1
[स] युधिष्ठिरेणैवम उक्तः कौन्तेयः शवेतवाहनः असिं जग्राह संक्रुथ्धॊ जिघांसुर भरतर्षभम 2 तस्य कॊपं समुथ्वीक्ष्य चित्तज्ञः केशवस तथा उवाच किम इथं पार्द गृहीतः खड्ग इत्य उत 3 नेह पश्यामि यॊथ्धव्यं तव किं चिथ धनंजय ते धवस्ता धार्तराष्ट्रा हि सर्वे भीमेन धीमता 4 अपयातॊ ऽसि कौन्तेय राजा थरष्टव्य इत्य अपि स राजा भवता थृष्टः कुशली च युधिष्ठिरः 5 तं थृष्ट्वा नृपशार्थूल शार्थूल समविक्रमम हर्षकाले तु संप्राप्ते कस्मात तवा मन्युर आविशत 6 न तं पश्यामि कौन्तेय यस ते वध्यॊ भवेथ इह कस्माथ भवान महाखड्गं परिगृह्णाति सत्वरम 7 तत तवा पृच्छामि कौन्तेय किम इथं ते चिकीर्षितम परामृशसि यत करुथ्धः खड्गम अथ्भुतविक्रम 8 एवम उक्तस तु कृष्णेन परेक्षमाणॊ युधिष्ठिरम अर्जुनः पराह गॊविन्थं करुथ्धः सर्प इव शवसन 9 थथ गाण्डीवम अन्यस्मा इति मां यॊ ऽभिचॊथयेत छिन्थ्याम अहं शिरस तस्य इत्य उपांशु वरतं मम 10 तथ उक्तॊ ऽहम अथीनात्मन राज्ञामित पराक्रम समक्षं तव गॊविन्थ न तत कषन्तुम इहॊत्सहे 11 तस्माथ एनं वधिष्यामि राजानं धर्मभीरुकम परतिज्ञां पालयिष्यामि हत्वेमं नरसत्तमम एतथर्दं मया खड्ग्गॊ गृहीतॊ यथुनन्थन 12 सॊ ऽहं युधिष्ठिरं हत्वा सत्ये ऽपय आनृण्यतां गतः विशॊकॊ विज्वरश चापि भविष्यामि जनार्थन 13 किं वा तवं मन्यसे पराप्तम अस्मिन काले समुत्दिते तवम अस्य जगतस तात वेत्द सर्वं गतागतम तत तदा परकरिष्यामि यदा मां वक्ष्यते भवान 14 [क] इथानीं पाद जानामि न वृथ्धाः सेवितास तवया अकाले पुरुषव्याघ्र संरम्भक्रिययानया न हि धर्मविभागज्ञः कुर्याथ एवं धनंजय 15 अकार्याणां च कार्याणां संयॊगं यः करॊति वै कार्याणाम अक्रियाणां च स पार्द पुरुषाधमः 16 अनुसृत्य तु ये धर्मं कवयः समुपस्दिताः समास विस्तरविथां न तेषां वेत्द निश्चयम 17 अनिश्चयज्ञॊ हि नरः कार्याकार्यविनिश्चये अवशॊ मुह्यते पार्द यदा तवं मूढ एव तु 18 न हि कार्यम अकार्यं वा सुखं जञातुं कदं चन शरुतेन जञायते सर्वं तच च तवं नावबुध्यसे 19 अविज्ञानाथ भवान यच च धर्मं रक्षति धर्मवित पराणिनां हि वधं पार्द धार्मिकॊ नावबुध्यते 20 पराणिनाम अवधस तात सर्वज्यायान मतॊ मम अनृतं तु भवेथ वाच्यं न च हिंस्यात कदं चन 21 स कदं भरातरं जयेष्ठं राजानं धर्मकॊविथम हन्याथ भवान नरश्रेष्ठ पराकृतॊ ऽनयः पुमान इव 22 अयुध्यमानस्य वधस तदाशस्त्रस्य भारत पराङ्मुखस्य थरवतः शरणं वाभिगच्छतः कृताञ्जलेः परपन्नस्य न वधः पुज्यते बुधैः 23 तवया चैव वरतं पार्द बालेनैव कृतं पुरा तस्माथ अधर्मसंयुक्तं मौढ्यात कर्म वयवस्यसि 24 स गुरुं पार्द कस्मात तवं हन्या धर्मम अनुस्मरन असंप्रधार्य धर्माणां गतिं सूक्ष्मां थुरन्वयाम 25 इथं धर्मरहस्यं च वक्ष्यामि भरतर्षभ यथ बरूयात तव भीष्मॊ वा धर्मज्ञॊ वा युधिष्ठिरः 26 विथुरॊ वा तदा कषत्ता कुन्ती वापि यशस्विनी तत ते वक्ष्यामि तत्त्वेन तन निबॊध धनंजय 27 सत्यस्य वचनं साधु न सत्याथ विथ्यते परम तत्त्वेनैतत सुथुर्ज्ञेयं यस्य सत्यम अनुष्ठितम 28 भवेत सत्यम अवक्तव्यं वक्तव्यम अनृतं भवेत सर्वस्वस्यापहारे तु वक्तव्यम अनृतं भवेत 29 पराणात्यये विवाहे च वक्तव्यम अनृतं भवेत यत्रानृतं भवेत सत्यं सत्यं चाप्य अनृतं भवेत 30 ताथृशं पश्यते बालॊ यस्य सत्यम अनुष्ठितम सत्यानृते विनिश्चित्यल ततॊ भवति धर्मवित 31 किम आश्चर्यं कृतप्रज्ञः पुरुषॊ ऽपि सुथारुणः सुमहत पराप्नुयात पुण्यं बलाकॊ ऽनधवधाथ इव 32 किम आश्चर्यं पुनर मूढॊ धर्मकामॊ ऽपय अपण्डितः सुमहत पराप्नुयात पापम आपगाम इव कौशिकः 33 [अर्ज] आचक्ष्व भगवन्न एतथ यदा विथ्याम अहं तदा बलाकान्धाभिसंबथ्धं नथीनां कौशिकस्य च 34 [क] मृगव्याधॊ ऽभवत कश चिथ बलाकॊ नाम भारत यात्रार्दं पुत्रथारस्य मृगान हन्ति न कामतः 35 सॊ ऽनधौ च माता पितरौ बिभर्त्य अन्यांश च संश्रितान सवधर्मनिरतॊ नित्यं सत्यवाग अनसूयकः 36 स कथा चिन मृगाँल लिप्सुर नान्वविन्थत परयत्नवान अदापश्यत स पीतॊथं शवापथं घराणचक्षुषम 37 अथृष्टपूर्वम अपि तत सत्त्वं तेन हतं तथा अन्व एव च ततॊ वयॊम्नः पुष्पवर्षम अवापतत 38 अप्सरॊगीतवाथित्रैर नाथितं च मनॊरमम विमानम आगमत सवर्गान मृगव्याध निनीषया 39 तथ भूतं सर भूतानाम अभावाय किलार्जुन तपस तप्त्वा वरं पराप्तं कृतम अन्धं सवयं भुवा 40 तथ धत्वा सर्वभूतानाम अभाव कृतनिश्चयम ततॊ बलाकः सवरगाथ एवं धर्मः सुथुर्विथः 41 कौशिकॊ ऽपय अभवथ विप्रस तपस्वी न बहुश्रुतः नथीनां संगमे गरामाथ अथूरे स किलावसत 42 सत्यं मया सथा वाच्यम इति तस्याभवथ वरतम सत्यवाथीति विख्यातः स तथासीथ धनंजय 43 अद थस्यु भयात केचित्तथा तथ वनम आविशन थस्यवॊ ऽपि गताः करूरा वयमार्गन्त परयत्नतः 44 अद कौशिकम अभ्येत्य पराहुस तं सत्यवाथिनम कतमेन पदा याता भगवन बहवॊ जनाः सत्येन पृष्ठप्रब्रूहि यथि तान वेत्द शंस नः 45 स पृष्ठः कौशिकः सत्यं वचनं तान उवाच ह बहुवृक्ष लतागुल्मम एतथ वनम उपाश्रिताः ततस ते तान समासाथ्य करूरा जघ्नुर इति शरुतिः 46 तेनाधर्मेण महता वाग थुरुक्तेन कौशिकः गतः सुकष्टं नरकं सूक्ष्मधर्मेष्व अकॊविथः अप्रभूत शरुतॊ मूढॊ धर्माणाम अविभागवित 47 वृथ्धान अपृष्ट्वा संथेहं महच छवभ्रम इतॊ ऽरहति तत्र ते लक्षणॊथ्थेशः कश चिथ एव भविष्यति 48 थुष्करं परमज्ञानं कर्तेणात्र वयवस्यति शरुतिर धर्म इति हय एके वथन्ति बहवॊ जनाः 49 न तव एतत परतिसूयामि न हि सर्वं विधीयते परभवार्दाय भूतानां धर्मप्रवचनं कृतम 50 धारणाथ धर्मम इत्य आहुर धर्मॊ धारयति परजाः यः सयाथ धारण संयुक्तः स धर्म इति निश्चयः 51 ये ऽनयायेन जिहीर्षन्तॊ जना इच्छन्ति कर्हि चित अकूजनेन चेन मॊक्षॊ नात्र कूजेत कदं चन 52 अवश्यं कूजितव्यं वा शङ्केरन वाप्य अकूजतः शरेयस तत्रानृतं वक्तुं सत्याथ इति विचारितम 53 पराणात्यये विवाहे वा सर्वज्ञाति धनक्षये नर्मण्य अभिप्रवृत्ते वा परवक्तव्यं मृषा भवेत अधर्मं नात्र पश्यन्ति धर्मतत्त्वार्द थर्शिनः 54 यः सतेनैः सह संबन्धान मुच्यते शपदैर अपि शरेयस तत्रानृतं वक्तुं तत सत्यम अविचारितम 55 न च तेभ्यॊ धनं थेयं शक्ये सति कदं चन पापेभ्यॊ हि धनं थेयं शक्ये सति कदं चन तस्माथ धर्मार्दम अनृतम उक्त्वा नानृत वाग भवेत 56 एष ते लक्षणॊथ्थेशः समुथ्थिष्टॊ यदाविधि एतच छरुत्वा बरूहि पार्द यथि वध्यॊ युधिष्ठिरः 57 [अर्ज] यदा बरूयान महाप्राज्ञॊ यदा बरूयान महामतिः हितं चैव यदास्माकं तदैतथ वचनं तव 58 भवान मातृसमॊ ऽसमाकं तदा पितृसमॊ ऽपि च गतिश च परमा कृष्ण तेन ते वाक्यम अथ्भुतम 59 न हि ते तरिषु लॊकेषु विथ्यते ऽविथितं कव चित तस्माथ भवान परं धर्मं वेथ सर्वं यदातदम 60 अवध्यं पाण्डवं मन्ये धर्मराजं युधिष्ठिरम यस्मिन समयसंयॊगे बरूहि किं चिथ अनुग्रहम इथं चापरम अत्रैव शृणु हृत्स्दं विवक्षितम 61 जानामि थाशार्ह मम वरतं तवं; यॊ मां बरूयात कश चन मानुषेषु अन्यस्मै तवं गाण्डिवं थेहि पार्द; यस तवत्तॊ ऽसत्रैर भविता वा विशिष्टः 62 हन्याम अहं केशव तं परसह्य; भीमॊ हन्यात तूबरकेति चॊक्तः तन मे राजा परॊक्तवांस ते समक्षं; धनुर थेहीत्य असकृथ वृष्णिसिंह 63 तं हत्वा चेत केशव जीवलॊके; सदाता कालं नाहम अप्य अल्पमात्रम सा च परतिज्ञा मम लॊकप्रबुथ्धा; भवेत सत्या धर्मभृतां वरिष्ठ यदा जीवेत पाण्डवॊ ऽहं च कृष्ण; तदा बुथ्धिं थातुम अथ्यार्हसि तवम 64 [वा] राजा शरान्तॊ जगतॊ विक्षतश च; कर्णेन संख्ये निशितैर बाणसंघैः तस्मात पार्द तवां परुषाण्य अवॊचत; कर्णे थयूतंह्य अथ्य रणे निबथ्धम 65 तस्मिन हते कुरवॊ निर्जिताः सयुर; एवं बुथ्धिः पार्दिवॊ धर्मपुत्रः यथावमानं लभते महान्तं; तथा जीवन मृत इत्य उच्यते सः 66 तन मानितः पार्दिवॊ ऽयं सथैव; तवया सभीमेन तदा यमाभ्याम वृथ्धैश च लॊके पुरुषप्रवीरैस; तस्यावमानं कलया तवं परयुङ्क्ष्व 67 तवम इत्य अत्र भवन्तं तवं बरूहि पार्द युधिष्ठिरम तवम इत्य उक्तॊ हि निहतॊ गुरुर भवति भारत 68 एवम आचर कौन्तेय धर्मराजे युधिष्ठिरे अधर्मयुक्तं संयॊगं कुरुष्वैवं कुरूथ्वह 69 अदर्वाङ्गिरसी हय एषा शरुतीनाम उत्तमा शरुतिः अविचार्यैव कार्यैषा शरेयः कामैर नरैः सथा 70 वधॊ हय अयं पाण्डव धर्मराज्ञस; तवत्तॊ युक्तॊ वेत्स्यते चैवम एषः ततॊ ऽसय पाथाव अभिवाथ्य पश्चाच; छमं बरूयाः सान्त्वपूर्वं च पार्दम 71 भराता पराज्ञस तव कॊपं न जातु; कुर्याथ राजा कं चन पाण्डवेयः मुक्तॊ ऽनृताथ भरातृवधाच च पार्द; हृष्टः कर्णं तवं जहि सूतपुत्रम 72 [स] इत्य एवम उक्तस तु जनार्थनेन; पार्दः परशस्याद सुहृथ वधं तम ततॊ ऽबरवीथ अर्जुनॊ धर्मराजम; अनुक्तपूर्वं परुषं परसह्य 73 मा तवं राजन वयाहर वयाहरत्सु; न तिष्ठसे करॊशमात्रे रणार्धे भीमस तु माम अर्हति गर्हणाय; यॊ थयुध्यते सर्वयॊधप्रवीरः 74 काले हि शत्रून परतिपीड्य संख्ये; हत्वा च शूरान पृदिवीपतींस तान यः कुञ्जराणाम अधिकं सहस्रं; हत्वानथत तुमुलं सिंहनाथम 75 सुथुष्करं कर्म करॊति वीरः; कर्तुं यदा नार्हसि तवं कथा चित रदाथ अवप्लुत्य गथां परामृशंस; तया निहन्त्य अश्वनरथ्विपान रणे 76 वरासिना वाजिरदाश्वकुञ्जरांस; तदा रदाङ्गैर धनुषा च हन्त्य अरीन परमृथ्य पथ्भ्याम अहितान निहन्ति यः; पुनश च थॊर्भ्यां शतमन्युविक्रमः 77 महाबलॊ वैश्रवणान्तकॊपमः; परसह्य हन्ता थविषतां यदार्हम स भीमसेनॊ ऽरहति गर्हणां मे; न तवं नित्यं रक्ष्यसे यः सुहृथ्भिः 78 महारदान नागवरान हयांश च; पथातिमिख्यान अपि च परमद्य एकॊ भीमॊ धार्तराष्ट्रेषु मग्नः; स माम उपालब्धुम अरिंथमॊ ऽरहति 79 कलिङ्ग वङ्ग अनङ्ग निषाथमागधान; सथा मथान नीलबलाहकॊपमान निहन्ति यः शत्रुगणान अनेकशः; स माभिवक्तुं परभवत्य अनागसम 80 सुयुक्तम आस्दाय रदं हि काले; धनुर विकर्षञ शरपूर्णमुष्टिः सृजत्य असौ शरवर्षाणि वीरॊ; महाहवे मेघ इवाम्बुधाराः 81 बलं तु वाचि थविजसत्तमानां; कषात्रं बुधा बाहुबलं वथन्ति तवं वाग्बलॊ भारत निष्ठुरश च; तवम एव मां वेत्सि यदाविधॊ ऽहम 82 यतामि नित्यं तव कर्तुम इष्टं; थारैः सुतैर जीवितेनात्मना च एवं च मां वाग विशिखैर निहंसि; तवत्तः सुखं न वयं विथ्म किं चित 83 अवामंस्दा मां थरौपथी तल्प संस्दॊ; महारदान परतिहन्मि तवथर्दे तेनातिशङ्की भारत निष्ठुरॊ ऽसि; तवत्तः सुखं नाभिजानामि किं चित 84 परॊक्तः सवयं सत्यसंधेन मृत्युस; तव परियार्दं नथथेव युथ्धे वीरः शिखण्डी थरौपथॊ ऽसौ महात्मा; मयाभिगुप्तेन हतश च तेन 85 न चाभिनन्थामि तवाधिराज्यं; यतस तम अक्षेष्व अहिताय सक्तः सवयं कृत्वा पापम अनार्यजुष्टम; एभिर युथ्धे तर्तुम इच्छस्य अरींस तु 86 अक्षेषु थॊषा बहवॊ विधर्माः; शरुतास तवया सहथेवॊ ऽबरवीथ यान तान नैषि सांतर्तुम असाधु जुष्टान; येन सम सर्वे निरयं परपन्नाः 87 तवं थेविता तवत्कृते राज्यनाशस; तवत संभवं वयसनं नॊ नरेन्थ्र मास्मान करूरैर वाक परतॊथैस तुथ तवं; भूयॊ राजन कॊपयन्न अल्पभाग्यान 88 एता वाचः परुषाः साव्य साची; सदिरप्रज्ञं शरावयित्वा ततक्ष तथानुतेपे सुरराजपुत्रॊ; विनिःश्वसंश चाप्य असिम उथ्बबर्ह 89 तम आह कृष्णाः किम इथं पुनर भवान; विकॊशम आकाशनिभं करॊत्य असिम परब्रूहि सत्यं पुरर उत्तरं विधेर; वचः परवक्ष्याम्य अहम अर्दसिथ्धये 90 इत्य एव पृष्ठः पुरुषॊत्तमेन; सुथुःखितः केशवम आह वाक्यम अहं हनिष्ये सवशरीरम एव; परसह्य येनाहितम आचरं वै 91 निशम्य तत पार्द वचॊ ऽबरवीथ इथं; धनंजयं धर्मभृतां वरिष्ठः परब्रूहि पार्द सवगुणान इहात्मनस; तदा सवहार्थं भवतीह सथ्यः 92 तदास्तु कृष्णेत्य अभिनन्थ्य वाक्यं; धनंजयः पराह धनुर विनाम्य युधिष्ठिरं धर्मभृतां वरिष्ठं; शृणुष्व राजन्न इति शक्रसूनुः 93 न माथृशॊ ऽनयॊ नरथेव विथ्यते; धनुर्धरॊ थेवम ऋते पिनाकिनम अहं हि तेनानुमतॊ महात्मना; कषणेन हन्यां सचराचरं जगत 94 मया हि राजन सथिग ईश्वरा थिशॊ; विजित्य सर्वा भवतः कृता वशे स राजसूयश च समाप्तथक्षिणः; सभा च थिव्या भवतॊ ममौजसा 95 पापौ पृषत्का लिखिता ममेमे; धनुश च संख्ये विततं सबाणम पाथौ च मे सशरौ सहध्वजौ; न माथृशं युथ्धगतं जयन्ति 96 हता उथीच्या निहताः परतीच्याः; पराच्या निरस्ता थाक्षिणात्या विशस्ताः संशप्तकानां किं चिथ एवावशिष्टं; सर्वस्य सैन्यस्य हतं मयार्धम 97 शेते मया निहता भारती च; चमू राजन थेव चमू परकाशा ये नास्त्रज्ञास तान अहं हन्मि शस्त्रैस; तस्माल लॊकं नेह करॊमि भस्मसात 98 इत्य एवम उक्त्वा पुनर आह पार्दॊ; युधिष्ठिरं धर्मभृतां वरिष्ठम अप्य अपुत्रा तेन राधा भवित्री; कुन्ती मया वा तथ ऋतं विथ्धि राजन परसीथ राजन कषम यन मयॊक्तं; काले भवान वेत्स्यति तन नमस ते 99 परसाथ्य राजानम अमित्रसाहं; सदितॊ ऽबरवीच चैनम अभिप्रपन्नः याम्य एष भीमं समरात परमॊक्तुं; सर्वात्मना सूतपुत्रं च हन्तुम 100 तव परियार्दं मम जीवितं हि; बरवीमि सत्यं तथ अवेहि राजन इति परायाथ उपसंगृह्य पाथौ; समुत्दितॊ थीप्ततेजाः किरीटी नेथं चिरात कषिप्रम इथं भविष्यत्य; आवर्तते ऽसाव अभियामि चैनम 101 एतच छरुत्वा पाण्डवॊ धर्मराजॊ; भरातुर वाक्यं परुषं फल्गुनस्य उत्दाय तस्माच छयनाथ उवाच; पार्दं ततॊ थुःखपरीत चेताः 102 कृतं मया पार्द यदा न साधु; येन पराप्तं वयसनं वः सुघॊरम तस्माच छिरश छिन्थ्धि ममेथम अथ्य; कुलान्तकस्याधम पुरुषस्य 103 पापस्य पापव्यसनान्वितस्य; विमूढबुथ्धेर अलसस्य भीरॊः वृथ्धावमन्तुः परुषस्य चैव; किं ते चिरं माम अनुवृत्य रूक्षम 104 गच्छाम्य अहं वनम एवाथ्य पापः; सुखं भवान वर्ततां मथ्विहीनः यॊग्यॊ राजा भीमसेनॊ महात्मा; कलीबस्य वा मम किं राज्यकृत्यम 105 न चास्मि शक्तः परुषाणि सॊढुं; पुनस तवेमानि रुषान्वितस्य भीमॊ ऽसतु राजा मम जीवितेन; किं कार्यम अथ्यावमतस्य वीर 106 इत्य एवम उक्त्वा सहसॊत्पपात; राजा ततस तच छयनं विहाय इयेष निर्गन्तुम अदॊ वनाय; तं वासुथेवः परणतॊ ऽभयुवाच 107 राजन विथितम एतत ते यदा गाण्डीवधन्वनः परतिज्ञा सत्यसंधस्य गाण्डीवं परति विश्रुता 108 बरूयाथ य एवं गाण्डीवं थेह्य अन्यस्मै तवम इत्य उत स वध्यॊ ऽसय पुमाँल लॊके तवया चॊक्तॊ ऽयम ईथृशम 109 अतः सत्यां परतिज्ञां तां पार्देन परिरक्षता मच्छन्थाथ अवमानॊ ऽयं कृतस तव महीपते गुरूणाम अवमानॊ हि वध इत्य अभिधीयते 110 तस्मात तवं वै महाबाहॊ मम पार्दस्य चॊभयॊः वयतिक्रमम इमं राजन संक्षमस्वार्जुनं परति 111 शरणं तवां महाराज परपन्नौ सव उभाव अपि कषन्तुम अर्हसि मे राजन परणतस्याभियाचतः 112 राधेयस्याथ्य पापस्य भूमिः पास्यति शॊणितम सत्यं ते परतिजानामि हतं विथ्ध्य अथ्य सूतजम यस्येच्छसि वधं तस्य गतम एवाथ्य जीवितम 113 इति कृष्ण वचः शरुत्वा धर्मराजॊ युधिष्ठिरः ससंभ्रमं हृषीकेशम उत्दाप्य परणतं तथा कृताञ्जलिम इथं वाक्यम उवाचानन्तरं वचः 114 एवम एतथ यदात्द तवम अस्त्य एषॊ ऽतिक्रमॊ मम अनुनीतॊ ऽसमि गॊविन्थ तारितश चाथ्य माधव मॊक्षिता वयसनाथ घॊराथ वयम अथ्य तवयाच्युत 115 भवन्तं नादम आसाथ्य आवां वयसनसागरात घॊराथ अथ्य समुत्तीर्णाव उभाव अज्ञानमॊहितौ 116 तवथ बुथ्धिप्रवम आसाथ्य थुःखशॊकार्णवाथ वयम समुत्तीर्णाः सहामात्याः सनादाः सम तवयाच्युत |
1
[s] yudhiṣṭhireṇaivam uktaḥ kaunteyaḥ śvetavāhanaḥ asiṃ jagrāha saṃkruddho jighāṃsur bharatarṣabham 2 tasya kopaṃ samudvīkṣya cittajñaḥ keśavas tadā uvāca kim idaṃ pārtha gṛhītaḥ khaḍga ity uta 3 neha paśyāmi yoddhavyaṃ tava kiṃ cid dhanaṃjaya te dhvastā dhārtarāṣṭrā hi sarve bhīmena dhīmatā 4 apayāto 'si kaunteya rājā draṣṭavya ity api sa rājā bhavatā dṛṣṭaḥ kuśalī ca yudhiṣṭhiraḥ 5 taṃ dṛṣṭvā nṛpaśārdūla śārdūla samavikramam harṣakāle tu saṃprāpte kasmāt tvā manyur āviśat 6 na taṃ paśyāmi kaunteya yas te vadhyo bhaved iha kasmād bhavān mahākhaḍgaṃ parigṛhṇāti satvaram 7 tat tvā pṛcchāmi kaunteya kim idaṃ te cikīrṣitam parāmṛśasi yat kruddhaḥ khaḍgam adbhutavikrama 8 evam uktas tu kṛṣṇena prekṣamāṇo yudhiṣṭhiram arjunaḥ prāha govindaṃ kruddhaḥ sarpa iva śvasan 9 dada gāṇḍīvam anyasmā iti māṃ yo 'bhicodayet chindyām ahaṃ śiras tasya ity upāṃśu vrataṃ mama 10 tad ukto 'ham adīnātman rājñāmita parākrama samakṣaṃ tava govinda na tat kṣantum ihotsahe 11 tasmād enaṃ vadhiṣyāmi rājānaṃ dharmabhīrukam pratijñāṃ pālayiṣyāmi hatvemaṃ narasattamam etadarthaṃ mayā khaḍggo gṛhīto yadunandana 12 so 'haṃ yudhiṣṭhiraṃ hatvā satye 'py ānṛṇyatāṃ gataḥ viśoko vijvaraś cāpi bhaviṣyāmi janārdana 13 kiṃ vā tvaṃ manyase prāptam asmin kāle samutthite tvam asya jagatas tāta vettha sarvaṃ gatāgatam tat tathā prakariṣyāmi yathā māṃ vakṣyate bhavān 14 [k] idānīṃ pātha jānāmi na vṛddhāḥ sevitās tvayā akāle puruṣavyāghra saṃrambhakriyayānayā na hi dharmavibhāgajñaḥ kuryād evaṃ dhanaṃjaya 15 akāryāṇāṃ ca kāryāṇāṃ saṃyogaṃ yaḥ karoti vai kāryāṇām akriyāṇāṃ ca sa pārtha puruṣādhamaḥ 16 anusṛtya tu ye dharmaṃ kavayaḥ samupasthitāḥ samāsa vistaravidāṃ na teṣāṃ vettha niścayam 17 aniścayajño hi naraḥ kāryākāryaviniścaye avaśo muhyate pārtha yathā tvaṃ mūḍha eva tu 18 na hi kāryam akāryaṃ vā sukhaṃ jñātuṃ kathaṃ cana śrutena jñāyate sarvaṃ tac ca tvaṃ nāvabudhyase 19 avijñānād bhavān yac ca dharmaṃ rakṣati dharmavit prāṇināṃ hi vadhaṃ pārtha dhārmiko nāvabudhyate 20 prāṇinām avadhas tāta sarvajyāyān mato mama anṛtaṃ tu bhaved vācyaṃ na ca hiṃsyāt kathaṃ cana 21 sa kathaṃ bhrātaraṃ jyeṣṭhaṃ rājānaṃ dharmakovidam hanyād bhavān naraśreṣṭha prākṛto 'nyaḥ pumān iva 22 ayudhyamānasya vadhas tathāśastrasya bhārata parāṅmukhasya dravataḥ śaraṇaṃ vābhigacchataḥ kṛtāñjaleḥ prapannasya na vadhaḥ pujyate budhaiḥ 23 tvayā caiva vrataṃ pārtha bālenaiva kṛtaṃ purā tasmād adharmasaṃyuktaṃ mauḍhyāt karma vyavasyasi 24 sa guruṃ pārtha kasmāt tvaṃ hanyā dharmam anusmaran asaṃpradhārya dharmāṇāṃ gatiṃ sūkṣmāṃ duranvayām 25 idaṃ dharmarahasyaṃ ca vakṣyāmi bharatarṣabha yad brūyāt tava bhīṣmo vā dharmajño vā yudhiṣṭhiraḥ 26 viduro vā tathā kṣattā kuntī vāpi yaśasvinī tat te vakṣyāmi tattvena tan nibodha dhanaṃjaya 27 satyasya vacanaṃ sādhu na satyād vidyate param tattvenaitat sudurjñeyaṃ yasya satyam anuṣṭhitam 28 bhavet satyam avaktavyaṃ vaktavyam anṛtaṃ bhavet sarvasvasyāpahāre tu vaktavyam anṛtaṃ bhavet 29 prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet yatrānṛtaṃ bhavet satyaṃ satyaṃ cāpy anṛtaṃ bhavet 30 tādṛśaṃ paśyate bālo yasya satyam anuṣṭhitam satyānṛte viniścityal tato bhavati dharmavit 31 kim āścaryaṃ kṛtaprajñaḥ puruṣo 'pi sudāruṇaḥ sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva 32 kim āścaryaṃ punar mūḍho dharmakāmo 'py apaṇḍitaḥ sumahat prāpnuyāt pāpam āpagām iva kauśikaḥ 33 [arj] ācakṣva bhagavann etad yathā vidyām ahaṃ tathā balākāndhābhisaṃbaddhaṃ nadīnāṃ kauśikasya ca 34 [k] mṛgavyādho 'bhavat kaś cid balāko nāma bhārata yātrārthaṃ putradārasya mṛgān hanti na kāmataḥ 35 so 'ndhau ca mātā pitarau bibharty anyāṃś ca saṃśritān svadharmanirato nityaṃ satyavāg anasūyakaḥ 36 sa kadā cin mṛgāṁl lipsur nānvavindat prayatnavān athāpaśyat sa pītodaṃ śvāpadaṃ ghrāṇacakṣuṣam 37 adṛṣṭapūrvam api tat sattvaṃ tena hataṃ tadā anv eva ca tato vyomnaḥ puṣpavarṣam avāpatat 38 apsarogītavāditrair nāditaṃ ca manoramam vimānam āgamat svargān mṛgavyādha ninīṣayā 39 tad bhūtaṃ sara bhūtānām abhāvāya kilārjuna tapas taptvā varaṃ prāptaṃ kṛtam andhaṃ svayaṃ bhuvā 40 tad dhatvā sarvabhūtānām abhāva kṛtaniścayam tato balākaḥ svaragād evaṃ dharmaḥ sudurvidaḥ 41 kauśiko 'py abhavad vipras tapasvī na bahuśrutaḥ nadīnāṃ saṃgame grāmād adūre sa kilāvasat 42 satyaṃ mayā sadā vācyam iti tasyābhavad vratam satyavādīti vikhyātaḥ sa tadāsīd dhanaṃjaya 43 atha dasyu bhayāt kecittadā tad vanam āviśan dasyavo 'pi gatāḥ krūrā vyamārganta prayatnataḥ 44 atha kauśikam abhyetya prāhus taṃ satyavādinam katamena pathā yātā bhagavan bahavo janāḥ satyena pṛṣṭhaprabrūhi yadi tān vettha śaṃsa naḥ 45 sa pṛṣṭhaḥ kauśikaḥ satyaṃ vacanaṃ tān uvāca ha bahuvṛkṣa latāgulmam etad vanam upāśritāḥ tatas te tān samāsādya krūrā jaghnur iti śrutiḥ 46 tenādharmeṇa mahatā vāg duruktena kauśikaḥ gataḥ sukaṣṭaṃ narakaṃ sūkṣmadharmeṣv akovidaḥ aprabhūta śruto mūḍho dharmāṇām avibhāgavit 47 vṛddhān apṛṣṭvā saṃdehaṃ mahac chvabhram ito 'rhati tatra te lakṣaṇoddeśaḥ kaś cid eva bhaviṣyati 48 duṣkaraṃ paramajñānaṃ karteṇātra vyavasyati śrutir dharma iti hy eke vadanti bahavo janāḥ 49 na tv etat pratisūyāmi na hi sarvaṃ vidhīyate prabhavārthāya bhūtānāṃ dharmapravacanaṃ kṛtam 50 dhāraṇād dharmam ity āhur dharmo dhārayati prajāḥ yaḥ syād dhāraṇa saṃyuktaḥ sa dharma iti niścayaḥ 51 ye 'nyāyena jihīrṣanto janā icchanti karhi cit akūjanena cen mokṣo nātra kūjet kathaṃ cana 52 avaśyaṃ kūjitavyaṃ vā śaṅkeran vāpy akūjataḥ śreyas tatrānṛtaṃ vaktuṃ satyād iti vicāritam 53 prāṇātyaye vivāhe vā sarvajñāti dhanakṣaye narmaṇy abhipravṛtte vā pravaktavyaṃ mṛṣā bhavet adharmaṃ nātra paśyanti dharmatattvārtha darśinaḥ 54 yaḥ stenaiḥ saha saṃbandhān mucyate śapathair api śreyas tatrānṛtaṃ vaktuṃ tat satyam avicāritam 55 na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃ cana pāpebhyo hi dhanaṃ deyaṃ śakye sati kathaṃ cana tasmād dharmārtham anṛtam uktvā nānṛta vāg bhavet 56 eṣa te lakṣaṇoddeśaḥ samuddiṣṭo yathāvidhi etac chrutvā brūhi pārtha yadi vadhyo yudhiṣṭhiraḥ 57 [arj] yathā brūyān mahāprājño yathā brūyān mahāmatiḥ hitaṃ caiva yathāsmākaṃ tathaitad vacanaṃ tava 58 bhavān mātṛsamo 'smākaṃ tathā pitṛsamo 'pi ca gatiś ca paramā kṛṣṇa tena te vākyam adbhutam 59 na hi te triṣu lokeṣu vidyate 'viditaṃ kva cit tasmād bhavān paraṃ dharmaṃ veda sarvaṃ yathātatham 60 avadhyaṃ pāṇḍavaṃ manye dharmarājaṃ yudhiṣṭhiram yasmin samayasaṃyoge brūhi kiṃ cid anugraham idaṃ cāparam atraiva śṛṇu hṛtsthaṃ vivakṣitam 61 jānāmi dāśārha mama vrataṃ tvaṃ; yo māṃ brūyāt kaś cana mānuṣeṣu anyasmai tvaṃ gāṇḍivaṃ dehi pārtha; yas tvatto 'strair bhavitā vā viśiṣṭaḥ 62 hanyām ahaṃ keśava taṃ prasahya; bhīmo hanyāt tūbaraketi coktaḥ tan me rājā proktavāṃs te samakṣaṃ; dhanur dehīty asakṛd vṛṣṇisiṃha 63 taṃ hatvā cet keśava jīvaloke; sthātā kālaṃ nāham apy alpamātram sā ca pratijñā mama lokaprabuddhā; bhavet satyā dharmabhṛtāṃ variṣṭha yathā jīvet pāṇḍavo 'haṃ ca kṛṣṇa; tathā buddhiṃ dātum adyārhasi tvam 64 [vā] rājā śrānto jagato vikṣataś ca; karṇena saṃkhye niśitair bāṇasaṃghaiḥ tasmāt pārtha tvāṃ paruṣāṇy avocat; karṇe dyūtaṃhy adya raṇe nibaddham 65 tasmin hate kuravo nirjitāḥ syur; evaṃ buddhiḥ pārthivo dharmaputraḥ yadāvamānaṃ labhate mahāntaṃ; tadā jīvan mṛta ity ucyate saḥ 66 tan mānitaḥ pārthivo 'yaṃ sadaiva; tvayā sabhīmena tathā yamābhyām vṛddhaiś ca loke puruṣapravīrais; tasyāvamānaṃ kalayā tvaṃ prayuṅkṣva 67 tvam ity atra bhavantaṃ tvaṃ brūhi pārtha yudhiṣṭhiram tvam ity ukto hi nihato gurur bhavati bhārata 68 evam ācara kaunteya dharmarāje yudhiṣṭhire adharmayuktaṃ saṃyogaṃ kuruṣvaivaṃ kurūdvaha 69 atharvāṅgirasī hy eṣā śrutīnām uttamā śrutiḥ avicāryaiva kāryaiṣā śreyaḥ kāmair naraiḥ sadā 70 vadho hy ayaṃ pāṇḍava dharmarājñas; tvatto yukto vetsyate caivam eṣaḥ tato 'sya pādāv abhivādya paścāc; chamaṃ brūyāḥ sāntvapūrvaṃ ca pārtham 71 bhrātā prājñas tava kopaṃ na jātu; kuryād rājā kaṃ cana pāṇḍaveyaḥ mukto 'nṛtād bhrātṛvadhāc ca pārtha; hṛṣṭaḥ karṇaṃ tvaṃ jahi sūtaputram 72 [s] ity evam uktas tu janārdanena; pārthaḥ praśasyātha suhṛd vadhaṃ tam tato 'bravīd arjuno dharmarājam; anuktapūrvaṃ paruṣaṃ prasahya 73 mā tvaṃ rājan vyāhara vyāharatsu; na tiṣṭhase krośamātre raṇārdhe bhīmas tu mām arhati garhaṇāya; yo dyudhyate sarvayodhapravīraḥ 74 kāle hi śatrūn pratipīḍya saṃkhye; hatvā ca śūrān pṛthivīpatīṃs tān yaḥ kuñjarāṇām adhikaṃ sahasraṃ; hatvānadat tumulaṃ siṃhanādam 75 suduṣkaraṃ karma karoti vīraḥ; kartuṃ yathā nārhasi tvaṃ kadā cit rathād avaplutya gadāṃ parāmṛśaṃs; tayā nihanty aśvanaradvipān raṇe 76 varāsinā vājirathāśvakuñjarāṃs; tathā rathāṅgair dhanuṣā ca hanty arīn pramṛdya padbhyām ahitān nihanti yaḥ; punaś ca dorbhyāṃ śatamanyuvikramaḥ 77 mahābalo vaiśravaṇāntakopamaḥ; prasahya hantā dviṣatāṃ yathārham sa bhīmaseno 'rhati garhaṇāṃ me; na tvaṃ nityaṃ rakṣyase yaḥ suhṛdbhiḥ 78 mahārathān nāgavarān hayāṃś ca; padātimikhyān api ca pramathya eko bhīmo dhārtarāṣṭreṣu magnaḥ; sa mām upālabdhum ariṃdamo 'rhati 79 kaliṅga vaṅg anaṅga niṣādamāgadhān; sadā madān nīlabalāhakopamān nihanti yaḥ śatrugaṇān anekaśaḥ; sa mābhivaktuṃ prabhavaty anāgasam 80 suyuktam āsthāya rathaṃ hi kāle; dhanur vikarṣañ śarapūrṇamuṣṭiḥ sṛjaty asau śaravarṣāṇi vīro; mahāhave megha ivāmbudhārāḥ 81 balaṃ tu vāci dvijasattamānāṃ; kṣātraṃ budhā bāhubalaṃ vadanti tvaṃ vāgbalo bhārata niṣṭhuraś ca; tvam eva māṃ vetsi yathāvidho 'ham 82 yatāmi nityaṃ tava kartum iṣṭaṃ; dāraiḥ sutair jīvitenātmanā ca evaṃ ca māṃ vāg viśikhair nihaṃsi; tvattaḥ sukhaṃ na vayaṃ vidma kiṃ cit 83 avāmaṃsthā māṃ draupadī talpa saṃstho; mahārathān pratihanmi tvadarthe tenātiśaṅkī bhārata niṣṭhuro 'si; tvattaḥ sukhaṃ nābhijānāmi kiṃ cit 84 proktaḥ svayaṃ satyasaṃdhena mṛtyus; tava priyārthaṃ nadadeva yuddhe vīraḥ śikhaṇḍī draupado 'sau mahātmā; mayābhiguptena hataś ca tena 85 na cābhinandāmi tavādhirājyaṃ; yatas tam akṣeṣv ahitāya saktaḥ svayaṃ kṛtvā pāpam anāryajuṣṭam; ebhir yuddhe tartum icchasy arīṃs tu 86 akṣeṣu doṣā bahavo vidharmāḥ; śrutās tvayā sahadevo 'bravīd yān tān naiṣi sāṃtartum asādhu juṣṭān; yena sma sarve nirayaṃ prapannāḥ 87 tvaṃ devitā tvatkṛte rājyanāśas; tvat saṃbhavaṃ vyasanaṃ no narendra māsmān krūrair vāk pratodais tuda tvaṃ; bhūyo rājan kopayann alpabhāgyān 88 etā vācaḥ paruṣāḥ sāvya sācī; sthiraprajñaṃ śrāvayitvā tatakṣa tadānutepe surarājaputro; viniḥśvasaṃś cāpy asim udbabarha 89 tam āha kṛṣṇāḥ kim idaṃ punar bhavān; vikośam ākāśanibhaṃ karoty asim prabrūhi satyaṃ purar uttaraṃ vidher; vacaḥ pravakṣyāmy aham arthasiddhaye 90 ity eva pṛṣṭhaḥ puruṣottamena; suduḥkhitaḥ keśavam āha vākyam ahaṃ haniṣye svaśarīram eva; prasahya yenāhitam ācaraṃ vai 91 niśamya tat pārtha vaco 'bravīd idaṃ; dhanaṃjayaṃ dharmabhṛtāṃ variṣṭhaḥ prabrūhi pārtha svaguṇān ihātmanas; tathā svahārdaṃ bhavatīha sadyaḥ 92 tathāstu kṛṣṇety abhinandya vākyaṃ; dhanaṃjayaḥ prāha dhanur vināmya yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭhaṃ; śṛṇuṣva rājann iti śakrasūnuḥ 93 na mādṛśo 'nyo naradeva vidyate; dhanurdharo devam ṛte pinākinam ahaṃ hi tenānumato mahātmanā; kṣaṇena hanyāṃ sacarācaraṃ jagat 94 mayā hi rājan sadig īśvarā diśo; vijitya sarvā bhavataḥ kṛtā vaśe sa rājasūyaś ca samāptadakṣiṇaḥ; sabhā ca divyā bhavato mamaujasā 95 pāpau pṛṣatkā likhitā mameme; dhanuś ca saṃkhye vitataṃ sabāṇam pādau ca me saśarau sahadhvajau; na mādṛśaṃ yuddhagataṃ jayanti 96 hatā udīcyā nihatāḥ pratīcyāḥ; prācyā nirastā dākṣiṇātyā viśastāḥ saṃśaptakānāṃ kiṃ cid evāvaśiṣṭaṃ; sarvasya sainyasya hataṃ mayārdham 97 śete mayā nihatā bhāratī ca; camū rājan deva camū prakāśā ye nāstrajñās tān ahaṃ hanmi śastrais; tasmāl lokaṃ neha karomi bhasmasāt 98 ity evam uktvā punar āha pārtho; yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham apy aputrā tena rādhā bhavitrī; kuntī mayā vā tad ṛtaṃ viddhi rājan prasīda rājan kṣama yan mayoktaṃ; kāle bhavān vetsyati tan namas te 99 prasādya rājānam amitrasāhaṃ; sthito 'bravīc cainam abhiprapannaḥ yāmy eṣa bhīmaṃ samarāt pramoktuṃ; sarvātmanā sūtaputraṃ ca hantum 100 tava priyārthaṃ mama jīvitaṃ hi; bravīmi satyaṃ tad avehi rājan iti prāyād upasaṃgṛhya pādau; samutthito dīptatejāḥ kirīṭī nedaṃ cirāt kṣipram idaṃ bhaviṣyaty; āvartate 'sāv abhiyāmi cainam 101 etac chrutvā pāṇḍavo dharmarājo; bhrātur vākyaṃ paruṣaṃ phalgunasya utthāya tasmāc chayanād uvāca; pārthaṃ tato duḥkhaparīta cetāḥ 102 kṛtaṃ mayā pārtha yathā na sādhu; yena prāptaṃ vyasanaṃ vaḥ sughoram tasmāc chiraś chinddhi mamedam adya; kulāntakasyādhama puruṣasya 103 pāpasya pāpavyasanānvitasya; vimūḍhabuddher alasasya bhīroḥ vṛddhāvamantuḥ paruṣasya caiva; kiṃ te ciraṃ mām anuvṛtya rūkṣam 104 gacchāmy ahaṃ vanam evādya pāpaḥ; sukhaṃ bhavān vartatāṃ madvihīnaḥ yogyo rājā bhīmaseno mahātmā; klībasya vā mama kiṃ rājyakṛtyam 105 na cāsmi śaktaḥ paruṣāṇi soḍhuṃ; punas tavemāni ruṣānvitasya bhīmo 'stu rājā mama jīvitena; kiṃ kāryam adyāvamatasya vīra 106 ity evam uktvā sahasotpapāta; rājā tatas tac chayanaṃ vihāya iyeṣa nirgantum atho vanāya; taṃ vāsudevaḥ praṇato 'bhyuvāca 107 rājan viditam etat te yathā gāṇḍīvadhanvanaḥ pratijñā satyasaṃdhasya gāṇḍīvaṃ prati viśrutā 108 brūyād ya evaṃ gāṇḍīvaṃ dehy anyasmai tvam ity uta sa vadhyo 'sya pumāṁl loke tvayā cokto 'yam īdṛśam 109 ataḥ satyāṃ pratijñāṃ tāṃ pārthena parirakṣatā macchandād avamāno 'yaṃ kṛtas tava mahīpate gurūṇām avamāno hi vadha ity abhidhīyate 110 tasmāt tvaṃ vai mahābāho mama pārthasya cobhayoḥ vyatikramam imaṃ rājan saṃkṣamasvārjunaṃ prati 111 śaraṇaṃ tvāṃ mahārāja prapannau sva ubhāv api kṣantum arhasi me rājan praṇatasyābhiyācataḥ 112 rādheyasyādya pāpasya bhūmiḥ pāsyati śoṇitam satyaṃ te pratijānāmi hataṃ viddhy adya sūtajam yasyecchasi vadhaṃ tasya gatam evādya jīvitam 113 iti kṛṣṇa vacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ sasaṃbhramaṃ hṛṣīkeśam utthāpya praṇataṃ tadā kṛtāñjalim idaṃ vākyam uvācānantaraṃ vacaḥ 114 evam etad yathāttha tvam asty eṣo 'tikramo mama anunīto 'smi govinda tāritaś cādya mādhava mokṣitā vyasanād ghorād vayam adya tvayācyuta 115 bhavantaṃ nātham āsādya āvāṃ vyasanasāgarāt ghorād adya samuttīrṇāv ubhāv ajñānamohitau 116 tvad buddhipravam āsādya duḥkhaśokārṇavād vayam samuttīrṇāḥ sahāmātyāḥ sanāthāḥ sma tvayācyuta |