1
[मार्क] चिन्तयित्वा तथ आश्चर्यं सत्रिया परॊक्तम अशेषतः विनिन्थन स थविजॊ ऽऽतमानम आगः कृत इवाबभौ 2 चिन्तयानः स धर्मस्य सूक्ष्मां गतिम अदाब्रवीत शरथ्थधानेन भाव्यं वै गच्छामि मिदिलाम अहम 3 कृतात्मा धर्मवित तस्यां वयाधॊ निवसते किल तं गच्छाम्य अहम अथ्यैव धर्मं परष्टुं तपॊधनम 4 इति संचिन्त्य मनसा शरथ्थधानः सत्रिया वचः बलाका परत्ययेनासौ धर्म्यैश च वचनैः शुभैः संप्रतस्दे स मिदिलां कौतूहलसमन्वितः 5 अतिक्रामन्न अरण्यानि गरामांश च नगराणि च ततॊ जगाम मिदिलां जनकेन सुरक्षिताम 6 धर्मसेतु समाकीर्णां यज्ञॊत्सव वतीं शुभाम गॊपुराट्टालकवतीं गृहप्राकारशॊभिताम 7 परविश्य स पुरीं रम्यां विमानैर बहुभिर वृताम पण्यैश च बहुभिर युक्तां सुविभक्तमहापदाम 8 अश्वै रदैस तदा नागैर यानैश च बहुभिर वृताम हृष्टपुष्ट जनाकीर्णां नित्यॊत्सव समाकुलाम 9 सॊ ऽपश्यथ बहु वृत्तान्तां बराह्मणः समतिक्रमन धर्मव्याधम अपृच्छच च स चास्य कदितॊ थविजैः 10 अपश्यत तत्र गत्वा तं सूना मध्ये वयवस्दितम मार्गमाहिष मांसानि विक्रीणन्तं तपस्विनम आकुलत्वात तु करेतॄणाम एकान्ते संस्दितॊ थविजः 11 स तु जञात्वा थविजं पराप्तं सहसा संभ्रमॊत्दितः आजगाम यतॊ विप्रः सदित एकान्त आसने 12 [वयाध] अभिवाथये तवा भगवन सवागतं ते थविजॊत्तम अहं वयाधस तु भथ्रं ते किं करॊमि परशाधि माम 13 एकपत्न्या यथ उक्तॊ ऽसि गच्छ तवं मिदिलाम इति जानाम्य एतथ अहं सर्वं यथर्दं तवम इहागतः 14 [मार्क] शरुत्वा तु तस्य तथ वाक्यं स विप्रॊ भृशहर्षितः थवितीयम इथम आश्चर्यम इत्य अचिन्तयत थविजः 15 अथेशस्दं हि ते सदानम इति वयाधॊ ऽबरवीथ थविजम गृहं गच्छाव भगवन यथि रॊचयसे ऽनघ 16 बाढम इत्य एव संहृष्टॊ विप्रॊ वचनम अब्रवीत अग्रतस तु थविजं कृत्वा स जगाम गरहान परति 17 परविश्य च गृहं रम्यम आसनेनाभिपूजितः पाथ्यम आचमनीयं च परतिगृह्य थविजॊत्तमः 18 ततः सुखॊपविष्टस तं वयाधं वचनम अब्रवीत कर्मैतथ वै न सथृशं भवतः परतिभाति मे अनुतप्ये भृशं तात तव घॊरेण कर्मणा 19 [वयाध] कुलॊचितम इथं कर्म पितृपैतामहं मम वर्तमानस्य मे धर्मे सवे मन्युं मा कृदा थविज 20 धात्रा तु विहितं पूर्वं कर्म सवं पालयाम्य अहम परयत्नाच च गुरू वृथ्धौ शुश्रूषे ऽहं थविजॊत्तम 21 सत्यं वथे नाभ्यसूये यदाशक्ति थथामि च थेवतातिदिभृत्यानाम अवशिष्टेन वर्तये 22 न कुत्सयाम्य अहं किं चिन न गर्हे बलवत्तरम कृतम अन्वेति कर्तारं पुरा कर्म थविजॊत्तम 23 कृषिगॊरक्ष्य वाणिज्यम इह लॊकस्य जीवनम थण्डनीतिस तरयी विथ्या तेन लॊका भवन्त्य उत 24 कर्म शूथ्रे कृषिर वैश्ये संग्रामः कषत्रिये समृतः बरह्मचर्यं तपॊ मन्त्राः सत्यं च बराह्मणे सथा 25 राजा परशास्ति धर्मेण सवकर्म निरताः परजाः विकर्माणश च ये के चित तान युनक्ति सवकर्मसु 26 भेतव्यं हि