1
[वै] शृणु मातृगणान राजन कुमारानुचरान इमान कीर्त्यमानान मया वीर सपत्नगणसूथनान 2 यशस्विनीनां मातॄणां शृणु नामानि भारत याभिर वयाप्तास तरयॊ लॊकाः कल्याणीभिश चराचराः 3 परभावती विशालाक्षी पलिता गॊनसी तदा शरीमती बहुला चैव तदैव बहुपुत्रिका 4 अप्सु जाता च गॊपाली बृहथ अम्बालिका तदा जयावती मालतिका धरुवरत्ना भयंकरी 5 वसु थामा सुथामा च विशॊका नन्थिनी तदा एकचूडा महाचूडा चक्रनेमिश च भारत 6 उत्तेजनी जयत्सेना कमलाक्ष्य अद शॊभना शत्रुंजया तदा चैव करॊधना शलभी खरी 7 माधवी शुभवक्त्रा च तीर्दनेमिश च भारत गीतप्रिया च कल्याणी कथ्रुला चामिताशना 8 मेघस्वना भॊगवती सुभ्रूश च कनकावती अलाताक्षी वीर्यवती विथ्युज्जिह्वा च भारत 9 पथ्मावती सुनक्षत्रा कन्थरा बहुयॊजना संतानिका च कौरव्य कमला च महाबला 10 सुथामा बहु थामा च सुप्रभा च यशस्विनी नृत्यप्रिया च राजेन्थ्र शतॊलूखल मेखला 11 शतघण्टा शतानन्था भग नन्था च भागिनी वपुष्मती चन्थ्र शीता भथ्र काली च भारत 12 संकारिका निष्कुटिका भरमा चत्वरवासिनी सुमङ्गला सवस्तिमती वृथ्धिकामा जय परिया 13 धनथा सुप्रसाथा च भवथा च जलेश्वरी एडी भेडी सुमेडी च वेताल जननी तदा कण्डूतिः कालिका चैव थेव मित्रा च भारत 14 लम्बसी केतकी चैव चित्रसेना तहा बला कुक्कुटिका शङ्खनिका तदा जर्जरिका नृप 15 कुण्डारिका कॊकलिका कण्डरा च शतॊथरी उत्क्रादिनी जरेणा च महावेगा च कङ्कणा 16 मनॊजवा कण्टकिनी परघसा पूतना तदा खशया चुर्व्युटिर वामा करॊशनाद तडित परभा 17 मण्डॊथरी च तुण्डा च कॊटरा मेघवासिनी सुभगा लम्बिनी लम्बा वसु चूडा विकत्दनी 18 ऊर्ध्ववेणी धरा चैव पिङ्गाक्षी लॊहमेखला पृदु वक्त्रा मधुरिका मधु कुम्भा तदैव च 19 पक्षालिका मन्दनिका जरायुर जर्जरानना खयाता थहथहा चैव तदा धमधमा नृप 20 खण्डखण्डा च राजेन्थ्र पूषणा मणिकुण्डला अमॊचा चैव कौरव्य तदा लम्बपयॊधरा 21 वेणुवीणा धरा चैव पिङ्गाक्षी लॊहमेखला शशॊलूक मुखी कृष्णा खरजङ्घा महाजवा 22 शिशुमार मुखी शवेता लॊहिताक्षी विभीषणा जटालिका कामचरी थीर्घजिह्वा बलॊत्कटा 23 कालेडिका वामनिका मुकुटा चैव भारत लॊहिताक्षी महाकाया हरि पिण्डी च भूमिप 24 एकाक्षरा सुकुसुमा कृष्ण कर्णी च भारत कषुर कर्णी चतुष्कर्णी कर्णप्रावरणा तदा 25 चतुष्पद निकेता च गॊकर्णी महिषानना खरकर्णी महाकर्णी भेरी सवनमहास्वना 26 शङ्खकुम्भ सवना चैव भङ्गथा च महाबला गणा च सुगणा चैव तदाभीत्य अद कामथा 27 चतुष्पद रता चैव भूरि तीर्दा अन्यगॊचरा पशुथा वित्तथा चैव सुखथा च महायशाः पयॊथा गॊमहिषथा सुविषाणा च भारत 28 परतिष्ठा सुप्रतिष्ठा च रॊचमाना सुरॊचना गॊकर्णी च सुकर्णीच ससिरा सदेरिका तदा एकचक्रा मेघरवा मेघमाला विरॊचना 29 एताश चान्याश च बहवॊ मातरॊ भरतर्षभ कार्त्तिकेयानुयायिन्यॊ नानारूपाः सहस्रशः 30 थीर्घनख्यॊ थीर्घथन्त्यॊ थीर्घतुण्ड्यश च भारत सरला मधुराश चैव यौवनस्दाः सवलंकृताः 31 माहात्म्येन च संयुक्ताः कामरूपधरास तदा निर्मांस गात्र्यः शवेताश च तदा काञ्चनसंनिभाः 32 कृष्णमेघनिभाश चान्या धूम्राश च भरतर्षभ अरुणाभा महाभागा थीर्घकेश्यः सिताम्बराः 33 ऊर्ध्ववेणी धराश चैव पिङ्गाक्ष्यॊ लम्बमेखलाः लम्बॊथर्यॊ लम्बकर्णास तदा लम्बपरॊ धराः 34 ताम्राक्ष्यस ताम्रवर्णाश च हर्यक्ष्यश च तदापरे वरथाः कामचारिण्यॊ नित्यप्रमुथितास तदा 35 याम्यॊ रौथ्र्यस तदा सौम्याः कौबेर्यॊ ऽद महाबलाः वारुण्यॊ ऽद च माहेन्थ्र्यस तदाग्नेय्यः परंतप 36 वायव्यश चाद कौमार्यॊ बराह्म्यश च भरतर्षबः रूपेणाप्सरसां तुल्या जवे वायुसमास तदा 37 परपुष्टॊपमा वाक्ये तदर्थ्ध्या धनथॊपमाः शक्र वीर्यॊपमाश चैव थीप्त्या वह्नि समास तदा 38 वृक्षचत्वरवासिन्यश चतुष्पद निकेतनाः गुहा शमशानवासिन्यः शैलप्रस्रवणालयाः 39 नानाभरणधारिण्यॊ नाना माल्याम्बरास तदा नाना विच्चित्र वेषाश च नाना भाषास तदैव च 40 एते चान्ये च बहवॊ गणाः शत्रुभयं कराः अनुजग्मुर महात्मानं तरिथशेन्थ्रस्य संमते 41 ततः शक्त्यस्त्रम अथथथ भगवान पाकशासनः गुहाय राजशार्थूल विनाशाय सुरथ्विषाम 42 महास्वनां महाघण्टां थयॊतमानां सितप्रभाम तरुणाथित्यवर्णां च पताकां भरतर्षभ 43 थथौ पशुपतिस तस्मै सर्वभूतमहाचमूम उग्रां नानाप्रहरणां तपॊ वीर्यबलान्विताम 44 विष्णुर थथौ वैजयन्तीं मालां बलविवर्धिनीम उमा थथौ चारजसी वाससी सूर्यसप्रभे 45 गङ्गां कमण्डलुं थिव्यम अमृतॊथ्भवम उत्तमम थथौ परीत्या कुमाराय थण्डं चैव बृहस्पतिः 46 गरुडॊ थयितं पुत्रं मयूरं चित्रबर्हिणम अरुणस ताम्रचूडं च परथथौ चरणायुधम 47 पशं तु वरुणॊ राजा बलवीर्यसमन्वितम कृष्णाजिनं तदा बरह्मा बरह्मण्याय थथौ परभुः समरेषु जयं चैव परथथौ लॊकभावनः 48 सेनापत्यम अनुप्राप्य सकान्थॊ थेवगणस्य ह शुशुभे जवलितॊ ऽरचिष्मान थवितीया इव पावकः ततः पारिषथैश चैव मातृभिश च समन्वितः 49 सा सेना नैरृती भीमा सघण्टॊच्छ्रितकेतना सभेरी शङ्खमुरजा सायुधा सपताकिनी शारथी थयौर इवाभाति जयॊतिर्भिर उपशॊभिता 50 ततॊ थेव निकायास ते भूतसेना गणास तदा वाथयाम आसुर अव्यग्रा भेरीशङ्खांश च पुष्कलान 51 पटहाञ झर्झरांश चैव कृकचान गॊविषाणिकान आडम्बरान गॊमुखांश चडिडिमांश च महास्वनान 52 तुष्टुवुस ते कुमारं च सर्वे थेवाः सवासवाः जगुश च थेवगन्धर्वा ननृतुश चाप्सरॊगणाः 53 ततः परीतॊ महासेनस तरिथशेभ्यॊ वरं थथौ रिपून हन्तास्मि समरे ये वॊ वधचिकीर्षवः 54 परतिगृह्य वरं थेवास तस्माथ विबुधसत्तमात परीतात्मानॊ महात्मानॊ मेनिरे निहतान रिपून 55 सर्वेषां भूतसांघानां हर्षान नाथः समुत्दितः अपूरयत लॊकांस तरीन वरे थत्ते महात्मना 56 स निर्ययौ महासेनॊ महत्या सेनया वृतः वधाय युधि थैत्यानां रक्षार्दं च थिवौकसाम 57 वयवसायॊ जयॊ धर्मः सिथ्धिर लक्ष्मीर धृतिः समृतिः महासेनस्य सैन्यानाम अग्रे जग्मुर नराधिप 58 स तया भीमया थेवः शूलमुथ्गर हस्तया गथामुसलनाराचशक्तितॊमर हस्तया थृप्तसिंहनिनाथिन्या विनथ्य परययौ गुहः 59 तं थृष्ट्वा सर्वथैतेया राक्षसा थानवास तदा वयथ्रवन्त थिशः सर्वा भयॊथ्विग्नाः समन्ततः अभ्यथ्रवन्त थेवास तान विविधायुधपाणयः 60 थृष्ट्वा च स ततः करुथ्धः सकन्थस तेजॊबलान्वितः शक्त्यस्त्रं भगवान भीमं पुनः पुनर अवासृजत आथधच चात्मनस तेजॊ हविषेथ्ध इवानलः 61 अभ्यस्यमाने शक्त्यस्त्रे सकन्थेनामित तेजसा उल्का जवाला महाराज पपात वसुधातले 62 संह्राथयन्तश च तदा निर्घाताश चापतन कषितौ यदान्त कालसमये सुघॊराः सयुस तदा नृप 63 कषिप्ता हय एका तदा शक्तिः सुघॊरानल सूनुना ततः कॊट्यॊ विनिष्पेतुः शक्तीनां भरतर्षभ 64 स शक्त्यस्त्रेण संग्रामे जघान भगवान परभुः थैत्येन्थ्रं तारकं नाम महाबलपराक्रमम वृतं थैत्यायुतैर वीरैर बलिभिर थशभिर नृप 65 महिषं चाष्टभिः पथ्मैर वृतं संख्ये निजघ्निवान तरिपाथं चायुत शतैर जघान थशभिर वृतम 66 हरथॊथरं निखर्वैश च वृतं थशभिर ईश्वरः जघानानुचरैः सार्धं विविधायुधपाणिभिः 67 तत्राकुर्वन्त विपुलं नाथ्थं वध्यत्सु शत्रुषु कुमारानुचरा राजन पूरयन्तॊ थिशॊ थश 68 शक्त्यस्त्रस्य तु राजेन्थ्र ततॊ ऽरचिर्भिः समन्ततः थग्धाः सहस्रशॊ थैत्या नाथैः सकन्थस्य चापरे 69 पताकयावधूताश च हताः के चित सुरथ्विषः केच्चीथ घण्टा रव तरस्ता निपेतुर वसुधातले के चित परहरणैश छिन्ना विनिपेतुर गतासवः 70 एवं सुरथ्विषॊ ऽनेकान बलवान आततायिनः जघान समरे वीरः कार्त्तिकेयॊ महाबलः 71 बाणॊ नामाद थैतेयॊ बलेः पुत्रॊ महाबलः करौञ्चं पर्वतम आसाथ्य थेवसंघान अबाधत 72 तम अभ्ययान महासेनः सुरशत्रुम उथारधीः स कार्त्तिकेयस्य भयात करौञ्चं शरणम एयिवान 73 ततः करौञ्चं महामन्युः करौञ्चनाथ निनाथितम शक्त्या बिभेथ भगवान कार्त्तिकेयॊ ऽगनिथत्तया 74 सशाल सकन्धसरलं तरस्तवानरवारणम पुलिनत्रस्त विहगं विनिष्पतित पन्नगम 75 गॊलाङ्गूरर्क्ष संघैश च थरवथ्भिर अनुनाथितम कुरङ्ग गतिनिर्घॊषम उथ्भ्रान्तसृमराचितम 76 विनिष्पतथ्भिः शरभैः सिंहैश च सहसा थरुतैः शॊच्याम अपि थशां पराप्तॊ रराजैव स पर्वतः 77 विथ्याधराः समुत्पेतुस तस्य शृङ्गनिवासिनः किंनराश च समुथ्विग्नाः शक्तिपात रवॊथ्धताः 78 ततॊ थैत्या विनिष्पेतुः शतशॊ ऽद सहस्रशः परथीप्तात पर्वतश्रेष्ठाथ विचित्राभरण सरजः 79 तान निजघ्नुर अतिक्रम्य कुमारानुचरा मृधे बिभेथ शक्त्या करौञ्चं च पावकिः परवीरहा 80 बहुधा चैकधा चैव कृत्वात्मानं महात्मना शक्तिः कषिप्ता रणे तस्य पाणिम एति पुनः पुनः 81 एवं परभावॊ भगवान अतॊ भूयश च पावकिः करौञ्चस तेन विनिर्भिन्नॊ थैत्याश च शतशॊ हताः 82 ततः स भगवान थेवॊ निहत्य विबुधथ्विषः सभाज्यमानॊ विबुधैः परं हर्षम अवाप ह 83 ततॊ थुन्थुभयॊ राजन नेथुः शङ्खाश च भारत मुमुचुर थेव यॊषाश च पुष्पवर्षम अनुत्तमम 84 थिव्यगन्धम उपाथाय ववौ पुण्यश च मारुतः गन्धर्वास तुष्टुवुश चैनं यज्वानश च महर्षयः 85 के चिथ एनं वयवस्यन्ति पितामहसुतं परभुम सनत्कुमारं सर्वेषां बरह्मयॊनिं तम अग्रजम 86 के चिन महेश्वर सुतं के चित पुत्रं विभावसॊः उमायाः कृत्तिकानां च गङ्गायाश च वथन्त्य उत 87 एकधा च थविधा चैव चतुर्धा च महाबलम यॊगिनाम ईश्वरं थेवं शतशॊ ऽद सहस्रशः 88 एतत ते कदितं राजन कार्त्तिकेयाभिषेचनम शृणु चैव सरस्वत्यास तीर्दवंशस्य पुण्यताम 89 बभूव तीर्दप्रवरं हतेषु सुरशत्रुषु कुमारेण महाराज तरिविष्टपम इवापरम 90 ऐश्वर्याणि च तत्रस्दॊ थथाव ईशः पृदक पृदक तथा नैरृतमुख्येभ्यस तरैलॊक्ये पावकात्मजः 91 एवं स भगवांस तस्मिंस तीर्दे थैत्य कुलान्तकः अभिषिक्तॊ महाराज थेव सेनापतिः सुरैः 92 औजसं नाम तत तीर्दं यत्र पूर्वम अपां पतिः अभिषिक्तः सुरगणैर वरुणॊ भरतर्षभ 93 तस्मिंस तीर्दवरे सनात्वा सकन्थं चाभ्यर्च्य लाङ्गली बराह्मणेभ्यॊ थथौ रुक्मं वासांस्य आभरणानि च 94 उषित्वा रजनीं तत्र माधवः परवीरहा पूज्य तीर्दवरं तच च सपृष्ट्वा तॊयं च लाङ्गली हृष्टः परीतमनाश चैव हय अभवन माधवॊत्तमः 95 एतत ते सर्वम आख्यातं यन मां तवं परिपृच्छसि यदाभिषिक्तॊ भगवान सकन्थॊ थेवैः समागतैः |
1
[vai] śṛṇu mātṛgaṇān rājan kumārānucarān imān kīrtyamānān mayā vīra sapatnagaṇasūdanān 2 yaśasvinīnāṃ mātṝṇāṃ śṛṇu nāmāni bhārata yābhir vyāptās trayo lokāḥ kalyāṇībhiś carācarāḥ 3 prabhāvatī viśālākṣī palitā gonasī tathā śrīmatī bahulā caiva tathaiva bahuputrikā 4 apsu jātā ca gopālī bṛhad ambālikā tathā jayāvatī mālatikā dhruvaratnā bhayaṃkarī 5 vasu dāmā sudāmā ca viśokā nandinī tathā ekacūḍā mahācūḍā cakranemiś ca bhārata 6 uttejanī jayatsenā kamalākṣy atha śobhanā śatruṃjayā tathā caiva krodhanā śalabhī kharī 7 mādhavī śubhavaktrā ca tīrthanemiś ca bhārata gītapriyā ca kalyāṇī kadrulā cāmitāśanā 8 meghasvanā bhogavatī subhrūś ca kanakāvatī alātākṣī vīryavatī vidyujjihvā ca bhārata 9 padmāvatī sunakṣatrā kandarā bahuyojanā saṃtānikā ca kauravya kamalā ca mahābalā 10 sudāmā bahu dāmā ca suprabhā ca yaśasvinī nṛtyapriyā ca rājendra śatolūkhala mekhalā 11 śataghaṇṭā śatānandā bhaga nandā ca bhāginī vapuṣmatī candra śītā bhadra kālī ca bhārata 12 saṃkārikā niṣkuṭikā bhramā catvaravāsinī sumaṅgalā svastimatī vṛddhikāmā jaya priyā 13 dhanadā suprasādā ca bhavadā ca jaleśvarī eḍī bheḍī sumeḍī ca vetāla jananī tathā kaṇḍūtiḥ kālikā caiva deva mitrā ca bhārata 14 lambasī ketakī caiva citrasenā tahā balā kukkuṭikā śaṅkhanikā tathā jarjarikā nṛpa 15 kuṇḍārikā kokalikā kaṇḍarā ca śatodarī utkrāthinī jareṇā ca mahāvegā ca kaṅkaṇā 16 manojavā kaṇṭakinī praghasā pūtanā tathā khaśayā curvyuṭir vāmā krośanātha taḍit prabhā 17 maṇḍodarī ca tuṇḍā ca koṭarā meghavāsinī subhagā lambinī lambā vasu cūḍā vikatthanī 18 ūrdhvaveṇī dharā caiva piṅgākṣī lohamekhalā pṛthu vaktrā madhurikā madhu kumbhā tathaiva ca 19 pakṣālikā manthanikā jarāyur jarjarānanā khyātā dahadahā caiva tathā dhamadhamā nṛpa 20 khaṇḍakhaṇḍā ca rājendra pūṣaṇā maṇikuṇḍalā amocā caiva kauravya tathā lambapayodharā 21 veṇuvīṇā dharā caiva piṅgākṣī lohamekhalā śaśolūka mukhī kṛṣṇā kharajaṅghā mahājavā 22 śiśumāra mukhī śvetā lohitākṣī vibhīṣaṇā jaṭālikā kāmacarī dīrghajihvā balotkaṭā 23 kāleḍikā vāmanikā mukuṭā caiva bhārata lohitākṣī mahākāyā hari piṇḍī ca bhūmipa 24 ekākṣarā sukusumā kṛṣṇa karṇī ca bhārata kṣura karṇī catuṣkarṇī karṇaprāvaraṇā tathā 25 catuṣpatha niketā ca gokarṇī mahiṣānanā kharakarṇī mahākarṇī bherī svanamahāsvanā 26 śaṅkhakumbha svanā caiva bhaṅgadā ca mahābalā gaṇā ca sugaṇā caiva tathābhīty atha kāmadā 27 catuṣpatha ratā caiva bhūri tīrthā anyagocarā paśudā vittadā caiva sukhadā ca mahāyaśāḥ payodā gomahiṣadā suviṣāṇā ca bhārata 28 pratiṣṭhā supratiṣṭhā ca rocamānā surocanā gokarṇī ca sukarṇīca sasirā stherikā tathā ekacakrā megharavā meghamālā virocanā 29 etāś cānyāś ca bahavo mātaro bharatarṣabha kārttikeyānuyāyinyo nānārūpāḥ sahasraśaḥ 30 dīrghanakhyo dīrghadantyo dīrghatuṇḍyaś ca bhārata saralā madhurāś caiva yauvanasthāḥ svalaṃkṛtāḥ 31 māhātmyena ca saṃyuktāḥ kāmarūpadharās tathā nirmāṃsa gātryaḥ śvetāś ca tathā kāñcanasaṃnibhāḥ 32 kṛṣṇameghanibhāś cānyā dhūmrāś ca bharatarṣabha aruṇābhā mahābhāgā dīrghakeśyaḥ sitāmbarāḥ 33 ūrdhvaveṇī dharāś caiva piṅgākṣyo lambamekhalāḥ lambodaryo lambakarṇās tathā lambaparo dharāḥ 34 tāmrākṣyas tāmravarṇāś ca haryakṣyaś ca tathāpare varadāḥ kāmacāriṇyo nityapramuditās tathā 35 yāmyo raudryas tathā saumyāḥ kauberyo 'tha mahābalāḥ vāruṇyo 'tha ca māhendryas tathāgneyyaḥ paraṃtapa 36 vāyavyaś cātha kaumāryo brāhmyaś ca bharatarṣabaḥ rūpeṇāpsarasāṃ tulyā jave vāyusamās tathā 37 parapuṣṭopamā vākye tatharddhyā dhanadopamāḥ śakra vīryopamāś caiva dīptyā vahni samās tathā 38 vṛkṣacatvaravāsinyaś catuṣpatha niketanāḥ guhā śmaśānavāsinyaḥ śailaprasravaṇālayāḥ 39 nānābharaṇadhāriṇyo nānā mālyāmbarās tathā nānā viccitra veṣāś ca nānā bhāṣās tathaiva ca 40 ete cānye ca bahavo gaṇāḥ śatrubhayaṃ karāḥ anujagmur mahātmānaṃ tridaśendrasya saṃmate 41 tataḥ śaktyastram adadad bhagavān pākaśāsanaḥ guhāya rājaśārdūla vināśāya suradviṣām 42 mahāsvanāṃ mahāghaṇṭāṃ dyotamānāṃ sitaprabhām taruṇādityavarṇāṃ ca patākāṃ bharatarṣabha 43 dadau paśupatis tasmai sarvabhūtamahācamūm ugrāṃ nānāpraharaṇāṃ tapo vīryabalānvitām 44 viṣṇur dadau vaijayantīṃ mālāṃ balavivardhinīm umā dadau cārajasī vāsasī sūryasaprabhe 45 gaṅgāṃ kamaṇḍaluṃ divyam amṛtodbhavam uttamam dadau prītyā kumārāya daṇḍaṃ caiva bṛhaspatiḥ 46 garuḍo dayitaṃ putraṃ mayūraṃ citrabarhiṇam aruṇas tāmracūḍaṃ ca pradadau caraṇāyudham 47 paśaṃ tu varuṇo rājā balavīryasamanvitam kṛṣṇājinaṃ tathā brahmā brahmaṇyāya dadau prabhuḥ samareṣu jayaṃ caiva pradadau lokabhāvanaḥ 48 senāpatyam anuprāpya skāndo devagaṇasya ha śuśubhe jvalito 'rciṣmān dvitīyā iva pāvakaḥ tataḥ pāriṣadaiś caiva mātṛbhiś ca samanvitaḥ 49 sā senā nairṛtī bhīmā saghaṇṭocchritaketanā sabherī śaṅkhamurajā sāyudhā sapatākinī śāradī dyaur ivābhāti jyotirbhir upaśobhitā 50 tato deva nikāyās te bhūtasenā gaṇās tathā vādayām āsur avyagrā bherīśaṅkhāṃś ca puṣkalān 51 paṭahāñ jharjharāṃś caiva kṛkacān goviṣāṇikān āḍambarān gomukhāṃś caḍiḍimāṃś ca mahāsvanān 52 tuṣṭuvus te kumāraṃ ca sarve devāḥ savāsavāḥ jaguś ca devagandharvā nanṛtuś cāpsarogaṇāḥ 53 tataḥ prīto mahāsenas tridaśebhyo varaṃ dadau ripūn hantāsmi samare ye vo vadhacikīrṣavaḥ 54 pratigṛhya varaṃ devās tasmād vibudhasattamāt prītātmāno mahātmāno menire nihatān ripūn 55 sarveṣāṃ bhūtasāṃghānāṃ harṣān nādaḥ samutthitaḥ apūrayata lokāṃs trīn vare datte mahātmanā 56 sa niryayau mahāseno mahatyā senayā vṛtaḥ vadhāya yudhi daityānāṃ rakṣārthaṃ ca divaukasām 57 vyavasāyo jayo dharmaḥ siddhir lakṣmīr dhṛtiḥ smṛtiḥ mahāsenasya sainyānām agre jagmur narādhipa 58 sa tayā bhīmayā devaḥ śūlamudgara hastayā gadāmusalanārācaśaktitomara hastayā dṛptasiṃhaninādinyā vinadya prayayau guhaḥ 59 taṃ dṛṣṭvā sarvadaiteyā rākṣasā dānavās tathā vyadravanta diśaḥ sarvā bhayodvignāḥ samantataḥ abhyadravanta devās tān vividhāyudhapāṇayaḥ 60 dṛṣṭvā ca sa tataḥ kruddhaḥ skandas tejobalānvitaḥ śaktyastraṃ bhagavān bhīmaṃ punaḥ punar avāsṛjat ādadhac cātmanas tejo haviṣeddha ivānalaḥ 61 abhyasyamāne śaktyastre skandenāmita tejasā ulkā jvālā mahārāja papāta vasudhātale 62 saṃhrādayantaś ca tathā nirghātāś cāpatan kṣitau yathānta kālasamaye sughorāḥ syus tathā nṛpa 63 kṣiptā hy ekā tathā śaktiḥ sughorānala sūnunā tataḥ koṭyo viniṣpetuḥ śaktīnāṃ bharatarṣabha 64 sa śaktyastreṇa saṃgrāme jaghāna bhagavān prabhuḥ daityendraṃ tārakaṃ nāma mahābalaparākramam vṛtaṃ daityāyutair vīrair balibhir daśabhir nṛpa 65 mahiṣaṃ cāṣṭabhiḥ padmair vṛtaṃ saṃkhye nijaghnivān tripādaṃ cāyuta śatair jaghāna daśabhir vṛtam 66 hradodaraṃ nikharvaiś ca vṛtaṃ daśabhir īśvaraḥ jaghānānucaraiḥ sārdhaṃ vividhāyudhapāṇibhiḥ 67 tatrākurvanta vipulaṃ nāddaṃ vadhyatsu śatruṣu kumārānucarā rājan pūrayanto diśo daśa 68 śaktyastrasya tu rājendra tato 'rcirbhiḥ samantataḥ dagdhāḥ sahasraśo daityā nādaiḥ skandasya cāpare 69 patākayāvadhūtāś ca hatāḥ ke cit suradviṣaḥ keccīd ghaṇṭā rava trastā nipetur vasudhātale ke cit praharaṇaiś chinnā vinipetur gatāsavaḥ 70 evaṃ suradviṣo 'nekān balavān ātatāyinaḥ jaghāna samare vīraḥ kārttikeyo mahābalaḥ 71 bāṇo nāmātha daiteyo baleḥ putro mahābalaḥ krauñcaṃ parvatam āsādya devasaṃghān abādhata 72 tam abhyayān mahāsenaḥ suraśatrum udāradhīḥ sa kārttikeyasya bhayāt krauñcaṃ śaraṇam eyivān 73 tataḥ krauñcaṃ mahāmanyuḥ krauñcanāda nināditam śaktyā bibheda bhagavān kārttikeyo 'gnidattayā 74 saśāla skandhasaralaṃ trastavānaravāraṇam pulinatrasta vihagaṃ viniṣpatita pannagam 75 golāṅgūrarkṣa saṃghaiś ca dravadbhir anunāditam kuraṅga gatinirghoṣam udbhrāntasṛmarācitam 76 viniṣpatadbhiḥ śarabhaiḥ siṃhaiś ca sahasā drutaiḥ śocyām api daśāṃ prāpto rarājaiva sa parvataḥ 77 vidyādharāḥ samutpetus tasya śṛṅganivāsinaḥ kiṃnarāś ca samudvignāḥ śaktipāta ravoddhatāḥ 78 tato daityā viniṣpetuḥ śataśo 'tha sahasraśaḥ pradīptāt parvataśreṣṭhād vicitrābharaṇa srajaḥ 79 tān nijaghnur atikramya kumārānucarā mṛdhe bibheda śaktyā krauñcaṃ ca pāvakiḥ paravīrahā 80 bahudhā caikadhā caiva kṛtvātmānaṃ mahātmanā śaktiḥ kṣiptā raṇe tasya pāṇim eti punaḥ punaḥ 81 evaṃ prabhāvo bhagavān ato bhūyaś ca pāvakiḥ krauñcas tena vinirbhinno daityāś ca śataśo hatāḥ 82 tataḥ sa bhagavān devo nihatya vibudhadviṣaḥ sabhājyamāno vibudhaiḥ paraṃ harṣam avāpa ha 83 tato dundubhayo rājan neduḥ śaṅkhāś ca bhārata mumucur deva yoṣāś ca puṣpavarṣam anuttamam 84 divyagandham upādāya vavau puṇyaś ca mārutaḥ gandharvās tuṣṭuvuś cainaṃ yajvānaś ca maharṣayaḥ 85 ke cid enaṃ vyavasyanti pitāmahasutaṃ prabhum sanatkumāraṃ sarveṣāṃ brahmayoniṃ tam agrajam 86 ke cin maheśvara sutaṃ ke cit putraṃ vibhāvasoḥ umāyāḥ kṛttikānāṃ ca gaṅgāyāś ca vadanty uta 87 ekadhā ca dvidhā caiva caturdhā ca mahābalam yoginām īśvaraṃ devaṃ śataśo 'tha sahasraśaḥ 88 etat te kathitaṃ rājan kārttikeyābhiṣecanam śṛṇu caiva sarasvatyās tīrthavaṃśasya puṇyatām 89 babhūva tīrthapravaraṃ hateṣu suraśatruṣu kumāreṇa mahārāja triviṣṭapam ivāparam 90 aiśvaryāṇi ca tatrastho dadāv īśaḥ pṛthak pṛthak tadā nairṛtamukhyebhyas trailokye pāvakātmajaḥ 91 evaṃ sa bhagavāṃs tasmiṃs tīrthe daitya kulāntakaḥ abhiṣikto mahārāja deva senāpatiḥ suraiḥ 92 aujasaṃ nāma tat tīrthaṃ yatra pūrvam apāṃ patiḥ abhiṣiktaḥ suragaṇair varuṇo bharatarṣabha 93 tasmiṃs tīrthavare snātvā skandaṃ cābhyarcya lāṅgalī brāhmaṇebhyo dadau rukmaṃ vāsāṃsy ābharaṇāni ca 94 uṣitvā rajanīṃ tatra mādhavaḥ paravīrahā pūjya tīrthavaraṃ tac ca spṛṣṭvā toyaṃ ca lāṅgalī hṛṣṭaḥ prītamanāś caiva hy abhavan mādhavottamaḥ 95 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi yathābhiṣikto bhagavān skando devaiḥ samāgataiḥ |