tathā sucaritasya ca phalaprāptis tava śreṣṭhā yamo 'haṃ tvām upabruve 30 yathāvad asya japyasya phalaṃ prāptas tvam uttamam kālas te svargam ārodhuṃ kālo 'haṃ tvām upāgataḥ 31 mṛtyuṃ mā vidhidharmajña rūpiṇaṃ svayam āgatam kālena coditaṃ vipra tvām ito netum adya vai 32 [brāhmaṇa] svāgataṃ sūryaputrāya kālāya ca mahātmane mṛtyave cātha dharmāya kiṃ kāryaṃ karavāṇi vaḥ 33 [bhī] arghyaṃ pādyaṃ ca dattvā sa tebhyas tatra samāgame abravīt paramaprītaḥ svaśaktyā kiṃ karomi vaḥ 34 tasminn evātha kāle tu tīrthayātrām upāgataḥ ikṣvākur agamat tatra sametā yatra te vibho 35 sarvān eva tu rājarṣiḥ saṃpūjyābhipranamya ca kuśalapraśnam akarot sarveṣāṃ rājasattamaḥ 36 tasmai so 'thāsanaṃ dattvā pādyam arghyaṃ tathaiva ca abravīd brāhmaṇo vākyaṃ kṛtvā kuśalasaṃvidam 37 svāgataṃ te mahārāja brūhi yad yad ihecchasi svaśaktyā kiṃ karomīha tad bhavān prabravītu me 38 [rājā] rājāhaṃ brāhmaṇaś ca tvaṃ yadi saḥ karma saṃsthitaḥ dadāmi vasu kiṃ cit te prārthitaṃ tad vadasva me 39 [brā] dvividhā brāhmaṇā rājan dharmaś ca dvividhaḥ smṛtaḥ pravṛttaś ca nivṛttaś ca nivṛtto 'smi pratigrahāt 40 tebhyaḥ prayaccha dānāni ye pravṛttā narādhipa ahaṃ na pratigṛhṇāmi kim iṣṭaṃ kiṃ dadāni te brūhi tvaṃ nṛpatiśreṣṭha tapasā sādhayāmi kim 41 [rā] kṣatriyo 'haṃ na jānāmi dehīti vacanaṃ kva cit prayaccha yuddham ity evaṃ vādinaḥ smo dvijottama 42 [brā] tuṣyasi tvaṃ svadharmeṇa tathā tuṣṭā vayaṃ nṛpa anyonyasyottaraṃ nāsti yad iṣṭaṃ tat samācara 43 [rā] svaśaktyāhaṃ dadānīti tvayā pūrvaṃ prabhāsitam yāce tvāṃ diyatāṃ mahyaṃ japyasyāsya phalaṃ dvija 44 [brā] yuddhaṃ mama sadā vāṇī yācatīti vikatthase na ca yuddhaṃ mayā sārdhaṃ kimarthaṃ yācase punaḥ 45 [rā] vāgvajrā brāhmaṇā proktāḥ kṣatriyā bāhujīvinaḥ vāg yuddhaṃ tad idaṃ tīvraṃ mama vipra tvayā saha 46 [brā] saivādyāpi pratijñā me svaśaktyā kiṃ pradīyatām brūhi dāsyāmi rājendra vibhave sati māciram 47 [rā] yat tad varṣaśataṃ pūrṇaṃ japyaṃ vai japatā tvayā phalaṃ prāptaṃ tat prayaccha mama ditsur bhavān yadi 48 [brā] paramaṃ gṛhyatāṃ tasya phalaṃ yaj japitaṃ mayā ardhaṃ tvam avicāreṇa phalaṃ tasya samāpnuhi 49 atha vā sarvam eveha japyakaṃ māmakaṃ phalam rājan prāpnuhi kāmaṃ tvaṃ yadi sarvam ihecchasi 50 [rā] kṛtaṃ sarveṇa bhadraṃ te japyaṃ yad yācitaṃ mayā svasti te 'stu gamiṣyāmi kiṃ catasya phalaṃ vada 51 [brā] phalaprāptiṃ na jānāmi dattaṃ yaj japitaṃ mayā ayaṃ dharmaś ca kālaś ca yamo mṛtyuś ca sākṣiṇaḥ 52 [rā] ajñātam asya dharmasya phalaṃ me kiṃ kariṣyati prāpnotu tat phalaṃ vipro nāham icche sasaṃśayam 53 [brā] nādade 