सथा राज्ञां परजानाम अधिपा हि ते मारयन्ति विकर्मस्दं लुब्धा मृगम इवेषुभिः 27 जनकस्येह विप्रर्षे विकर्मस्दॊ न विथ्यते सवकर्म निरता वर्णाश चत्वारापि थविजॊत्तम 28 स एष जनकॊ राजा थुर्वृत्तम अपि चेत सुतम थण्ड्यं थण्डे निक्षिपति तदा न गलाति धार्मिकम 29 सुयुक्तचारॊ नृपतिः सर्वं धर्मेण पश्यति शरीश च राज्यं च थण्डश च कषत्रियाणां थविजॊत्तम 30 राजानॊ हि सवधर्मेण शरियम इच्छन्ति भूयसीम सर्वेषाम एव वर्णानां तराता राजा भवत्य उत 31 परेण हि हतान बरह्मन वराहमहिषान अहम न सवयं हन्मि विप्रर्षे विक्रीणामि सथा तव अहम 32 न भक्षयामि मांसानि ऋतुगामी तदा हय अहम सथॊपवासी च तदा नक्तभॊजी तदा थविज 33 अशीलश चापि पुरुषॊ भूत्वा भवति शीलवान पराणि हिंसा रतश चापि भवते धार्मिकः पुनः 34 वयभिचारान नरेन्थ्राणां धर्मः संकीर्यते महान अधर्मॊ वर्धते चापि संकीर्यन्ते तदा परजाः 35 उरुण्डा वामनाः कुब्जाः सदूलशीर्षास तदैव च कलीबाश चान्धाश च जायन्ते बधिरा लम्बचूचुकाः पार्दिवानाम अधर्मत्वात परजानाम अभवः सथा 36 स एष राजा जनकः सर्वं धर्मेण पश्यति अनुगृह्णन परजाः सर्वाः सवधर्मनिरताः सथा 37 ये चैव मां परशंसन्ति ये च निन्थन्ति मानवाः सर्वान सुपरिणीतेन कर्मणा तॊषयाम्य अहम 38 ये जीवन्ति सवधर्मेण संभुञ्जन्ते च पार्दिवाः न किं चिथ उपजीवन्ति थक्षा उत्दान शीलिनः 39 शक्त्यान्न थानं सततं तितिक्षा धर्मनित्यता यदार्हं परतिपूजा च सर्वभूतेषु वै थया तयागान नान्यत्र मर्त्यानां गुणास तिष्ठन्ति पूरुषे 40 मृषावाथं परिहरेत कुर्यात परियम अयाचितः न च कामान न संरम्भान न थवेषाथ धर्मम उत्सृजेत 41 परिये नातिभृशं हृष्येथ अप्रिये न च संज्वरेत न मुह्येथ अर्दकृच्छ्रेषु न च धर्मं परित्यजेत 42 कर्म चेत किं चिथ अन्यत सयाथ इतरन न समाचरेत यत कल्याणम अभिध्यायेत तत्रात्मानं नियॊजयेत 43 न पापं परति पापः सयात साधुर एव सथा भवेत आत्मनैव हतः पापॊ यः पापं कर्तुम इच्छति 44 कर्म चैतथ असाधूनां वृजिनानाम असाधुवत न धर्मॊ ऽसतीति मन्वानाः शुचीन अवहसन्ति ये अश्रथ्थधाना धर्मस्य ते नश्यन्ति न संशयः 45 महाथृतिर इवाध्मातः पापॊ भवति नित्यथा मूढानाम अवलिप्तानाम असारं भाषितं भवेत थर्शयत्य अन्तरात्मानं थिवा रूपम इवांशुमान 46 न लॊके राजते मूर्खः केवलात्म परशंसया अपि चेह मृजा हीनः कृतविथ्यः परकाशते 47 अब्रुवन कस्य चिन निन्थाम आत्मपूजाम अवर्णयन न कश चिथ गुणसंपन्नः परकाशॊ भुवि थृश्यते 48 विकर्मणा तप्यमानः पापाथ विपरिमुच्यते नैतत कुर्यां पुनर इति थवितीयात परिमुच्यते 49 कर्मणा येन तेनेह पापाथ थविज वरॊत्तम एवं शरुतिर इयं बरह्मन धर्मेषु परिथृश्यते 50 पापान्य अबुथ्ध्वेह पुरा कृतानि; पराग धर्मशीलॊ विनिहन्ति पश्चात धर्मॊ बरह्मन नुथते पूरुषाणां; यत कुर्वते