1
[व] कदान्तरम अदासाथ्य खड्गयुथ्धविशारथः नकुलः शरतल्पस्दम इथम आह पितामहम 2 धनुः परहरणं शरेष्ठम इति वाथः पितामह मतस तु मम धर्मज्ञ खड्ग एव सुसंशितः 3 विशीर्णे कार्मुके राजन परक्षीणेषु च वाजिषु खड्गेन शक्यते युथ्धे साध्व आत्मा परिरक्षितुम 4 शरासनधरांश चैव गथा शक्तिधरांस तदा एकः खड्गधरॊ वीरः समर्दः परतिबाधितुम 5 अत्र मे संशयश चैव कौतूहलम अतीव च किं सवित परहरणं शरेष्ठं सर्वयुथ्धेषु पार्दिव 6 कदं चॊत्पाथितः खड्गः कस्यार्दाय च केन वा पूर्वाचार्यं च खड्गस्य परब्रूहि परपितामह 7 तस्य तथ वचनं शरुत्वा माथ्रीपुत्रस्य धीमतः सर्वकौशल संयुक्तं सूक्ष्मचित्रार्दवच छुभम 8 ततस तस्यॊत्तरं वाक्यं सवरवर्णॊपपाथितम शिक्षा नयायॊपसंपन्नं थरॊणशिष्याय पृच्छते 9 उवाच सर्वधर्मज्ञॊ धनुर्वेथस्य पारगः शरतल्पगतॊ भीष्मॊ नकुलाय महात्मने 10 तत्त्वं शृणुष्व माथ्रेय यथ एतत परिपृच्छसि परबॊधितॊ ऽसमि भवता धातुमान इव पर्वतः 11 सलिलैकार्णवं तात पुरा सर्वम अभूथ इथम निष्प्रकम्पम अनाकाशम अनिर्थेश्य महीतलम 12 तमः संवृतम अस्पर्शम अतिगम्भीर थर्शनम निःशब्थं चाप्रमेयं च तत्र जज्ञे पितामहः 13 सॊ ऽसृजथ वायुम अग्निं च भास्करं चापि वीर्यवान आकाशम असृजच चॊर्ध्वम अधॊ भूमिं च नैरृतिम 14 नभः स चन्थ्र तारं च नक्षत्राणि गरहांस तदा संवत्सरान अहॊरात्रान ऋतून अद लवान कषणान 15 ततः शरीरं लॊकस्दं सदापयित्वा पितामहः जनयाम आस भगवान पुत्रान उत्तमतेजसः 16 मरीचिम ऋषिम अत्रिं च पुलस्त्यं पुलहं करतुम वसिष्ठाङ्गिरसौ चॊभौ रुथ्रं च परभुम ईश्वरम 17 पराचेतसस तदा थक्षः कन्या षष्ठिम अजीजनत ता वै बरह्मर्षयः सर्वाः परजार्दं परतिपेथिरे 18 ताभ्यॊ विश्वानि भूतानि थेवाः पितृगणास तदा गन्धर्वाप्सरसश चैव रक्षांसि विविधानि च 19 पतत्रिमृगमीनाश च पलवंगाश च महॊरगाः नानाकृति बलाश चान्ये जलक्षितिविचारिणः 20 औथ्भिथाः सवेथजाश चैव अण्डजाश च जरायुजाः जज्ञे तात तदा सर्वं जगत सदावरजङ्गमम 21 भूतसर्गम इमं कृत्वा सर्वलॊकपितामहः शाश्वतं वेथ पठितं धर्मं च युयुजे पुनः 22 तस्मिन धर्मे सदिता थेवाः सहाचार्य पुरॊहिताः आथित्या वसवॊ रुथ्राः स साध्या मरुथ अश्विनः 23 भृग्वत्र्य अङ्गिरसः सिथ्धाः काश्यपश च तपॊधनः वसिष्ठ गौतमागस्त्यास तदा नारथ पर्वतौ 24 ऋषयॊ वालखिल्याश च परभासाः सिकतास तदा घृताचाः सॊमवायव्या वैखानस मरीचिपाः 25 अकृष्टाश चैव हंसाश च ऋषयॊ ऽदाग्नियॊनिजाः वानप्रस्दाः पृश्नयश च सदिता बरह्मानुशासने 26 थानवेन्थ्रास तव अतिक्रम्य तत पितामह शासनम धर्मस्यापचयं चक्रुः करॊधलॊभ समन्विताः 27 हिरण्यकशिपुश चैव हिरण्याक्षॊ विरॊचनः शम्बरॊ विप्रचित्तिश च परह्राथॊ नमुचिर बलिः 28 एते चान्ये च बहवः सगणा थैत्यथानवाः धर्मसेतुम अतिक्रम्य रेमिरे ऽधर्मनिश्चयाः 29 सर्वे