1
[स] ततः पुनर अमेयात्मा केशवॊ ऽरजुनम अब्रवीत कृतसंकल्पम आयस्तं वधे कर्णस्य सर्वशः 2 अथ्य सप्त थशाहानि वर्तमानस्य भारत विनाशस्यातिघॊरस्य नरवारणवाजिनाम 3 भूत्वा हि विपुला सेना तावकानां परैः सह अन्यॊन्यं समरे पराप्य किं चिच छेषा विशां पते 4 भूत्वा हि कौरव्याः पार्द परभूतगजवाजिनः तवां वै शत्रुं समासाथ्य विनष्टा रणमूर्धनि 5 एते च सर्वे पाञ्चालाः सृञ्जयाश च सहान्वयाः तवां समासाथ्य थुर्धर्षं पाण्डवाश च वयवस्दिताः 6 पाञ्चालैः पाण्डवैर मत्स्यैः कारूषैश चेथिकेकयैः तवया गुप्तैर अमित्रघ्न कृतः शत्रुगणक्षयः 7 कॊ हि शक्तॊ रणे जेतुं कौरवांस तात संगतान अन्यत्र पाण्डवान युथ्धे तवया गुप्तान महारदान 8 तवं हि शक्तॊ रणे जेतुं स सुरासुरमानुषान तरीँल लॊकान समम उथ्युक्तान किं पुनः कौरवं बलम 9 भगथत्तं हि राजानं कॊ ऽनयः शक्तस तवया विना जेतुं पुरुषशार्थूल यॊ ऽपि सयाथ वासवॊपमः 10 तदेमां विपुलां सेनां गुप्तां पार्द तवयानघ न शेकुः पार्दिवाः सर्वे चक्षुर्भिर अभिवीक्षितुम 11 तदैव सततं पार्द रक्षिताभ्यां तवया रणे धृष्टथ्युम्न शिखण्डिभ्यां भीष्मथ्रॊणौ निपातितौ 12 कॊ हि शक्तॊ रणे पार्द पाञ्चालानां महारदौ भीष्मथ्रॊणौ युधा जेतुं शक्रतुल्यपराक्रमौ 13 कॊ हि शांतनवं संख्ये थरॊणं वैकर्तनं कृपम थरौणिं च सौमथत्तिं च कृतवर्माणम एव च सौन्धवं मथ्रराजं च राजानं च सुयॊधनम 14 वीरान कृतास्त्रान समरे सर्वान एवानुवर्तिनः अक्षौहिणीपतीन उग्रान संरब्धान युथ्धथुर्मथान 15 शरेण्यश च बहुलाः कषीणाः परथीर्णाश्वरदथ्विपाः नानाजनपथाश चॊग्राः कषत्रियाणाम अमर्षिणाम 16 गॊवास थासम ईयानां वसातीनां च भारत वरात्यानां वाटधानानां भॊजानां चापि मानिनाम 17 उथीर्णाश च महासेना बरह्मक्षत्रस्य भारत तवां समासाथ्य निधनं गताः साश्वरदथ्विपाः 18 उग्राश च करूरकर्माणस तुखारा यवनाः खशाः थार्वाभिसारा थरथाः शका रमठ तङ्गणाः 19 अन्ध्रकाश च पुलिन्थाश च किराताश चॊग्रविक्रमाः मलेच्छाश च पार्वतीयाश च सागरानूपवासिनः संरम्भिणॊ युथ्धशौण्डा बलिनॊ थृब्ध पाणयः 20 एते सुयॊधनस्यार्दे संरब्धाः कुरुभिः सह न शक्या युधि निर्जेतुं तवथन्येन परंतप 21 धार्तराष्ट्रम उथग्रं हि वयूढं थृष्ट्वा महाबलम यस्य तवं न भवेस तराता परतीयात कॊ नु मानवः 22 तत सागरम इवॊथ्धूतं रजसा संवृतं बलम विथार्य पाण्डवैः करुथ्धैस तवया गुप्तैर हतं विभॊ 23 मागधानाम अधिपतिर जयत्सेनॊ महाबलः अथ्य सप्तैव चाहानि हतः संख्ये ऽभिमन्युना 24 तथॊ थशसहस्राणि गजानां भीमकर्मणाम जघान गथया भीमस तस्य राज्ञः परिच्छथम ततॊ ऽनये ऽपि हता नागा रदाश च शतशॊ बलात 25 तथ एवं समरे तात वर्तमाने महाभये भीमसेनं समासाथ्य तवां च पाण्डव कौरवाः सवाजिरदनागाश च मृत्युलॊकम इतॊ गताः 26 तदा सेनामुखे तत्र निहते पार्द पाडवैः भीष्मः परासृजथ उग्राणि शरवर्षाणि मारिष 27 स चेथिकाशिपाञ्चालान करूषान मत्स्यकेकयान शरैः परच्छाथ्य निधनम अनयत परुषास्त्रवित 28 तस्य चापच्युतैर बाणैः परथेहविथारणैः पूर्णम आकाशम अभवथ रुक्मपुङ्खरजिह्मगैः 29 गत्या थशम्या ते गत्वा जघ्नुर वाजिरदथ्विपान