पापम इह परमाथात 51 पापं कृत्वा हि मन्येत नाहम अस्मीति पूरुषः चिकीर्षेथ एव कल्याणं शरथ्थधानॊ ऽनसूयकः 52 वसनस्येव छिथ्राणि साधूनां विवृणॊति यः पापं चेत पुरुषः कृत्वा कल्याणम अभिपथ्यते मुच्यते सर्वपापेभ्यॊ महाभ्रैर इव चन्थ्रमाः 53 यदाथित्यः समुथ्यन वै तमॊ सर्वं वयपॊहति एवं कल्याणम आतिष्ठन सर्वपापैः परमुच्यते 54 पापानां विथ्ध्य अधिष्ठानं लॊभम एव थविजॊत्तम लुब्धाः पापं वयवस्यन्ति नरा नातिबहु शरुताः अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः 55 तेषां थमः पवित्राणि परलापा धर्मसंश्रिताः सर्वं हि विथ्यते तेषु शिष्टाचारः सुथुर्लभः 56 [मार्क] स तु विप्रॊ महाप्राज्ञॊ धर्मव्याधम अपृच्छत शिष्टाचारं कदम अहं विथ्याम इति नरॊत्तम एतन महामते वयाध परब्रवीहि यदातदम 57 [वयाध] यज्ञॊ थानं तपॊ वेथाः सत्यं च थविजसत्तम पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यथा 58 कामक्रॊधौ वशे कृत्वा थम्भं लॊभम अनार्जवम धर्म इत्य एव संतुष्टास ते शिष्टाः शिष्टसंमताः 59 न तेषां विथ्यते ऽवृत्तं यज्ञस्वाध्यायशीलिनाम आचार पालनं चैव थवितीयं शिष्टलक्षणम 60 गुरुशुश्रूषणं सत्यम अक्रॊधॊ थानम एव च एतच चतुष्टयं बरह्मञ शिष्टाचारेषु नित्यथा 61 शिष्टाचारे मनॊ कृत्वा परतिष्ठाप्य च सर्वशः याम अयं लभते तुष्टिं सा न शक्या हय अतॊ ऽनयदा 62 वेथस्यॊपनिषत सत्यं सत्यस्यॊपनिषथ थमः थमस्यॊपनिषत तयागः शिष्टाचारेषु नित्यथा 63 ये तु धर्मम असूयन्ते बुथ्धिमॊहान्विता नराः अपदा गच्छतां तेषाम अनुयातापि पीड्यते 64 ये तु शिष्टाः सुनियताः शरुतित्यागपरायणाः धर्म्यं पन्दानम आरूढाः सत्यधर्मपरायणाः 65 नियच्छन्ति परां बुथ्धिं शिष्टाचारान्विता नराः उपाध्याय मते युक्ताः सदित्या धर्मार्दथर्शिनः 66 नास्तिकान भिन्नमर्याथान करूरान पापमतौ सदितान तयज ताञ जञानम आश्रित्य धार्मिकान उपसेव्य च 67 काललॊभ गरहाकीर्णां पञ्चेन्थ्रिय जलां नथीम नावं धृतिमयीं कृत्वा जन्म थुर्गाणि संतर 68 करमेण संचितॊ धर्मॊ बुथ्धियॊगमयॊ महान शिष्टाचारे भवेत साधू रागः शुक्लेव वाससि 69 अहिंसा सत्यवचनं सर्वभूतहितं परम अहिंसा परमॊ धर्मः स च सत्ये परतिष्ठितः सत्ये कृत्वा परतिष्ठां तु परवर्तन्ते परवृत्तयः 70 सत्यम एव गरीयस तु शिष्टाचार निषेवितम आचारश च सतां धर्मः सन्तश चाचार लक्षणः 71 यॊ यदा परकृतिर जन्तुः सवां सवां परकृतिम अश्नुते पापात्मा करॊधकामाथीन थॊषान आप्नॊत्य अनात्मवान 72 आरम्भॊ नयाययुक्तॊ यः स हि धर्म इति समृतः अनाचारस तव अधर्मेति एतच छिष्टानुशासनम 73 अक्रुध्यन्तॊ ऽनसूयन्तॊ निरहंकार मत्सराः ऋजवः शम संपन्नाः शिष्टाचारा भवन्ति ते 74 तरैविथ्य वृथ्धाः शुचयश वृत्तवन्तॊ मनस्विनः गुरुशुश्रूषवॊ थान्ताः शिष्टाचारा भवन्त्य उत 75 तेषाम