सम तुल्यजातीया यदा थेवास तदा वयम इत्य एवं हेतुम आस्दाय सपर्धमानाः सुरर्षिभिः 30 न परियं नाप्य अनुक्रॊशं चक्रुर भूतेषु भारत तरीन उपायान अतिक्रम्य थण्डेन रुरुधुः परजाः न जग्मुः संविथं तैश च थर्पाथ असुरसत्तमाः 31 अद वै भगवान बरह्मा बरह्मर्षिभिर उपस्दितः तथा हिमवतः पृष्ठे सुरम्ये पथ्मतारके 32 शतयॊजनविस्तारे मणिमुक्ता चयाचिते तस्मिन गिरिवरे पुत्र पुष्पितथ्रुमकानने तस्दौ स विबुधश्रेष्ठॊ बरह्मा लॊकार्द सिथ्धये 33 ततॊ वर्षसहस्रान्ते वितानम अकरॊत परभुः विधिना कल्पथृष्टेन यदॊक्तेनॊपपाथितम 34 ऋषिभिर यज्ञपटुभिर यदावत कर्म कर्तृभिः मरुथ्भिः परिसंस्तीर्णं थीप्यमानैश च पावकैः 35 काञ्चनैर यज्ञभाण्डैश च भराजिष्णुभिर अलंकृतम वृतं थेवगणैश चैव परबभौ यज्ञमण्डलम 36 तदा बरह्मर्षिभिश चैव सथस्यैर उपशॊभितम तत्र घॊरतमं वृत्तम ऋषीणां मे परिश्रुतम 37 चन्थ्रमा विमलं वयॊम यदाभ्युथित तारकम विथार्याग्निं तदा भूतम उत्दितं शरूयते ततः 38 नीलॊत्पलसवर्णाभं तीक्ष्णथंष्ट्रं कृशॊथरम परांशु थुर्थर्शनं चैवाप्य अतितेजस तदैव च 39 तस्मिन्न उत्पतमाने च परचचाल वसुंधरा तत्रॊर्मि कलिलावर्तश चुक्षुभे च महार्णवः 40 पेतुर उल्का महॊत्पाताः शाखाश च मुमुचुर थरुमाः अप्रसन्ना थिशः सर्वाः पवनश चाशिवॊ ववौ मुहुर मुहुश च भूतानि पराव्यदन्त भयात तदा 41 ततः सुतुमुलं थृष्ट्वा तथ अथ्भुतम उपस्दितम महर्षिसुरगन्धर्वान उवाचेथं पितामहः 42 मयैतच चिन्तितं भूतम असिर नामैष वीर्यवान रक्षणार्दाय लॊकस्य वधाय च सुरथ्विषाम 43 ततस तथ रूपम उत्सृज्य बभौ निस्त्रिंश एव सः विमलस तीक्ष्णधारश च कालान्तक इवॊथ्यतः 44 ततस तं शितिकण्ठाय रुथ्रायर्षभ केतवे बरह्मा थथाव असिं थीप्तम अधर्मप्रतिवारणम 45 ततः स भगवान रुथ्रॊ बरह्मर्षिगणसंस्तुतः परगृह्यासिम अमेयात्मा रूपम अन्यच चकार ह 46 चतुर्बाहुः सपृशन मूर्ध्ना भूस्दितॊ ऽपि नभस्तलम ऊर्ध्वथृष्टिर महालिङ्गॊ मुखाज जवालाः समुत्सृजन विकुर्वन बहुधा वर्णान नीलपाण्डुर लॊहितान 47 बिभ्रत कृष्णाजिनं वासॊ हेमप्रवर तारकम नेत्रं चैकं ललाटेन भास्करप्रतिमं महत शुशुभाते च विमले थवे नेत्रे कृष्णपिङ्गले 48 ततॊ थेवॊ महाथेवः शूलपाणिर भगाक्षि हा संप्रगृह्य तु निस्त्रिंशं कालार्कानल संनिभम 49 तरिकूटं चर्म चॊथ्यम्य स विथ्युतम इवाम्बुथम चचार विविधान मार्गान महाबलपराक्रमः विधुन्वन्न असिम आकाशे थानवान्त चिकीर्षया 50 तस्य नाथं विनथतॊ महाहासं च मुञ्चतः बभौ परतिभयं रूपं तथा रुथ्रस्य भारत 51 तथ रूपधारिणं रुथ्रं रौथ्रकर्म चिकीर्षवः निशम्य थानवाः सर्वे हृष्टाः समभिथुथ्रुवुः 52 अश्मभिश चाप्य अवर्षन्त परथीप्तैश च तदॊल्मुकैः घॊरैः परहरणैश चान्यैः शितधारैर अयॊमुखैः 53 ततस तथ थानवानीकं संप्रणेतारम अच्युतम रुथ्र खड्गबलॊथ्धूतं परचचाल मुमॊह च 54 चित्रं शीघ्रतरत्वाच च चरन्तम असि धारिणम तम एकम असुराः सर्वे सहस्रम इति मेनिरे 55 छिन्थन भिन्थन रुजन कृन्तन थारयन परमदन्न अपि अचरथ थैत्य संघेषु रुथ्रॊ ऽगनिर इव कक्षगः 56 असि वेगप्ररुग्णास ते छिन्नबाहूरुवक्षसः संप्रकृत्तॊत्तमाङ्गाश च पेतुर उर्व्यां महासुराः 57 अपरे थानवा भग्ना रुथ्र घातावपीडिताः अन्यॊन्यम अभिनर्थन्तॊ थिशः संप्रतिपेथिरे 58 भूमिं के चित परविविशुः पर्वतान अपरे तदा अपरे जग्मुर आकाशम अपरे ऽमभः समाविशन 59 तस्मिन महति संवृत्ते समरे भृशथारुणे बभौ भूमिः परतिभया तथा रुधिरकर्थमा 60 थानवानां शरीरैश च महथ्भिः शॊणितॊक्षितैः समाकीर्णा महाबाहॊ शैलैर इव स किंशुकैः 61 रुधिरेण परिक्लिन्ना परबभौ वसुधा तथा रक्तार्थ्र वसना शयामा नारीव मथविह्वला 62 स रुथ्रॊ थानवान हत्वा कृत्वा धर्मॊत्तरं जगत रौथ्रं रूपं विहायाशु चक्रे रूपं शिवं शिवः 63 ततॊ महर्षयः सर्वे सर्वे थेवगणास तदा जयेनाथ्भुत कल्पेन थेवथेवम अदार्चयन 64 ततः स भगवान रुथ्रॊ थानव कषतजॊक्षितम असिं धर्मस्य गॊप्तारं थथौ सत्कृत्य विष्णवे 65 विष्णुर मरीचये पराथान मरीचिर भगवांश च तम महर्षिभ्यॊ थथौ खड्गम ऋषयॊ वासवाय तु 66 महेन्थ्रॊ लॊकपालेभ्यॊ लॊकपालास तु पुत्रक मनवे सूर्यपुत्राय थथुः खड्गं सुविस्तरम 67 ऊचुश चैनं तदैवाथ्यं मानुषाणां तवम ईश्वरः असिना धर्मगर्भेण पालयस्व परजा इति 68 धर्मसेतुम अतिक्रान्ताः सूक्ष्मस्दूलार्द कारणात विभज्य थण्डं रक्ष्याः सयुर धर्मतॊ न यथृच्छया 69 थुर्वाचा निग्रहॊ थण्डॊ हिरण्यबहुलस तदा वयङ्गनं च शरीरस्य वधॊ वानल्प कारणात 70 असेर एतानि रूपाणि थुर्वाचाथीनि निर्थिशेत असेर एव परमाणानि परिमाण वयतिक्रमात 71 अधिसृज्याद पुत्रं सवं परजानाम अधिपं ततः मनुः परजानां रक्षार्दं कषुपाय परथथाव असिम 72 कषुपाज जग्राह चेक्ष्वाकुर इष्क्वाकॊश च पुरूरवाः आयुश च तस्माल लेभे तं नहुषश च ततॊ भुवि 73 ययातिर नहुषाच चापि पूरुस तस्माच च लब्धवान आमूर्तरयसस तस्मात ततॊ भूमिशयॊ नृपः 74 भरतश चापि थौःषन्तिर लेभे भूमिशयाथ असिम तस्माच च लेभे धर्मज्ञॊ राजन्न ऐडबिडस तदा 75 ततश चैडबिडाल लेभे धुन्धुमारॊ जनेश्वरः धुन्धुमाराच च काम्बॊजॊ मुचुकुन्थस ततॊ ऽलभत 76 मुचुकुन्थान मरुत्तश च मरुत्ताथ अपि रैवतः रैवताथ युवनाश्वश च युवनाश्वात ततॊ रघुः 77 इष्क्वाकु वंशजस तस्माथ धरिणाश्वः परतापवान हरिणाश्वाथ असिं लेभे शुनकः शुनकाथ अपि 78 उशीनरॊ वै धर्मात्मा तस्माथ भॊजाः स याथवाः यथुभ्यश च शिबिर लेभे शिबेश चापि परतर्थनः 79 परतर्थनाथ अष्टकश च रुशथ अश्वॊ ऽषटकाथ अपि रुशथ अश्वाथ भरथ्वाजॊ थरॊणस तस्मात कृपस ततः ततस तवं भरातृभिः सार्धं परमासिम अवाप्तवान 80 कृत्तिकाश चास्य नक्षत्रम असेर अग्निश च थैवतम रॊहिण्यॊ गॊत्रम अस्याद रुथ्रश च गुरुर उत्तमः 81 असेर अष्टौ च नामानि रहस्यानि निबॊध मे पाण्डवेय सथा यानि कीर्तयँल लभते जयम 82 असिर विशसनः खड्गस तीक्ष्णवर्त्मा थुरासथः शरीगर्भॊ विजयश चैव धर्मपालस तदैव च 83 अग्र्यः परहरणानां च खड्गॊ माथ्रवतीसुत महेश्वर परणीतश च पुराणे निश्चयं गतः 84 पृदुस तूत्पाथयाम आस धनुर आथ्यम अरिंथम तेनेयं पृदिवी पूर्वं वैन्येन परिरक्षिता 85 तथ एतथ आर्षं माथ्रेय परमाणं कर्तुम अर्हसि असेश च पूजा कर्तव्या सथा युथ्धविशारथैः 86 इत्य एष परदमः कल्पॊ वयाख्यातस ते सुविस्तरः असेर उत्पत्तिसंसर्गॊ यदावथ भरतर्षभ 87 सर्वदैतथ इह शरुत्वा खड्गसाधनम उत्तमम लभते पुरुषः कीर्तिं परेत्य चानन्त्यम अश्नुते |
1
[v] kathāntaram athāsādya khaḍgayuddhaviśāradaḥ nakulaḥ śaratalpastham idam āha pitāmaham 2 dhanuḥ praharaṇaṃ śreṣṭham iti vādaḥ pitāmaha matas tu mama dharmajña khaḍga eva susaṃśitaḥ 3 viśīrṇe kārmuke rājan prakṣīṇeṣu ca vājiṣu khaḍgena śakyate yuddhe sādhv ātmā parirakṣitum 4 śarāsanadharāṃś caiva gadā śaktidharāṃs tathā ekaḥ khaḍgadharo vīraḥ samarthaḥ pratibādhitum 5 atra me saṃśayaś caiva kautūhalam atīva ca kiṃ svit praharaṇaṃ śreṣṭhaṃ sarvayuddheṣu pārthiva 6 kathaṃ cotpāditaḥ khaḍgaḥ kasyārthāya ca kena vā pūrvācāryaṃ ca khaḍgasya prabrūhi prapitāmaha 7 tasya tad vacanaṃ śrutvā mādrīputrasya dhīmataḥ sarvakauśala saṃyuktaṃ sūkṣmacitrārthavac chubham 8 tatas tasyottaraṃ vākyaṃ svaravarṇopapāditam śikṣā nyāyopasaṃpannaṃ droṇaśiṣyāya pṛcchate 9 uvāca sarvadharmajño dhanurvedasya pāragaḥ śaratalpagato bhīṣmo nakulāya mahātmane 10 tattvaṃ śṛṇuṣva mādreya yad etat paripṛcchasi prabodhito 'smi bhavatā dhātumān iva parvataḥ 11 salilaikārṇavaṃ tāta purā sarvam abhūd idam niṣprakampam anākāśam anirdeśya mahītalam 12 tamaḥ saṃvṛtam asparśam atigambhīra darśanam niḥśabdaṃ cāprameyaṃ ca tatra jajñe pitāmahaḥ 13 so 'sṛjad vāyum agniṃ ca bhāskaraṃ cāpi vīryavān ākāśam asṛjac cordhvam adho bhūmiṃ ca nairṛtim 14 nabhaḥ sa candra tāraṃ ca nakṣatrāṇi grahāṃs tathā saṃvatsarān ahorātrān ṛtūn atha lavān kṣaṇān 15 tataḥ śarīraṃ lokasthaṃ sthāpayitvā pitāmahaḥ janayām āsa bhagavān putrān uttamatejasaḥ 16 marīcim ṛṣim atriṃ ca pulastyaṃ pulahaṃ kratum vasiṣṭhāṅgirasau cobhau rudraṃ ca prabhum īśvaram 17 prācetasas tathā dakṣaḥ kanyā ṣaṣṭhim ajījanat tā vai brahmarṣayaḥ sarvāḥ prajārthaṃ pratipedire 18 tābhyo viśvāni bhūtāni devāḥ pitṛgaṇās tathā gandharvāpsarasaś caiva rakṣāṃsi vividhāni ca 19 patatrimṛgamīnāś ca plavaṃgāś ca mahoragāḥ nānākṛti balāś cānye jalakṣitivicāriṇaḥ 20 audbhidāḥ svedajāś caiva aṇḍajāś ca jarāyujāḥ jajñe tāta tathā sarvaṃ jagat sthāvarajaṅgamam 21 bhūtasargam imaṃ kṛtvā sarvalokapitāmahaḥ śāśvataṃ veda paṭhitaṃ dharmaṃ ca yuyuje punaḥ 22 tasmin dharme sthitā devāḥ sahācārya purohitāḥ ādityā vasavo rudrāḥ sa sādhyā marud aśvinaḥ 23 bhṛgvatry aṅgirasaḥ siddhāḥ kāśyapaś ca tapodhanaḥ vasiṣṭha gautamāgastyās tathā nārada parvatau 24 ṛṣayo vālakhilyāś ca prabhāsāḥ sikatās tathā ghṛtācāḥ somavāyavyā vaikhānasa marīcipāḥ 25 akṛṣṭāś caiva haṃsāś ca ṛṣayo 'thāgniyonijāḥ vānaprasthāḥ pṛśnayaś ca sthitā brahmānuśāsane 26 dānavendrās tv atikramya tat pitāmaha śāsanam dharmasyāpacayaṃ cakruḥ krodhalobha samanvitāḥ 27 hiraṇyakaśipuś caiva hiraṇyākṣo virocanaḥ śambaro vipracittiś ca prahrādo namucir baliḥ 28 ete cānye ca bahavaḥ sagaṇā daityadānavāḥ dharmasetum atikramya remire 'dharmaniścayāḥ 29 sarve sma tulyajātīyā yathā devās tathā vayam ity evaṃ hetum āsthāya spardhamānāḥ surarṣibhiḥ 30 na priyaṃ nāpy anukrośaṃ cakrur bhūteṣu bhārata trīn upāyān atikramya daṇḍena rurudhuḥ prajāḥ na jagmuḥ saṃvidaṃ taiś ca darpād asurasattamāḥ 31 atha vai bhagavān brahmā brahmarṣibhir upasthitaḥ tadā himavataḥ pṛṣṭhe suramye padmatārake 32 śatayojanavistāre maṇimuktā cayācite tasmin girivare putra puṣpitadrumakānane tasthau sa vibudhaśreṣṭho brahmā lokārtha siddhaye 33 tato varṣasahasrānte vitānam akarot prabhuḥ vidhinā kalpadṛṣṭena yathoktenopapāditam 34 ṛṣibhir yajñapaṭubhir yathāvat karma kartṛbhiḥ marudbhiḥ parisaṃstīrṇaṃ dīpyamānaiś ca pāvakaiḥ 35 kāñcanair yajñabhāṇḍaiś ca bhrājiṣṇubhir alaṃkṛtam vṛtaṃ devagaṇaiś caiva prababhau yajñamaṇḍalam 36 tathā brahmarṣibhiś caiva sadasyair upaśobhitam tatra ghoratamaṃ vṛttam ṛṣīṇāṃ me pariśrutam 37 candramā vimalaṃ vyoma yathābhyudita tārakam vidāryāgniṃ tathā bhūtam utthitaṃ śrūyate tataḥ 38 nīlotpalasavarṇābhaṃ tīkṣṇadaṃṣṭraṃ kṛśodaram prāṃśu durdarśanaṃ caivāpy atitejas tathaiva ca 39 tasminn utpatamāne ca pracacāla vasuṃdharā tatrormi kalilāvartaś cukṣubhe ca mahārṇavaḥ 40 petur ulkā mahotpātāḥ śākhāś ca mumucur drumāḥ aprasannā diśaḥ sarvāḥ pavanaś cāśivo vavau muhur muhuś ca bhūtāni prāvyathanta bhayāt tathā 41 tataḥ sutumulaṃ dṛṣṭvā tad adbhutam upasthitam maharṣisuragandharvān uvācedaṃ pitāmahaḥ 42 mayaitac cintitaṃ bhūtam asir nāmaiṣa vīryavān rakṣaṇārthāya lokasya vadhāya ca suradviṣām 43 tatas tad rūpam utsṛjya babhau nistriṃśa eva saḥ vimalas tīkṣṇadhāraś ca kālāntaka ivodyataḥ 44 tatas taṃ śitikaṇṭhāya rudrāyarṣabha ketave brahmā dadāv asiṃ dīptam adharmaprativāraṇam 45 tataḥ sa bhagavān rudro brahmarṣigaṇasaṃstutaḥ pragṛhyāsim ameyātmā rūpam anyac cakāra ha 46 caturbāhuḥ spṛśan mūrdhnā bhūsthito 'pi nabhastalam ūrdhvadṛṣṭir mahāliṅgo mukhāj jvālāḥ samutsṛjan vikurvan bahudhā varṇān nīlapāṇḍura lohitān 47 bibhrat kṛṣṇājinaṃ vāso hemapravara tārakam netraṃ caikaṃ lalāṭena bhāskarapratimaṃ mahat śuśubhāte ca vimale dve netre kṛṣṇapiṅgale 48 tato devo mahādevaḥ śūlapāṇir bhagākṣi hā saṃpragṛhya tu nistriṃśaṃ kālārkānala saṃnibham 49 trikūṭaṃ carma codyamya sa vidyutam ivāmbudam cacāra vividhān mārgān mahābalaparākramaḥ vidhunvann asim ākāśe dānavānta cikīrṣayā 50 tasya nādaṃ vinadato mahāhāsaṃ ca muñcataḥ babhau pratibhayaṃ rūpaṃ tadā rudrasya bhārata 51 tad rūpadhāriṇaṃ rudraṃ raudrakarma cikīrṣavaḥ niśamya dānavāḥ sarve hṛṣṭāḥ samabhidudruvuḥ 52 aśmabhiś cāpy avarṣanta pradīptaiś ca tatholmukaiḥ ghoraiḥ praharaṇaiś cānyaiḥ śitadhārair ayomukhaiḥ 53 tatas tad dānavānīkaṃ saṃpraṇetāram acyutam rudra khaḍgabaloddhūtaṃ pracacāla mumoha ca 54 citraṃ śīghrataratvāc ca carantam asi dhāriṇam tam ekam asurāḥ sarve sahasram iti menire 55 chindan bhindan rujan kṛntan dārayan pramathann api acarad daitya saṃgheṣu rudro 'gnir iva kakṣagaḥ 56 asi vegaprarugṇās te chinnabāhūruvakṣasaḥ saṃprakṛttottamāṅgāś ca petur urvyāṃ mahāsurāḥ 57 apare dānavā bhagnā rudra ghātāvapīḍitāḥ anyonyam abhinardanto diśaḥ saṃpratipedire 58 bhūmiṃ ke cit praviviśuḥ parvatān apare tathā apare jagmur ākāśam apare 'mbhaḥ samāviśan 59 tasmin mahati saṃvṛtte samare bhṛśadāruṇe babhau bhūmiḥ pratibhayā tadā rudhirakardamā 60 dānavānāṃ śarīraiś ca mahadbhiḥ śoṇitokṣitaiḥ samākīrṇā mahābāho śailair iva sa kiṃśukaiḥ 61 rudhireṇa pariklinnā prababhau vasudhā tadā raktārdra vasanā śyāmā nārīva madavihvalā 62 sa rudro dānavān hatvā kṛtvā dharmottaraṃ jagat raudraṃ rūpaṃ vihāyāśu cakre rūpaṃ śivaṃ śivaḥ 63 tato maharṣayaḥ sarve sarve devagaṇās tathā jayenādbhuta kalpena devadevam athārcayan 64 tataḥ sa bhagavān rudro dānava kṣatajokṣitam asiṃ dharmasya goptāraṃ dadau satkṛtya viṣṇave 65 viṣṇur marīcaye prādān marīcir bhagavāṃś ca tam maharṣibhyo dadau khaḍgam ṛṣayo vāsavāya tu 66 mahendro lokapālebhyo lokapālās tu putraka manave sūryaputrāya daduḥ khaḍgaṃ suvistaram 67 ūcuś cainaṃ tathaivādyaṃ mānuṣāṇāṃ tvam īśvaraḥ asinā dharmagarbheṇa pālayasva prajā iti 68 dharmasetum atikrāntāḥ sūkṣmasthūlārtha kāraṇāt vibhajya daṇḍaṃ rakṣyāḥ syur dharmato na yadṛcchayā 69 durvācā nigraho daṇḍo hiraṇyabahulas tathā vyaṅganaṃ ca śarīrasya vadho vānalpa kāraṇāt 70 aser etāni rūpāṇi durvācādīni nirdiśet aser eva pramāṇāni parimāṇa vyatikramāt 71 adhisṛjyātha putraṃ svaṃ prajānām adhipaṃ tataḥ manuḥ prajānāṃ rakṣārthaṃ kṣupāya pradadāv asim 72 kṣupāj jagrāha cekṣvākur iṣkvākoś ca purūravāḥ āyuś ca tasmāl lebhe taṃ nahuṣaś ca tato bhuvi 73 yayātir nahuṣāc cāpi pūrus tasmāc ca labdhavān āmūrtarayasas tasmāt tato bhūmiśayo nṛpaḥ 74 bharataś cāpi dauḥṣantir lebhe bhūmiśayād asim tasmāc ca lebhe dharmajño rājann aiḍabiḍas tathā 75 tataś caiḍabiḍāl lebhe dhundhumāro janeśvaraḥ dhundhumārāc ca kāmbojo mucukundas tato 'labhat 76 mucukundān maruttaś ca maruttād api raivataḥ raivatād yuvanāśvaś ca yuvanāśvāt tato raghuḥ 77 iṣkvāku vaṃśajas tasmād dhariṇāśvaḥ pratāpavān hariṇāśvād asiṃ lebhe śunakaḥ śunakād api 78 uśīnaro vai dharmātmā tasmād bhojāḥ sa yādavāḥ yadubhyaś ca śibir lebhe śibeś cāpi pratardanaḥ 79 pratardanād aṣṭakaś ca ruśad aśvo 'ṣṭakād api ruśad aśvād bharadvājo droṇas tasmāt kṛpas tataḥ tatas tvaṃ bhrātṛbhiḥ sārdhaṃ paramāsim avāptavān 80 kṛttikāś cāsya nakṣatram aser agniś ca daivatam rohiṇyo gotram asyātha rudraś ca gurur uttamaḥ 81 aser aṣṭau ca nāmāni rahasyāni nibodha me pāṇḍaveya sadā yāni kīrtayaṁl labhate jayam 82 asir viśasanaḥ khaḍgas tīkṣṇavartmā durāsadaḥ śrīgarbho vijayaś caiva dharmapālas tathaiva ca 83 agryaḥ praharaṇānāṃ ca khaḍgo mādravatīsuta maheśvara praṇītaś ca purāṇe niścayaṃ gataḥ 84 pṛthus tūtpādayām āsa dhanur ādyam ariṃdama teneyaṃ pṛthivī pūrvaṃ vainyena parirakṣitā 85 tad etad ārṣaṃ mādreya pramāṇaṃ kartum arhasi aseś ca pūjā kartavyā sadā yuddhaviśāradaiḥ 86 ity eṣa prathamaḥ kalpo vyākhyātas te suvistaraḥ aser utpattisaṃsargo yathāvad bharatarṣabha 87 sarvathaitad iha śrutvā khaḍgasādhanam uttamam labhate puruṣaḥ kīrtiṃ pretya cānantyam aśnute |