'paravaktavyaṃ dattaṃ vācā phalaṃ mayā vākyaṃ pramānaṃ rājarṣe mamāpi tava caiva hi 54 nābhisaṃdhir mayā japye kṛtapūrvaḥ kathaṃ cana japyasya rājaśārdūla kathaṃ jñāsyāmy ahaṃ phalam 55 dadasveti tvayā coktaṃ dadāmīti tathā mayā na vācaṃ dūsayiṣyāmi satyaṃ rakṣa sthiro bhava 56 athaivaṃ vadato me 'dya vacanaṃ na kariṣyasi mahān adharmo bhavitā tava rājan mṛṣā kṛtaḥ 57 na yuktaṃ tu mṛṣā vāṇī tvayā vaktum arindama tathā mayāpy abhyadhikaṃ mṛṣā vaktuṃ na śakyate 58 saṃśrutaṃ ca mayā pūrvaṃ dadānīty avicāritam tadgṛhṇīsvāvicāreṇa yadi satye sthito bhavān 59 ihāgamya hi māṃ rājañ jāpyaṃ phalam ayācithāḥ tan man nisṛṣṭaṃ gṛhṇīsva bhava satye sthiro 'pi ca 60 nāyaṃ loko 'sti na paro na ca pūrvān sa tārayet kuta evāvarān rājan mṛṣāvādaparāyanaḥ 61 na yajñādhyayane dānaṃ niyamās tārayanti hi tathā satyaṃ pare loke yathā vai puruṣarṣabha 62 tapāṃsi yāni cīrṇāni cariṣyasi ca yat tapaḥ samāḥ śataiḥ sahasraiś ca tat satyān na viśiṣyate 63 satyam ekākṣaraṃ brahmasatyam ekākṣaraṃ tapaḥ satyam ekākṣaro yajñaḥ satyam ekākṣaraṃ śrutam 64 satyaṃ vedeṣu jāgarti phalaṃ satye paraṃ smṛtam satyād dharmo damaś caiva sarvaṃ satye pratiṣṭhitam 65 satyaṃ vedās tathāṅgāni satyaṃ yajñas tathā vidhiḥ vratacaryās tathā satyam oṃkāraḥ satyam eva ca 66 prānināṃ jananaṃ satyaṃ satyaṃ saṃtatir eva ca satyena vāyur abhyeti satyena tapate raviḥ 67 satyena cāgnir dahati svargaḥ satye pratiṣṭhitaḥ satyaṃ yajñas tapo vedāḥ stobhā mantrāḥ sarasvatī 68 tulām āropito dharmaḥ satyaṃ caiveti naḥ śrutam samāṃ kakṣāṃ dhārayato yataḥ satyaṃ tato 'dhikam 69 yato dharmas tataḥ satyaṃ sarvaṃ satyena vardhate kimartham anṛtaṃ karma kartuṃ rājaṃs tvam icchasi 70 satye kuru sthiraṃ bhāvaṃ mā rājann anṛtaṃ kṛthāḥ kasmāt tvam anṛtaṃ vākyaṃ dehīti kuruṣe 'śubham 71 yadi japyaphalaṃ dattaṃ mayā nesiṣyase nṛpa svadharmebhyaḥ paribhraṣṭo lokān anucariṣyasi 72 saṃśrutya yo na ditseta yācitvā yaś ca necchati ubhāv ānṛtikāv etau na mṛṣā kartum arhasi 73 [rā] yoddhavyaṃ rakṣitavyaṃ ca kṣatradharmaḥ kila dvija dātāraḥ kṣatriyāḥ proktā gṛhṇīyāṃ bhavataḥ katham 74 [brā] na chandayāmi te rājan nāpi te gṛham āvrajam ihāgamya tu yācitvā na gṛhṇīse punaḥ katham 75 [dharma] avivādo 'stu yuvayor vittaṃ māṃ dharmam āgatam dvijo dānaphalair yukto rājā satyaphalena ca 76 [svarga] svargaṃ māṃ viddhi rājendra rūpiṇaṃ svayam āgatam avivādo 'stu yuvayor ubhau tulyaphalau yuvām 77 [rā] kṛtaṃ svargeṇa me kāryaṃ gaccha svargayathāsukham vipro yadīcchate dātuṃ pratīcchatu ca me dhanam 78 [brā] bālye yadi syād ajñānān