अथीनसत्त्वानां थुष्कराचार कर्मणाम सवैः कर्मभिः सत्कृतानां घॊरत्वं संप्रणश्यति 76 तं सथ आचारम आश्चर्यं पुराणं शाश्वतं धरुवम धर्मं धर्मेण पश्यन्तः सवर्गं यान्ति मनीषिणः 77 आस्तिका मानहीनाश च थविजातिजनपूजकाः शरुतवृत्तॊपसंपन्नास ते सन्तः सवर्गगामिनः 78 वेथॊक्तः परमॊ धर्मॊ धर्मशास्त्रेषु चापरः शिष्टाचीर्णश च शिष्टानां तरिविधं धर्मलक्षणम 79 पारणं चापि विथ्यानां तीर्दानाम अवगाहनम कषमा सत्यार्जवं शौचं शिष्टाचार निथर्शनम 80 सर्वभूतथयावन्तॊ अहिंसा निरताः सथा परुषं न परभाषन्ते सथा सन्तॊ थविज परियाः 81 शुभानाम अशुभानां च कर्मणां फलसंचये विपाकम अभिजानन्ति ते शिष्टाः शिष्टसंमताः 82 नयायॊपेता गुणॊपेताः सर्वलॊकहितैषिणः सन्तः सवर्गजितः शुक्लाः संनिविष्टाश च सत्पदे 83 थातारः संविभक्तारॊ थीनानुग्रह कारिणः सर्वभूतथयावन्तस ते शिष्टाः शिष्टसंमताः 84 सर्वपूज्याः शरुतधनास तदैव च तपस्विनः थाननित्याः सुखाँल लॊकान आप्नुवन्तीह च शरियम 85 पीडया च कलत्रस्य भृत्यानां च समाहिताः अतिशक्त्या परयच्छन्ति सन्तः सथ्भिः समागताः 86 लॊकयात्रां च पश्यन्तॊ धर्मम आत्महितानि च एवं सन्तॊ वर्तमाना एधन्ते शाश्वतीः समाः 87 अहिंसा सत्यवचनम आनृशंस्यम अदार्जवम अथ्रॊहॊ नातिमानश च हरीस तितिक्षा थमः शमः 88 धीमन्तॊ धृतिमन्तश च भूतानाम अनुकम्पकाः अकाम थवेषसंयुक्तास ते सन्तॊ लॊकसत्कृताः 89 तरीण्य एव तु पथान्य आहुः सतां वृत्तम अनुत्तमम न थरुह्येच चैव थथ्याच च सत्यं चैव सथा वथेत 90 सर्वत्र च थयावन्तः सन्तः करुणवेथिनः गच्छन्तीह सुसंतुष्टा धर्म्यं पन्दानम उत्तमम शिष्टाचारा महात्मानॊ येषां धर्मः सुनिश्चितः 91 अनसूया कषमा शान्तिः संतॊषः परियवाथिता कामक्रॊधपरित्यागः शिष्टाचार निषेवणम 92 कर्मणा शरुतसंपन्नं सतां मार्गम अनुत्तमम शिष्टाचारं निषेवन्ते नित्यं धर्मेष्व अतन्थ्रिताः 93 परज्ञा परासाथम आरुह्य मुह्यतॊ महतॊ जनान परेक्षन्तॊ लॊकवृत्तानि विविधानि थविजॊत्तम अतिपुण्यानि पापानि तानि थविज वरॊत्तम 94 एतत ते सर्वम आख्यातं यदा परज्ञं यदा शरुतम शिष्टाचार गुणान बरह्मन पुरस्कृत्य थविजर्षभ |
1
[mārk] cintayitvā tad āścaryaṃ striyā proktam aśeṣataḥ vinindan sa dvijo ''tmānam āgaḥ kṛta ivābabhau 2 cintayānaḥ sa dharmasya sūkṣmāṃ gatim athābravīt śraddadhānena bhāvyaṃ vai gacchāmi mithilām aham 3 kṛtātmā dharmavit tasyāṃ vyādho nivasate kila taṃ gacchāmy aham adyaiva dharmaṃ praṣṭuṃ tapodhanam 4 iti saṃcintya manasā śraddadhānaḥ striyā vacaḥ balākā pratyayenāsau dharmyaiś ca vacanaiḥ śubhaiḥ saṃpratasthe sa mithilāṃ kautūhalasamanvitaḥ 5 atikrāmann araṇyāni grāmāṃś ca nagarāṇi ca tato jagāma mithilāṃ janakena surakṣitām 6 dharmasetu samākīrṇāṃ yajñotsava vatīṃ śubhām gopurāṭṭālakavatīṃ gṛhaprākāraśobhitām 7 praviśya sa purīṃ ramyāṃ vimānair bahubhir vṛtām paṇyaiś ca bahubhir yuktāṃ suvibhaktamahāpathām 8 aśvai rathais tathā nāgair yānaiś ca bahubhir vṛtām hṛṣṭapuṣṭa janākīrṇāṃ nityotsava samākulām 9 so 'paśyad bahu vṛttāntāṃ brāhmaṇaḥ samatikraman dharmavyādham apṛcchac ca sa cāsya kathito dvijaiḥ 10 apaśyat tatra gatvā taṃ sūnā madhye vyavasthitam mārgamāhiṣa māṃsāni vikrīṇantaṃ tapasvinam ākulatvāt tu kretṝṇām ekānte saṃsthito dvijaḥ 11 sa tu jñātvā dvijaṃ prāptaṃ sahasā saṃbhramotthitaḥ ājagāma yato vipraḥ sthita ekānta āsane 12 [vyādha] abhivādaye tvā bhagavan svāgataṃ te dvijottama ahaṃ vyādhas tu bhadraṃ te kiṃ karomi praśādhi mām 13 ekapatnyā yad ukto 'si gaccha tvaṃ mithilām iti jānāmy etad ahaṃ sarvaṃ yadarthaṃ tvam ihāgataḥ 14 [mārk] śrutvā tu tasya tad vākyaṃ sa vipro bhṛśaharṣitaḥ dvitīyam idam āścaryam ity acintayata dvijaḥ 15 adeśasthaṃ hi te sthānam iti vyādho 'bravīd dvijam gṛhaṃ gacchāva bhagavan yadi rocayase 'nagha 16 bāḍham ity eva saṃhṛṣṭo vipro vacanam abravīt agratas tu dvijaṃ kṛtvā sa jagāma grahān prati 17 praviśya ca gṛhaṃ ramyam āsanenābhipūjitaḥ pādyam ācamanīyaṃ ca pratigṛhya dvijottamaḥ 18 tataḥ sukhopaviṣṭas taṃ vyādhaṃ vacanam abravīt karmaitad vai na sadṛśaṃ bhavataḥ pratibhāti me anutapye bhṛśaṃ tāta tava ghoreṇa karmaṇā 19 [vyādha] kulocitam idaṃ karma pitṛpaitāmahaṃ mama vartamānasya me dharme sve manyuṃ mā kṛthā dvija 20 dhātrā tu vihitaṃ pūrvaṃ karma svaṃ pālayāmy aham prayatnāc ca gurū vṛddhau śuśrūṣe 'haṃ dvijottama 21 satyaṃ vade nābhyasūye yathāśakti dadāmi ca devatātithibhṛtyānām avaśiṣṭena vartaye 22 na kutsayāmy ahaṃ kiṃ cin na garhe balavattaram kṛtam anveti kartāraṃ purā karma dvijottama 23 kṛṣigorakṣya vāṇijyam iha lokasya jīvanam daṇḍanītis trayī vidyā tena lokā bhavanty uta 24 karma śūdre kṛṣir vaiśye saṃgrāmaḥ kṣatriye smṛtaḥ brahmacaryaṃ tapo mantrāḥ satyaṃ ca brāhmaṇe sadā 25 rājā praśāsti dharmeṇa svakarma niratāḥ prajāḥ vikarmāṇaś ca ye ke cit tān yunakti svakarmasu 26 bhetavyaṃ hi sadā rājñāṃ prajānām adhipā hi te mārayanti vikarmasthaṃ lubdhā mṛgam iveṣubhiḥ 27 janakasyeha viprarṣe vikarmastho na vidyate svakarma niratā varṇāś catvārāpi dvijottama 28 sa eṣa janako rājā durvṛttam api cet sutam daṇḍyaṃ daṇḍe nikṣipati tathā na glāti dhārmikam 29 suyuktacāro nṛpatiḥ sarvaṃ dharmeṇa paśyati śrīś ca rājyaṃ ca daṇḍaś ca kṣatriyāṇāṃ dvijottama 30 rājāno hi svadharmeṇa śriyam icchanti bhūyasīm sarveṣām eva varṇānāṃ trātā rājā bhavaty uta 31 pareṇa hi hatān brahman varāhamahiṣān aham na svayaṃ hanmi viprarṣe vikrīṇāmi sadā tv aham 32 na bhakṣayāmi māṃsāni ṛtugāmī tathā hy aham sadopavāsī ca tathā naktabhojī tathā dvija 33 aśīlaś cāpi puruṣo bhūtvā bhavati śīlavān prāṇi hiṃsā rataś cāpi bhavate dhārmikaḥ punaḥ 34 vyabhicārān narendrāṇāṃ dharmaḥ saṃkīryate mahān adharmo vardhate cāpi saṃkīryante tathā prajāḥ 35 uruṇḍā vāmanāḥ kubjāḥ sthūlaśīrṣās tathaiva ca klībāś cāndhāś ca jāyante badhirā lambacūcukāḥ pārthivānām adharmatvāt prajānām abhavaḥ sadā 36 sa eṣa rājā janakaḥ sarvaṃ dharmeṇa paśyati anugṛhṇan prajāḥ sarvāḥ svadharmaniratāḥ sadā 37 ye caiva māṃ praśaṃsanti ye ca nindanti mānavāḥ sarvān supariṇītena karmaṇā toṣayāmy aham 38 ye jīvanti svadharmeṇa saṃbhuñjante ca pārthivāḥ na kiṃ cid upajīvanti dakṣā utthāna śīlinaḥ 39 śaktyānna dānaṃ satataṃ titikṣā dharmanityatā yathārhaṃ pratipūjā ca sarvabhūteṣu vai dayā tyāgān nānyatra martyānāṃ guṇās tiṣṭhanti pūruṣe 40 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ na ca kāmān na saṃrambhān na dveṣād dharmam utsṛjet 41 priye nātibhṛśaṃ hṛṣyed apriye na ca saṃjvaret na muhyed arthakṛcchreṣu na ca dharmaṃ parityajet 42 karma cet kiṃ cid anyat syād itaran na samācaret yat kalyāṇam abhidhyāyet tatrātmānaṃ niyojayet 43 na pāpaṃ prati pāpaḥ syāt sādhur eva sadā bhavet ātmanaiva hataḥ pāpo yaḥ pāpaṃ kartum icchati 44 karma caitad asādhūnāṃ vṛjinānām asādhuvat na dharmo 'stīti manvānāḥ śucīn avahasanti ye aśraddadhānā dharmasya te naśyanti na saṃśayaḥ 45 mahādṛtir ivādhmātaḥ pāpo bhavati nityadā mūḍhānām avaliptānām asāraṃ bhāṣitaṃ bhavet darśayaty antarātmānaṃ divā rūpam ivāṃśumān 46 na loke rājate mūrkhaḥ kevalātma praśaṃsayā api ceha mṛjā hīnaḥ kṛtavidyaḥ prakāśate 47 abruvan kasya cin nindām ātmapūjām avarṇayan na kaś cid guṇasaṃpannaḥ prakāśo bhuvi dṛśyate 48 vikarmaṇā tapyamānaḥ pāpād viparimucyate naitat kuryāṃ punar iti dvitīyāt parimucyate 49 karmaṇā yena teneha pāpād dvija varottama evaṃ śrutir iyaṃ brahman dharmeṣu paridṛśyate 50 pāpāny abuddhveha purā kṛtāni; prāg dharmaśīlo vinihanti paścāt dharmo brahman nudate pūruṣāṇāṃ; yat kurvate pāpam iha pramādāt 51 pāpaṃ kṛtvā hi manyeta nāham asmīti pūruṣaḥ cikīrṣed eva kalyāṇaṃ śraddadhāno 'nasūyakaḥ 52 vasanasyeva chidrāṇi sādhūnāṃ vivṛṇoti yaḥ pāpaṃ cet puruṣaḥ kṛtvā kalyāṇam abhipadyate mucyate sarvapāpebhyo mahābhrair iva candramāḥ 53 yathādityaḥ samudyan vai tamo sarvaṃ vyapohati evaṃ kalyāṇam ātiṣṭhan sarvapāpaiḥ pramucyate 54 pāpānāṃ viddhy adhiṣṭhānaṃ lobham eva dvijottama lubdhāḥ pāpaṃ vyavasyanti narā nātibahu śrutāḥ adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ 55 teṣāṃ damaḥ pavitrāṇi pralāpā dharmasaṃśritāḥ sarvaṃ hi vidyate teṣu śiṣṭācāraḥ sudurlabhaḥ 56 [mārk] sa tu vipro mahāprājño dharmavyādham apṛcchata śiṣṭācāraṃ katham ahaṃ vidyām iti narottama etan mahāmate vyādha prabravīhi yathātatham 57 [vyādha] yajño dānaṃ tapo vedāḥ satyaṃ ca dvijasattama pañcaitāni pavitrāṇi śiṣṭācāreṣu nityadā 58 kāmakrodhau vaśe kṛtvā dambhaṃ lobham anārjavam dharma ity eva saṃtuṣṭās te śiṣṭāḥ śiṣṭasaṃmatāḥ 59 na teṣāṃ vidyate 'vṛttaṃ yajñasvādhyāyaśīlinām ācāra pālanaṃ caiva dvitīyaṃ śiṣṭalakṣaṇam 60 guruśuśrūṣaṇaṃ satyam akrodho dānam eva ca etac catuṣṭayaṃ brahmañ śiṣṭācāreṣu nityadā 61 śiṣṭācāre mano kṛtvā pratiṣṭhāpya ca sarvaśaḥ yām ayaṃ labhate tuṣṭiṃ sā na śakyā hy ato 'nyathā 62 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ damasyopaniṣat tyāgaḥ śiṣṭācāreṣu nityadā 63 ye tu dharmam asūyante buddhimohānvitā narāḥ apathā gacchatāṃ teṣām anuyātāpi pīḍyate 64 ye tu śiṣṭāḥ suniyatāḥ śrutityāgaparāyaṇāḥ dharmyaṃ panthānam ārūḍhāḥ satyadharmaparāyaṇāḥ 65 niyacchanti parāṃ buddhiṃ śiṣṭācārānvitā narāḥ upādhyāya mate yuktāḥ sthityā dharmārthadarśinaḥ 66 nāstikān bhinnamaryādān krūrān pāpamatau sthitān tyaja tāñ jñānam āśritya dhārmikān upasevya ca 67 kālalobha grahākīrṇāṃ pañcendriya jalāṃ nadīm nāvaṃ dhṛtimayīṃ kṛtvā janma durgāṇi saṃtara 68 krameṇa saṃcito dharmo buddhiyogamayo mahān śiṣṭācāre bhavet sādhū rāgaḥ śukleva vāsasi 69 ahiṃsā satyavacanaṃ sarvabhūtahitaṃ param ahiṃsā paramo dharmaḥ sa ca satye pratiṣṭhitaḥ satye kṛtvā pratiṣṭhāṃ tu pravartante pravṛttayaḥ 70 satyam eva garīyas tu śiṣṭācāra niṣevitam ācāraś ca satāṃ dharmaḥ santaś cācāra lakṣaṇaḥ 71 yo yathā prakṛtir jantuḥ svāṃ svāṃ prakṛtim aśnute pāpātmā krodhakāmādīn doṣān āpnoty anātmavān 72 ārambho nyāyayukto yaḥ sa hi dharma iti smṛtaḥ anācāras tv adharmeti etac chiṣṭānuśāsanam 73 akrudhyanto 'nasūyanto nirahaṃkāra matsarāḥ ṛjavaḥ śama saṃpannāḥ śiṣṭācārā bhavanti te 74 traividya vṛddhāḥ śucayaś vṛttavanto manasvinaḥ guruśuśrūṣavo dāntāḥ śiṣṭācārā bhavanty uta 75 teṣām adīnasattvānāṃ duṣkarācāra karmaṇām svaiḥ karmabhiḥ satkṛtānāṃ ghoratvaṃ saṃpraṇaśyati 76 taṃ sad ācāram āścaryaṃ purāṇaṃ śāśvataṃ dhruvam dharmaṃ dharmeṇa paśyantaḥ svargaṃ yānti manīṣiṇaḥ 77 āstikā mānahīnāś ca dvijātijanapūjakāḥ śrutavṛttopasaṃpannās te santaḥ svargagāminaḥ 78 vedoktaḥ paramo dharmo dharmaśāstreṣu cāparaḥ śiṣṭācīrṇaś ca śiṣṭānāṃ trividhaṃ dharmalakṣaṇam 79 pāraṇaṃ cāpi vidyānāṃ tīrthānām avagāhanam kṣamā satyārjavaṃ śaucaṃ śiṣṭācāra nidarśanam 80 sarvabhūtadayāvanto ahiṃsā niratāḥ sadā paruṣaṃ na prabhāṣante sadā santo dvija priyāḥ 81 śubhānām aśubhānāṃ ca karmaṇāṃ phalasaṃcaye vipākam abhijānanti te śiṣṭāḥ śiṣṭasaṃmatāḥ 82 nyāyopetā guṇopetāḥ sarvalokahitaiṣiṇaḥ santaḥ svargajitaḥ śuklāḥ saṃniviṣṭāś ca satpathe 83 dātāraḥ saṃvibhaktāro dīnānugraha kāriṇaḥ sarvabhūtadayāvantas te śiṣṭāḥ śiṣṭasaṃmatāḥ 84 sarvapūjyāḥ śrutadhanās tathaiva ca tapasvinaḥ dānanityāḥ sukhāṁl lokān āpnuvantīha ca śriyam 85 pīḍayā ca kalatrasya bhṛtyānāṃ ca samāhitāḥ atiśaktyā prayacchanti santaḥ sadbhiḥ samāgatāḥ 86 lokayātrāṃ ca paśyanto dharmam ātmahitāni ca evaṃ santo vartamānā edhante śāśvatīḥ samāḥ 87 ahiṃsā satyavacanam ānṛśaṃsyam athārjavam adroho nātimānaś ca hrīs titikṣā damaḥ śamaḥ 88 dhīmanto dhṛtimantaś ca bhūtānām anukampakāḥ akāma dveṣasaṃyuktās te santo lokasatkṛtāḥ 89 trīṇy eva tu padāny āhuḥ satāṃ vṛttam anuttamam na druhyec caiva dadyāc ca satyaṃ caiva sadā vadet 90 sarvatra ca dayāvantaḥ santaḥ karuṇavedinaḥ gacchantīha susaṃtuṣṭā dharmyaṃ panthānam uttamam śiṣṭācārā mahātmāno yeṣāṃ dharmaḥ suniścitaḥ 91 anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā kāmakrodhaparityāgaḥ śiṣṭācāra niṣevaṇam 92 karmaṇā śrutasaṃpannaṃ satāṃ mārgam anuttamam śiṣṭācāraṃ niṣevante nityaṃ dharmeṣv atandritāḥ 93 prajñā prāsādam āruhya muhyato mahato janān prekṣanto lokavṛttāni vividhāni dvijottama atipuṇyāni pāpāni tāni dvija varottama 94 etat te sarvam ākhyātaṃ yathā prajñaṃ yathā śrutam śiṣṭācāra guṇān brahman puraskṛtya dvijarṣabha |