हित्वा नव गतीर थुष्टाः स बाणान वयायतॊ ऽमुचत 30 थिनानि थश भीष्मेण निघ्नता तावकं बलम शून्याः कृता रदॊपस्दा हताश च गजवाजिनः 31 थर्शयित्वात्मनॊ रूपं रुथ्रॊपेन्थ्र समं युधि पाण्डवानाम अनीकानि परविगाह्य वयशातयत 32 विनिघ्नन पृदिवीपालांश चेथिपाञ्चालकेकयान वयथहत पाण्डवीं मन्थम उज्जिहीर्षुः सुयॊधनम 33 तदा चरन्तं समरे तपन्तम इव भास्करम न शेकुः सृञ्जया थरष्टुं तदैवान्ये महीक्षितः 34 विचरन्तं तदा तं तु संग्रामे जितकाशिनम सवाथ यॊगेन सहसा पाण्डवा समुपाथ्रवन 35 स तु विथ्राव्य समरे पाण्डवान सृञ्जयान अपि एक एव रणे भीष्म एक वीरत्वम आगतः 36 तं शिखण्डी समासाथ्य तवया गुप्तॊ महारदम जघान पुरुषव्याघ्रं शरैः संनतपर्वभिः 37 स एष पतितः शेते शरतल्पे पितामहः तवां पराप्य पुरुषव्याघ्र गृध्रः पराप्येव वायसम 38 थरॊणः पञ्च थिनान्य उग्रॊ विधम्य रिपुवाहिनीः कृत्वा वयूहं महायुथ्धे पातयित्वा महारदान 39 जयथ्रदस्य समरे कृत्वा रक्षां महारदः अन्तकप्रतिमश चॊग्रां रात्रिं युथ्ध्वाथहत परजाः 40 अथ्येति थवे थिने वीरॊ भारथ्वाजः परतापवान धृष्टथ्युम्नं समासाथ्य स गतः परमां गतिम 41 यथि चैव परान्य युथ्धे सूतपुत्र मुखान रदान नावारयिष्यः संग्रामे न सम थरॊणॊ वयनङ्क्ष्यत 42 भवता तु बलं सर्वं धार्तराष्ट्रस्य वारितम ततॊ थरॊणॊ हतॊ युथ्धे पार्षतेन धनंजय 43 क इवान्यॊ रणे कुर्यात तवथन्यः कषत्रियॊ युधि याथृशं ते कृतं पार्द जयथ्रदवधं परति 44 निवार्य सेनां महतीं हत्वा शूरांश च पार्दिवान निहतः सैन्धवॊ राजा तवयास्त्र बलतेजसा 45 आश्चर्यं सिन्धुराजस्य वधं जानन्ति पार्दिवाः अनाश्चर्यं हि तत तवत्तस तवं हि पार्द महारदः 46 तवां हि पराप्य रणे कषत्रम एकाहाथ इति भारत तप्यमानम असंयुक्तं न भवेथ इति मे मतिः 47 सेयं पार्द चमूर घॊरा धार्तराष्ट्रस्य संयुगे हता ससर्व वीरा हि भीष्मथ्रॊणौ यथा हतौ 48 शीर्णप्रवर यॊधा अथ्य हतवाजि नरथ्विपा हीना सूर्येन्थु नक्षत्रैर थयौर इवाभाति भारती 49 विध्वस्ता हि रणे पार्द सेनेयं भीमविक्रमात आसुरीव पुरा सेना शक्रस्येव पराक्रमैः 50 तेषां हतावशिष्टास तु पञ्च सन्ति महारदाः अश्वत्दामा कृतवर्मा कर्णॊ मथ्राधिपः कृपः 51 तांस तवम अथ्य नरव्याघ्र हत्वा पञ्च महारदान हतामित्रः परयच्छॊर्वीं राज्ञः सथ्वीप पत्तनाम 52 साकाश जलपातालां सपर्वतमहावनाम पराप्नॊत्व अमितवीर्यश्रीर अथ्य पार्दॊ वसुंधराम 53 एतां पुरा विष्णुर इव हत्वा थैतेय थानवान परयच्छ मेथिनीं राज्ञे शक्रायेव यदा हरिः 54 अथ्य मॊथन्तु पाञ्चाला निहतेष्व अरिषु तवया विष्णुना निहतेष्व एव थानवेयेषु थेवताः 55 यथि वा थविपथां शरेष्ठ थरॊणं मानयतॊ गुरुम अश्वत्दाम्नि कृपा ते ऽसति कृपे चाचार्य गौरवात 56 अत्यन्तॊपचितान वा तवं मानयन भरातृबान्धवान कृतवर्माणम आसाथ्य न नेष्यामि यमक्षयम 57 भरातरं मातुर आसाथ्य शल्यं मथ्रजनाधिपम यथि तवम अरविन्थाक्ष थयावान न जिघांससि 58 इमं पापमतिं कषुथ्रम अत्यन्तं पाण्डवान परति कर्णम अथ्य नरश्रेष्ठ जह्य आशु निशितैः शरैः 59 एतत ते सुकृतं कर्म नात्र किं चिन न युज्यते वयम अप्य अत्र जानीमॊ नात्र थॊषॊ ऽसति कश चन 60 थहने यत सपुत्राया निशि मातुस तवानघ थयूतार्दे यच च युष्मासु परावर्तत सुयॊधनः तत्र सर्वत्र थुष्टात्मा कर्णॊ मूलम इहार्जुन 61 कर्णाथ धि मन्यते तराणं नित्यम एव सुयॊधनः ततॊ माम अपि संरब्धॊ निग्रहीतुं परचक्रमे 62 सदिरा बुथ्धिर नरेन्थ्रस्य धार्तराष्ट्रस्य मानथ कर्णः पार्दान रणे सर्वान विजेष्यति न संशयः 63 कर्णम आश्रित्य कौन्तेय धार्तराष्ट्रेण विग्रहः रॊचितॊ भवता सार्धं जानतापि बलं तव 64 कर्णॊ हि भाषते नित्यम अहं पार्दान समागतान वासुथेवं सराजानं विजेष्यामि महारणे 65 परॊत्साहयन थुरात्मानं धार्तराष्ट्रं सुथुर्मतिः समतौ गर्जते कर्णस तम अथ्य जहि भारत 66 यच च युष्मासु पापं वै धार्तराष्ट्रः परयुक्तवान तत्र सर्वत्र थुष्टात्मा कर्णः पापमतिर मुखम 67 यच च तथ धार्तराष्ट्राणां करूरैः षड्भिर महारदैः अपश्यं निहतं वीरं सौभथ्रम ऋषभेक्षणम 68 थरॊण थरौणिकृपान वीरान कम्पयन्तॊ महारदान निर्मनुष्यांश च मातङ्गान्विरदांश च महारदान 69 वयश्वारॊहांश च तुरगान पत्तीन वयायुध जीवितान कुर्वन्तम ऋषभस्कन्धं कुरु वृष्णियशः करम 70 विधमन्तम अनीकानि वयदयन्तं महारदान मनुष्यवाजि मातङ्गान परहिण्वन्तं यमक्षयम 71 शरैः सौभथ्रम आयस्तं थहन्तम इव वाहिनीम तन मे थहति गात्राणि सखे सत्येन ते शपे 72 यत तत्रापि च थुष्टात्मा कर्णॊ ऽभयथ्रुह्यत परभॊ अशक्नुवंश चाभिमन्यॊः कर्णः सदातुं रणे ऽगरतः 73 सौभथ्र शरनिर्भिन्नॊ विसंज्ञः शॊणितॊक्षितः निःश्वसन करॊधसंथीप्तॊ विमुखः सायकार्थितः 74 अपयान कृतॊत्साहॊ निराशश चापि जीविते तस्दौ सुविह्वलः संख्ये परहार जनितश्रमः 75 अद थरॊणस्य समरे तत कालसथृशं तथा शरुत्वा कर्णॊ वचः करूरं ततश चिच्छेथ कार्मुकम 76 ततश छिन्नायुधं तेन रणे पञ्च महारदाः स चैव निकृतिप्रज्ञः परावधीच छरवृष्टिभिः 77 यच च कर्णॊ ऽबरवीत कृष्णां सभायां परुषं वचः परमुखे पाण्डवेयानां कुरूणां च नृशंसवत 78 विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः पतिम अन्यं पृदुश्रॊणिवृणीष्व मित भाषिणि 79 लेखाभ्रु धृतराष्ट्रस्य थासी भूत्वा निवेशनम परविशाराल पक्ष्माक्षि न सन्ति पतयस तव 80 इत्य उक्तवान अधर्मज्ञस तथा परमथुर्मतिः पापः पापं वचः कर्णः शृण्वतस तव भारत 81 तस्य पापस्य तथ वाक्यं सुवर्णविकृताः शराः शमयन्तु शिला धौतास तवयास्ता जीवितच छिथः 82 यानि चान्यानि थुष्टात्मा पापानि कृतवांस तवयि तान्य अथ्य जीवितं चास्य शमयन्तु शरास तव 83 गाण्डीवप्रहितान घॊरान अथ्य गात्रैः सपृशञ शरान कर्णः समरतु थुष्टात्मा वचनं थरॊण भीष्मयॊः 84 सुवर्णपुङ्खा नाराचाः शत्रुघ्ना वैथ्युत परभाः तवयास्तास तस्य मर्माणि भित्त्वा पास्यन्ति शॊणितम 85 उग्रास तवथ भुजनिर्मुक्ता मर्म भित्त्वा शिताः शराः अथ्य कर्णं महावेगाः परेषयन्तु यमक्षयम 86 अथ्य हाहाकृता थीना विषण्णास तवच छरार्थिताः परपतन्तं रदा कर्णं पश्यन्तु वसुधाधिपाः 87 अथ्य सवशॊणिते मग्नं शयानं पतितं भुवि अपविथ्धायुधं कर्णं पश्यन्तु सुहृथॊ निजाः 88 हस्तिकक्ष्यॊ महान अस्य भल्लेनॊन्मदितस तवया परकम्पमानः पततु भूमाव आधिरदेर धवजः 89 तवया शरशतैश छिन्नं रदं हेमविभूषितम हतयॊधं समुत्सृज्य भीतः शल्यः पलायताम 90 ततः सुयॊधनॊ थृष्ट्वा हतम आधिरदिं तवया निराशॊ जीविते तव अथ्य राज्ये चैव धनंजय 91 एते थरवन्ति पाञ्चाला वध्यमानाः शितैः शरैः कर्णेन भरतश्रेष्ठ पाण्डवान उज्जिहीर्षवः 92 पाञ्चालान थरौपथेयांश च धृष्टथ्युम्न शिखण्डिनौ धृष्टथ्युम्न तनूजांश च शतानीकं च नाकुलिम 93 नकुलं सहथेवं च थुर्मुखं जनमेजयम सुवर्माणं सात्यकिं च विथ्धि कर्ण वशंगतान 94 अभ्याहतानां कर्णेन पाञ्चालानां महारणे शरूयते निनथॊ घॊरस तथ बन्धूनां परंतप 95 न तव एव भीताः पाञ्चालाः कदं चित सयुः पराङ्मुखाः न हि मृत्युं महेष्वासा गणयन्ति महारदाः 96 य एकः पाण्डवीं सेनां शरौघैः समवेष्टयत तं समासाथ्य पाञ्चाला भीष्मं नासान पराङ्मुखाः 97 तदा जवलन्तम अस्त्राग्निं गुरुं सर्वधनुष्मताम निर्थहन्तं समारॊहन थुर्धर्षं थरॊणम ओजसा 98 ते नित्यम उथिता जेतुं युथ्धे शत्रून अरिंथमाः न जात्व आधिरदेर भीताः पाञ्चालाः सयुः पराङ्मुखाः 99 तेषाम आपततां शूरः पाञ्चालानां तरस्विनाम आथत्ते ऽसूञ शरैः कर्णः पतंगानाम इवानलः 100 तांस तदाभिमुखान वीरान मित्रार्दे तयक्तजीवितान कषयं नयति राधेयः पाञ्चालाञ शतशॊ रणे 101 अस्त्रं हि रामात कर्णेन भार्गवाथ ऋषिसत्तमात यथ उपात्तं पुरा घॊरं तस्य रूपम उथीर्यते 102 तापनं सर्वसैन्यानां घॊररूपं सुथारुणम समावृत्य महासेनां जवलति सवेन तेजसा 103 एते चरन्ति संग्रामे कर्ण चापच्युताः शराः भरमराणाम इव वरातास तापयन्तः सम तावकान 104 एते चरन्ति पाञ्चाला थिक्षु सर्वासु भारत कर्णास्त्रं समरे पराप्य थुर्निवारम अनात्मभिः 105 एष भीमॊ थृढक्रॊधॊ वृतः पार्द समन्ततः सृञ्जयैर यॊधयन कर्णं पीड्यते सम शितैः शरैः 106 पाण्डवान सृञ्जयांश चैव पाञ्चालांश चैव भारत हन्याथ उपेक्षितः कर्णॊ रॊगॊ थेहम इवाततः 107 नान्यं तवत्तॊ ऽभिपश्यामि यॊधं यौधिष्ठिरे बले यः समासाथ्य राधेयं सवस्तिमान आव्रजेथ गृहम 108 तम अथ्य निशितैर बाणैर निहत्य भरतर्षभ यदाप्रतिज्ञं पार्द तवं कृत्वा कीर्तिम अवाप्नुहि 109 तवं हि शक्तॊ रणे जेतुं सकर्णान अपि कौरवान नान्यॊ युधि युधां शरेष्ठ सत्यम एतथ बरवीमि ते 110 एत कृत्वा महत कर्महत्वा कर्णं महारदम कृतार्दः सफलः पार्द सुखी भव नरॊत्तम |
1
[s] tataḥ punar ameyātmā keśavo 'rjunam abravīt kṛtasaṃkalpam āyastaṃ vadhe karṇasya sarvaśaḥ 2 adya sapta daśāhāni vartamānasya bhārata vināśasyātighorasya naravāraṇavājinām 3 bhūtvā hi vipulā senā tāvakānāṃ paraiḥ saha anyonyaṃ samare prāpya kiṃ cic cheṣā viśāṃ pate 4 bhūtvā hi kauravyāḥ pārtha prabhūtagajavājinaḥ tvāṃ vai śatruṃ samāsādya vinaṣṭā raṇamūrdhani 5 ete ca sarve pāñcālāḥ sṛñjayāś ca sahānvayāḥ tvāṃ samāsādya durdharṣaṃ pāṇḍavāś ca vyavasthitāḥ 6 pāñcālaiḥ pāṇḍavair matsyaiḥ kārūṣaiś cedikekayaiḥ tvayā guptair amitraghna kṛtaḥ śatrugaṇakṣayaḥ 7 ko hi śakto raṇe jetuṃ kauravāṃs tāta saṃgatān anyatra pāṇḍavān yuddhe tvayā guptān mahārathān 8 tvaṃ hi śakto raṇe jetuṃ sa surāsuramānuṣān trīṁl lokān samam udyuktān kiṃ punaḥ kauravaṃ balam 9 bhagadattaṃ hi rājānaṃ ko 'nyaḥ śaktas tvayā vinā jetuṃ puruṣaśārdūla yo 'pi syād vāsavopamaḥ 10 tathemāṃ vipulāṃ senāṃ guptāṃ pārtha tvayānagha na śekuḥ pārthivāḥ sarve cakṣurbhir abhivīkṣitum 11 tathaiva satataṃ pārtha rakṣitābhyāṃ tvayā raṇe dhṛṣṭadyumna śikhaṇḍibhyāṃ bhīṣmadroṇau nipātitau 12 ko hi śakto raṇe pārtha pāñcālānāṃ mahārathau bhīṣmadroṇau yudhā jetuṃ śakratulyaparākramau 13 ko hi śāṃtanavaṃ saṃkhye droṇaṃ vaikartanaṃ kṛpam drauṇiṃ ca saumadattiṃ ca kṛtavarmāṇam eva ca saundhavaṃ madrarājaṃ ca rājānaṃ ca suyodhanam 14 vīrān kṛtāstrān samare sarvān evānuvartinaḥ akṣauhiṇīpatīn ugrān saṃrabdhān yuddhadurmadān 15 śreṇyaś ca bahulāḥ kṣīṇāḥ pradīrṇāśvarathadvipāḥ nānājanapadāś cogrāḥ kṣatriyāṇām amarṣiṇām 16 govāsa dāsam īyānāṃ vasātīnāṃ ca bhārata vrātyānāṃ vāṭadhānānāṃ bhojānāṃ cāpi māninām 17 udīrṇāś ca mahāsenā brahmakṣatrasya bhārata tvāṃ samāsādya nidhanaṃ gatāḥ sāśvarathadvipāḥ 18 ugrāś ca krūrakarmāṇas tukhārā yavanāḥ khaśāḥ dārvābhisārā daradāḥ śakā ramaṭha taṅgaṇāḥ 19 andhrakāś ca pulindāś ca kirātāś cogravikramāḥ mlecchāś ca pārvatīyāś ca sāgarānūpavāsinaḥ saṃrambhiṇo yuddhaśauṇḍā balino dṛbdha pāṇayaḥ 20 ete suyodhanasyārthe saṃrabdhāḥ kurubhiḥ saha na śakyā yudhi nirjetuṃ tvadanyena paraṃtapa 21 dhārtarāṣṭram udagraṃ hi vyūḍhaṃ dṛṣṭvā mahābalam yasya tvaṃ na bhaves trātā pratīyāt ko nu mānavaḥ 22 tat sāgaram ivoddhūtaṃ rajasā saṃvṛtaṃ balam vidārya pāṇḍavaiḥ kruddhais tvayā guptair hataṃ vibho 23 māgadhānām adhipatir jayatseno mahābalaḥ adya saptaiva cāhāni hataḥ saṃkhye 'bhimanyunā 24 tado daśasahasrāṇi gajānāṃ bhīmakarmaṇām jaghāna gadayā bhīmas tasya rājñaḥ paricchadam tato 'nye 'pi hatā nāgā rathāś ca śataśo balāt 25 tad evaṃ samare tāta vartamāne mahābhaye bhīmasenaṃ samāsādya tvāṃ ca pāṇḍava kauravāḥ savājirathanāgāś ca mṛtyulokam ito gatāḥ 26 tathā senāmukhe tatra nihate pārtha pāḍavaiḥ bhīṣmaḥ prāsṛjad ugrāṇi śaravarṣāṇi māriṣa 27 sa cedikāśipāñcālān karūṣān matsyakekayān śaraiḥ pracchādya nidhanam anayat paruṣāstravit 28 tasya cāpacyutair bāṇaiḥ paradehavidāraṇaiḥ pūrṇam ākāśam abhavad rukmapuṅkharajihmagaiḥ 29 gatyā daśamyā te gatvā jaghnur vājirathadvipān hitvā nava gatīr duṣṭāḥ sa bāṇān vyāyato 'mucat 30 dināni daśa bhīṣmeṇa nighnatā tāvakaṃ balam śūnyāḥ kṛtā rathopasthā hatāś ca gajavājinaḥ 31 darśayitvātmano rūpaṃ rudropendra samaṃ yudhi pāṇḍavānām anīkāni pravigāhya vyaśātayat 32 vinighnan pṛthivīpālāṃś cedipāñcālakekayān vyadahat pāṇḍavīṃ mandam ujjihīrṣuḥ suyodhanam 33 tathā carantaṃ samare tapantam iva bhāskaram na śekuḥ sṛñjayā draṣṭuṃ tathaivānye mahīkṣitaḥ 34 vicarantaṃ tathā taṃ tu saṃgrāme jitakāśinam savād yogena sahasā pāṇḍavā samupādravan 35 sa tu vidrāvya samare pāṇḍavān sṛñjayān api eka eva raṇe bhīṣma eka vīratvam āgataḥ 36 taṃ śikhaṇḍī samāsādya tvayā gupto mahāratham jaghāna puruṣavyāghraṃ śaraiḥ saṃnataparvabhiḥ 37 sa eṣa patitaḥ śete śaratalpe pitāmahaḥ tvāṃ prāpya puruṣavyāghra gṛdhraḥ prāpyeva vāyasam 38 droṇaḥ pañca dināny ugro vidhamya ripuvāhinīḥ kṛtvā vyūhaṃ mahāyuddhe pātayitvā mahārathān 39 jayadrathasya samare kṛtvā rakṣāṃ mahārathaḥ antakapratimaś cogrāṃ rātriṃ yuddhvādahat prajāḥ 40 adyeti dve dine vīro bhāradvājaḥ pratāpavān dhṛṣṭadyumnaṃ samāsādya sa gataḥ paramāṃ gatim 41 yadi caiva parāny yuddhe sūtaputra mukhān rathān nāvārayiṣyaḥ saṃgrāme na sma droṇo vyanaṅkṣyata 42 bhavatā tu balaṃ sarvaṃ dhārtarāṣṭrasya vāritam tato droṇo hato yuddhe pārṣatena dhanaṃjaya 43 ka ivānyo raṇe kuryāt tvadanyaḥ kṣatriyo yudhi yādṛśaṃ te kṛtaṃ pārtha jayadrathavadhaṃ prati 44 nivārya senāṃ mahatīṃ hatvā śūrāṃś ca pārthivān nihataḥ saindhavo rājā tvayāstra balatejasā 45 āścaryaṃ sindhurājasya vadhaṃ jānanti pārthivāḥ anāścaryaṃ hi tat tvattas tvaṃ hi pārtha mahārathaḥ 46 tvāṃ hi prāpya raṇe kṣatram ekāhād iti bhārata tapyamānam asaṃyuktaṃ na bhaved iti me matiḥ 47 seyaṃ pārtha camūr ghorā dhārtarāṣṭrasya saṃyuge hatā sasarva vīrā hi bhīṣmadroṇau yadā hatau 48 śīrṇapravara yodhā adya hatavāji naradvipā hīnā sūryendu nakṣatrair dyaur ivābhāti bhāratī 49 vidhvastā hi raṇe pārtha seneyaṃ bhīmavikramāt āsurīva purā senā śakrasyeva parākramaiḥ 50 teṣāṃ hatāvaśiṣṭās tu pañca santi mahārathāḥ aśvatthāmā kṛtavarmā karṇo madrādhipaḥ kṛpaḥ 51 tāṃs tvam adya naravyāghra hatvā pañca mahārathān hatāmitraḥ prayacchorvīṃ rājñaḥ sadvīpa pattanām 52 sākāśa jalapātālāṃ saparvatamahāvanām prāpnotv amitavīryaśrīr adya pārtho vasuṃdharām 53 etāṃ purā viṣṇur iva hatvā daiteya dānavān prayaccha medinīṃ rājñe śakrāyeva yathā hariḥ 54 adya modantu pāñcālā nihateṣv ariṣu tvayā viṣṇunā nihateṣv eva dānaveyeṣu devatāḥ 55 yadi vā dvipadāṃ śreṣṭha droṇaṃ mānayato gurum aśvatthāmni kṛpā te 'sti kṛpe cācārya gauravāt 56 atyantopacitān vā tvaṃ mānayan bhrātṛbāndhavān kṛtavarmāṇam āsādya na neṣyāmi yamakṣayam 57 bhrātaraṃ mātur āsādya śalyaṃ madrajanādhipam yadi tvam aravindākṣa dayāvān na jighāṃsasi 58 imaṃ pāpamatiṃ kṣudram atyantaṃ pāṇḍavān prati karṇam adya naraśreṣṭha jahy āśu niśitaiḥ śaraiḥ 59 etat te sukṛtaṃ karma nātra kiṃ cin na yujyate vayam apy atra jānīmo nātra doṣo 'sti kaś cana 60 dahane yat saputrāyā niśi mātus tavānagha dyūtārthe yac ca yuṣmāsu prāvartata suyodhanaḥ tatra sarvatra duṣṭātmā karṇo mūlam ihārjuna 61 karṇād dhi manyate trāṇaṃ nityam eva suyodhanaḥ tato mām api saṃrabdho nigrahītuṃ pracakrame 62 sthirā buddhir narendrasya dhārtarāṣṭrasya mānada karṇaḥ pārthān raṇe sarvān vijeṣyati na saṃśayaḥ 63 karṇam āśritya kaunteya dhārtarāṣṭreṇa vigrahaḥ rocito bhavatā sārdhaṃ jānatāpi balaṃ tava 64 karṇo hi bhāṣate nityam ahaṃ pārthān samāgatān vāsudevaṃ sarājānaṃ vijeṣyāmi mahāraṇe 65 protsāhayan durātmānaṃ dhārtarāṣṭraṃ sudurmatiḥ samatau garjate karṇas tam adya jahi bhārata 66 yac ca yuṣmāsu pāpaṃ vai dhārtarāṣṭraḥ prayuktavān tatra sarvatra duṣṭātmā karṇaḥ pāpamatir mukham 67 yac ca tad dhārtarāṣṭrāṇāṃ krūraiḥ ṣaḍbhir mahārathaiḥ apaśyaṃ nihataṃ vīraṃ saubhadram ṛṣabhekṣaṇam 68 droṇa drauṇikṛpān vīrān kampayanto mahārathān nirmanuṣyāṃś ca mātaṅgānvirathāṃś ca mahārathān 69 vyaśvārohāṃś ca turagān pattīn vyāyudha jīvitān kurvantam ṛṣabhaskandhaṃ kuru vṛṣṇiyaśaḥ karam 70 vidhamantam anīkāni vyathayantaṃ mahārathān manuṣyavāji mātaṅgān prahiṇvantaṃ yamakṣayam 71 śaraiḥ saubhadram āyastaṃ dahantam iva vāhinīm tan me dahati gātrāṇi sakhe satyena te śape 72 yat tatrāpi ca duṣṭātmā karṇo 'bhyadruhyata prabho aśaknuvaṃś cābhimanyoḥ karṇaḥ sthātuṃ raṇe 'grataḥ 73 saubhadra śaranirbhinno visaṃjñaḥ śoṇitokṣitaḥ niḥśvasan krodhasaṃdīpto vimukhaḥ sāyakārditaḥ 74 apayāna kṛtotsāho nirāśaś cāpi jīvite tasthau suvihvalaḥ saṃkhye prahāra janitaśramaḥ 75 atha droṇasya samare tat kālasadṛśaṃ tadā śrutvā karṇo vacaḥ krūraṃ tataś ciccheda kārmukam 76 tataś chinnāyudhaṃ tena raṇe pañca mahārathāḥ sa caiva nikṛtiprajñaḥ prāvadhīc charavṛṣṭibhiḥ 77 yac ca karṇo 'bravīt kṛṣṇāṃ sabhāyāṃ paruṣaṃ vacaḥ pramukhe pāṇḍaveyānāṃ kurūṇāṃ ca nṛśaṃsavat 78 vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ patim anyaṃ pṛthuśroṇivṛṇīṣva mita bhāṣiṇi 79 lekhābhru dhṛtarāṣṭrasya dāsī bhūtvā niveśanam praviśārāla pakṣmākṣi na santi patayas tava 80 ity uktavān adharmajñas tadā paramadurmatiḥ pāpaḥ pāpaṃ vacaḥ karṇaḥ śṛṇvatas tava bhārata 81 tasya pāpasya tad vākyaṃ suvarṇavikṛtāḥ śarāḥ śamayantu śilā dhautās tvayāstā jīvitac chidaḥ 82 yāni cānyāni duṣṭātmā pāpāni kṛtavāṃs tvayi tāny adya jīvitaṃ cāsya śamayantu śarās tava 83 gāṇḍīvaprahitān ghorān adya gātraiḥ spṛśañ śarān karṇaḥ smaratu duṣṭātmā vacanaṃ droṇa bhīṣmayoḥ 84 suvarṇapuṅkhā nārācāḥ śatrughnā vaidyuta prabhāḥ tvayāstās tasya marmāṇi bhittvā pāsyanti śoṇitam 85 ugrās tvad bhujanirmuktā marma bhittvā śitāḥ śarāḥ adya karṇaṃ mahāvegāḥ preṣayantu yamakṣayam 86 adya hāhākṛtā dīnā viṣaṇṇās tvac charārditāḥ prapatantaṃ rathā karṇaṃ paśyantu vasudhādhipāḥ 87 adya svaśoṇite magnaṃ śayānaṃ patitaṃ bhuvi apaviddhāyudhaṃ karṇaṃ paśyantu suhṛdo nijāḥ 88 hastikakṣyo mahān asya bhallenonmathitas tvayā prakampamānaḥ patatu bhūmāv ādhirather dhvajaḥ 89 tvayā śaraśataiś chinnaṃ rathaṃ hemavibhūṣitam hatayodhaṃ samutsṛjya bhītaḥ śalyaḥ palāyatām 90 tataḥ suyodhano dṛṣṭvā hatam ādhirathiṃ tvayā nirāśo jīvite tv adya rājye caiva dhanaṃjaya 91 ete dravanti pāñcālā vadhyamānāḥ śitaiḥ śaraiḥ karṇena bharataśreṣṭha pāṇḍavān ujjihīrṣavaḥ 92 pāñcālān draupadeyāṃś ca dhṛṣṭadyumna śikhaṇḍinau dhṛṣṭadyumna tanūjāṃś ca śatānīkaṃ ca nākulim 93 nakulaṃ sahadevaṃ ca durmukhaṃ janamejayam suvarmāṇaṃ sātyakiṃ ca viddhi karṇa vaśaṃgatān 94 abhyāhatānāṃ karṇena pāñcālānāṃ mahāraṇe śrūyate ninado ghoras tad bandhūnāṃ paraṃtapa 95 na tv eva bhītāḥ pāñcālāḥ kathaṃ cit syuḥ parāṅmukhāḥ na hi mṛtyuṃ maheṣvāsā gaṇayanti mahārathāḥ 96 ya ekaḥ pāṇḍavīṃ senāṃ śaraughaiḥ samaveṣṭayat taṃ samāsādya pāñcālā bhīṣmaṃ nāsān parāṅmukhāḥ 97 tathā jvalantam astrāgniṃ guruṃ sarvadhanuṣmatām nirdahantaṃ samārohan durdharṣaṃ droṇam ojasā 98 te nityam uditā jetuṃ yuddhe śatrūn ariṃdamāḥ na jātv ādhirather bhītāḥ pāñcālāḥ syuḥ parāṅmukhāḥ 99 teṣām āpatatāṃ śūraḥ pāñcālānāṃ tarasvinām ādatte 'sūñ śaraiḥ karṇaḥ pataṃgānām ivānalaḥ 100 tāṃs tathābhimukhān vīrān mitrārthe tyaktajīvitān kṣayaṃ nayati rādheyaḥ pāñcālāñ śataśo raṇe 101 astraṃ hi rāmāt karṇena bhārgavād ṛṣisattamāt yad upāttaṃ purā ghoraṃ tasya rūpam udīryate 102 tāpanaṃ sarvasainyānāṃ ghorarūpaṃ sudāruṇam samāvṛtya mahāsenāṃ jvalati svena tejasā 103 ete caranti saṃgrāme karṇa cāpacyutāḥ śarāḥ bhramarāṇām iva vrātās tāpayantaḥ sma tāvakān 104 ete caranti pāñcālā dikṣu sarvāsu bhārata karṇāstraṃ samare prāpya durnivāram anātmabhiḥ 105 eṣa bhīmo dṛḍhakrodho vṛtaḥ pārtha samantataḥ sṛñjayair yodhayan karṇaṃ pīḍyate sma śitaiḥ śaraiḥ 106 pāṇḍavān sṛñjayāṃś caiva pāñcālāṃś caiva bhārata hanyād upekṣitaḥ karṇo rogo deham ivātataḥ 107 nānyaṃ tvatto 'bhipaśyāmi yodhaṃ yaudhiṣṭhire bale yaḥ samāsādya rādheyaṃ svastimān āvrajed gṛham 108 tam adya niśitair bāṇair nihatya bharatarṣabha yathāpratijñaṃ pārtha tvaṃ kṛtvā kīrtim avāpnuhi 109 tvaṃ hi śakto raṇe jetuṃ sakarṇān api kauravān nānyo yudhi yudhāṃ śreṣṭha satyam etad bravīmi te 110 eta kṛtvā mahat karmahatvā karṇaṃ mahāratham kṛtārthaḥ saphalaḥ pārtha sukhī bhava narottama |