mayā hastaḥ prasāritaḥ nivṛtti lakṣaṇaṃ dharmam upāse saṃhitāṃ japan 79 nivṛttaṃ māṃ ciraṃ rājan vipraṃ lobhayase katham svena kāryaṃ kariṣyāmi tvatto necche phalaṃ nṛpa tapaḥsvādhyaya śīlo 'haṃ nivṛttaś ca pratigrahāt 80 [rā] yadi vipra nisṛṣṭaṃ te japyasya phalam uttamam āvayor yat phalaṃ kiṃ cit sahitaṃ nau tad astv iha 81 dvijāḥ pratigrahe yuktā dātāro rājavaṃśajāḥ yadi dharmaḥ śruto vipra sahaiva phalam astu nau 82 mā vā bhūt saha bhojyaṃ nau madīyaṃ phalam āpnuhi pratīccha matkṛtaṃ dharmaṃ yadi te mayy anugrahaḥ 83 [bhī] tato vikṛtaceṣṭau dvau puruṣau samupasthitau gṛhītvānyonyam āveṣṭya kucelāv ūcatur vacaḥ 84 na me dhārayasīty eko dhārayāmīti cāparaḥ ihāsti nau vivādo 'yam ayaṃ rājānuśāsakaḥ 85 satyaṃ bravīmy aham idaṃ na me dhārayate bhavān anṛtaṃ vadasīha tvam ṛṇaṃ te dhārayāmy aham 86 tāv ubhau bhṛśasaṃtaptau rājānam idam ūcatuḥ parīkṣyatāṃ yathā syāva nāvām iha vigarhitau 87 [vikṛta] dhārayāmi naravyāghra vikṛtasyeha goḥ phalam dadataś ca na gṛhṇāti vikṛto me mahīpate 88 [virūpa] na me dhārayate kiṃ cid virūpo 'yaṃ narādhipa mithyā bravīty ayaṃ hi tvā mithyābhāsaṃ narādhipa 89 [rā] virūpakiṃ dhārayate bhavān asya vadasva me śrutvā tathā kariṣyāmīty evaṃ me dhīyate matiḥ 90 [virūpa] śṛṇuṣvāvahito rājan yathaitad dhārayāmy aham vikṛtasyāsya rājarṣe nikhilena nararṣabha 91 anena dharmaprāpty arthaṃ śubhā dattā purānagha dhenur viprāya rājarṣe tapaḥsvādhyāyaśīline 92 tasyāś cāyaṃ mayā rājan phalam abhyetya yācitaḥ vikṛtena ca me dattaṃ viśūdhenāntarātmanā 93 tato me sukṛtaṃ karmakṛtam ātmaviśuddhaye gāvau hi kapile krītvā vatsale bahu dohane 94 te coñcha vṛttaye rājan mayā samapavarjite yathāvidhi yathāśraddhaṃ tad asyāhaṃ punaḥ prabho 95 ihādya vai gṛhītvā tat prayacche dviguṇaṃ phalam ekasyāḥ puruṣavyāghra kaḥ śuddhaḥ ko 'tra doṣavān 96 evaṃ vivadamānau svas tvām ihābhyāgatau nṛpa kuru dharmam adharmaṃ vā vinaye nau samādhaya 97 yadi necchati me dānaṃ yathādattam anena vai bhavān atra sthiro bhūtvā mārge sthāpayatu prabhuḥ 98 [rā] dīyamānaṃ na gṛhṇāsi ṛṇaṃ kasmāt tvam adya vai yathaiva te 'bhyanujñātaṃ tathā gṛhṇīsva māciram 99 [vikṛta] dīyatām ity anenoktaṃ dadānīti tathā mayā nāyaṃ me dhārayaty atra gamyatāṃ yatra vāñchati 100 [rā] dadato 'sya na gṛhṇāsi viṣamaṃ pratibhāti me dandyo hi tvaṃ mama mato nāsty atra khalu saṃśayaḥ 101 [vikṛta] mayāsya dattaṃ rājarṣe gṛhṇīyāṃ tat kathaṃ punaḥ kāmam atrāparādho me dandyam ājñāpaya prabho 102 [virūpa] dīyamānaṃ yadi mayā nesiṣyasi kathaṃ cana niyaṃsyati tvā nṛpatir ayaṃ dharmānuśāsakaḥ 103 [vikṛta] svaṃ mayā yāciteneha dattaṃ katham ihādya tat gṛhṇīyāṃ gacchatu bhavān abhyanujñāṃ dadāni te 104 [brā] śrutam etat tvayā rājann anayoḥ kathitaṃ dvayoḥ pratijñātaṃ mayā yat te tadgṛhāṇāvicāritam 105 [rā] prastutaṃ sumahat kāryam āvayor gahvaraṃ yathā jāpakasya dṛdhī kāraḥ katham etad bhaviṣyati 106 yadi tāvan na gṛhṇāmi brāhmaṇenāpavarjitam kathaṃ na lipyeyam ahaṃ doṣeṇa mahatādya vai 107 [bhī] tau covāca sa rājarṣiḥ kṛtakāryau gamiṣyathaḥ nedānīṃ mām ihāsādya rājadharmo bhaven mṛṣā 108 svadharmaḥ paripālyaś ca rājñām eṣa viniścayaḥ vipra dharmaś ca sugurur mām anātmānam āviśat 109 [brā] gṛhāṇa dhāraye 'haṃ te yācitaṃ te śrutaṃ mayā na ced grahīṣyase rājañ śapiṣye tvāṃ na saṃśayaḥ 110 [rā] dhig rājadharmaṃ yasyāyaṃ kāryasyeha viniścayaḥ ity arthaṃ me grahītavyaṃ kathaṃ tulyaṃ bhaved iti 111 eṣa pānir apūrvaṃ bho nikṣepārthaṃ prasāritaḥ yan me dhārayase vipra tad idānīṃ pradīyatām 112 [brā] saṃhitā japatā yāvān mayā kaś cid guṇaḥ kṛtaḥ tat sarvaṃ pratigṛhṇīsva yadi kiṃ cid ihāsti me 113 [rā] jalam etan nipatitaṃ mama pānau dvijottama samam astu sahaivāstu pratigṛhṇātu vai bhavān 114 [virūpa] kāmakrodhau viddhi nau tvam āvābhyāṃ kārito bhavān sameti ca yad uktaṃ te samā lokās tavāsya ca 115 nāyaṃ dhārayate kiṃ cij jijñāsā tvatkṛte kṛtā kālo dharmas tathā mṛtyuḥ kāmakrodhau tathā yuvām 116 sarvam anyonyanikase nighṛṣṭaṃ paśyatas tava gaccha lokāñ jitān svena karmaṇā yatra vāñchati 117 [bhī] jāpakānāṃ phalāvāptir mayā te saṃprakīrtitā gatiḥ sthānaṃ ca lokāś ca jāpakena yathā jitāḥ 118 prayāti saṃhitādhyāyī brāhmaṇaṃ parameṣṭhinam atha vāgniṃ samāyāti sūryam āviśate 'pi vā 119 sa taijasena bhāvena yadi tatrāśnute ratim guṇāṃs teṣāṃ samādatte rāgeṇa pratimohitaḥ 120 evaṃ some tathā vāyau bhūmyākāśa śarīragaḥ sarāgas tatra vasati guṇāṃs teṣāṃ samācaran 121 atha tatra virāgī sa gacchati tv atha saṃśayam param avyayam icchan sa tam evāviśate punaḥ 122 amṛtāc cāmṛtaṃ prāptaḥ śītī bhūto nirātmavān brahmabhūtaḥ sa nirdvandvaḥ sukhī śānto nirāmayaḥ 123 brahma sthānam anāvartam ekam akṣarasaṃjñakam aduḥkham ajaraṃ śāntaṃ sthānaṃ tat pratipadyate 124 caturbhir lakṣaṇair hīnaṃ tathā ṣaḍbhiḥ saṣoḍaśaiḥ puruṣaṃ samatikramya ākāśaṃ pratipadyate 125 atha vecchati rāgātmā sarvaṃ tad adhitiṣṭhati yac ca prārthayate tac ca manasā pratipadyate 126 atha vā vīkṣate lokān sarvān nirayasaṃsthitān niḥspṛhaḥ sarvato muktas tatraiva ramate sukhī 127 evam eṣā mahārāja jāpakasya gatir yathā etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi |